पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ग प्रभा. मादाय विनिगमनाविरहापत्तिः द्रव्यत्वस्य प्रतिवन्धकतावच्छेदकत्वं तु धर्भिग्राहकमानसिद्धम् । नच रास्य गनादिवृत्तित्वे मानाभाव इति वाच्यम् भूतत्वेन तुल्य व्यक्तिकत्वापत्त्या विनिगमनाविरहेण गगनादिवृत्ति- वाभ्युपगमात् । नच भूतत्वेन तुल्यव्यक्तिकत्वापत्तिवारणाय मनोवृत्तित्वमेव द्रव्यत्वे कल्प्यता गगनादिवृ- तित्वकल्पने गौरवात् गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन सांकर्यवारणाय मनोवृत्तित्वस्यावश्यकत्वादिति वाच्यम्। तथासति मूर्तत्वजात्या द्रव्यत्वस्य तुल्य व्यक्तिकत्वापत्तिरिति प्रकारान्तरेण द्रव्यत्व जात्तिसाधनमाहुः । तदसत् भूतत्वस्य प्रतिबन्धकतावच्छे दकत्वे मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहापत्तिरिति दूषणं न सम्यक् शब्दस्पर्शान्यतरवत्त्वरूपभूतत्वस्य मूर्तत्वजात्यपेक्षया गुरुभूतत्वेन संभवति लघ।विति न्याये न लाघवस्यैव विनिगमकत्वेन मूर्तत्वस्यैव प्रतिबन्धकतावच्छेदकत्वसिद्धेः । भूतत्वेन तुल्यव्यक्तिकत्वा- पत्त्या विनिगमनाविरहेण गगनादिवृत्तित्वाभ्युपगमादिति दूषणमप्यलग्नकम् पृथिव्यादिपञ्चवृत्तिभूतत्वेन पृथिव्यादिचतुष्टय वृत्तिद्रव्यत्वजातेः तुल्यव्यक्तिकत्वाप्रसक्तः । नच पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वेन मञ्जूषा. योगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणतयेति चेन्न । गुणादौ संयोगत्वावच्छिन्नानुत्पादे संयोगत्वव्याप्यत- तद्धर्मावच्छिन्नजनकसामग्र्यभावकूटस्थ प्रयोजकत्वे गौरवेण तदावश्यकत्वात् । यदितु संयोगत्वव्यापक- सत्वावच्छिन्नं प्रति द्रव्यत्वेन दर्शितकारगतयाप्युपपत्तिरिति मन्यते तदा कार्यमात्रवृत्तेसंयोगत्वजातेः कार्य- तावच्छेदकत्वानुरोधेनैवोक्त कारणताऽऽवश्यकाति बोध्यम् । एवं विभागस्थलेऽपि । अत्र द्वित्वादिसमवायि- कारणतावच्छेदकतयाऽपि द्रव्यत्वजातिसिद्धिरस्मद्गुरुचरणेरुता । नचात्र सर्वत्र परंपरासंबन्धेन गुणत्वस्यैवा- वच्छेदकत्वमस्त्विति वाच्यम् । साक्षात्संबद्धधर्मबाधे सत्येवानुमितेः परंपरासंबद्धधर्मविषय करवस्य चाच्यत्वा- तू एकत्वत्यैकपृथक्तवत्वसंख्यात्वादिकमादाय विनिगमनाविरहाच । अन्न कोचि व्यवति द्रव्यान्तरानुत्पत्या समवायेन द्रव्यस्य प्रतिबन्धकत्वं कल्पनीयमिति प्रतिवन्धकतावच्छेदकतया द्रव्यत्वजातिसिद्धिः प्रतिबध्य- तावच्छेदकं च पृथिव्यादिचतुष्टयमात्रवृत्तिस्पर्शसमवायिकारणतावच्छेदकतया द्रव्य समवायिकारणतावच्छेद- कतया वा सिद्धजातिविशेषरूपं , पृथिवीत्वादिना सांकर्यवारणाय स्वीकृतान्त्यावयविवृत्तिकं भूतत्वं नतु द्रव्य त्वं मूर्तत्वं वा बहुतरनित्यद्रव्यव्यावृत्तधर्मस्य प्रतिवध्यतावच्छेदकरवे संभवति तत्साधारणधर्मस्य तथास्वानो. चित्यात् । भूतत्वस्य प्रतिबन्धकतावच्छेदकत्वे तु मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहः । नच तस्य गगनादिवृत्तित्वे मानाभाव इति वाच्यम् । भूतत्वेन तुल्यव्यक्तिकत्वापत्त्या विनिगमनाविरहेण गगना- दिपञ्चवृत्तित्वाभ्युपगमात् । नच घटत्वकलशस्वयोरिवाभेदस्वीकारेण तुल्यव्यक्तिकत्ववारणमस्त्विति वाच्यम् तावता भूतत्वत्यैव प्रतिबन्धकतावच्छेदकत्वनाप्त्या मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहस्यावा- रणात् । नच गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन साङ्कर्यवारणाय मनोवृत्तित्वस्यावश्यकतया कि गग- नादिवृत्तित्वकल्पनेनेति वाच्यम् । तथा सांते मूर्तत्वजावा द्रव्यत्वस्य तुल्यव्यक्तिकस्वापत्तेः अभेद- दिनकरीयम् . वेन समवायिकारणत्वस्यावश्यकतया गुणादौ तदुत्पादासम्भवादिति वाच्य, कार्य मात्रवृत्तिजातेः कार्यताव-. रामरुद्रीयम्. विशेषपरताभ्युपगमादुक्तार्थलाभः । सत्पदस्य सत्तावदर्थकत्वे नित्यगुणव्यावर्तनाय जन्यत्वप्रवेशस्यावश्यकतया तत एव जातिवारणे तद्वारकसत्पदवैयापत्तेः । प्रागभावस्य सर्वमतासिद्धतया प्रागभावप्रतियोगित्वं नोपात्त- मिति ध्येयम् । आवश्यकतयेति ॥ अन्यथा एकत्र समवेतस्यापरत्र समवायेनोत्पादप्रसंगादिति भावः । बस्तुतस्तु उक्तकार्यकारणभावस्य प्रतिव्यक्ति भिन्नतया घटादौ नित्यगुणाभावेन तदभिप्रायेण जातिमात्रव्यावर्त. नाय लाघवेन सत्पदं यथाश्रुतमेव सम्यगिति प्रतिभाति । गगनादिस्थल एवागत्या जन्यत्वं प्रवेश्य कोयकार- णभाव इति भावः । कार्यमात्रवृत्तिजातेरिति ॥ अन्यथा तदवच्छिन्नस्याकस्मिकत्वापत्तेरिति भावः ।