पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ कारिावली प्रभा. तुल्यव्यक्तिकत्वापादने तात्पर्य भिति वाच्यम् । पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वं स्पर्शवत्त्वरूपं पृथिवीत्वादि- चतुष्टय न्यतमवत्वं वा नाद्यः स्पर्शवत्त्वस्य जातिरूपत्वाभावेन तेन सह तुल्यव्यक्तिकत्वस्यादोषत्वादन्यथा पृथिवीवादरपि गन्धवत्वादिना तुल्यव्यक्तिकत्वेन पृथिवीत्वा देरपि जातित्यानुपपत्तेः । न द्वितीयः मूर्तत्वस्यापि पृथिवीत्वाप्त्वतेजस्त्ववायुत्वमनस्त्वान्यतमत्वावच्छिन्नन सह तुल्यव्यक्तिकत्वान्मूर्तत्वस्यापि जातित्वानुपप- तेः । नन्वेष्टापन्तिः मूतत्वजात्या द्रव्यत्वस्य तुल्य व्यक्तिकत्वापत्तिरित्यप्रेतनत्वदुक्तप्रन्थविरोधापत्तेः । तस्मात्स्व- भिन्न कजातिसमाने यतत्वमेव तुल्यव्यक्तिकत्वं वाच्यम् । एवंच द्रव्यत्वस्य पृथिवीत्वादिजातिचतुष्टयान्यतमेन सह तुल्यव्यक्तिकत्वेऽपि एकजात्या सह तुल्यव्यक्तिकत्वाभावात् न तस्य गगनादिवृत्तित्व संभवः । नच पृथि- व्यादि चतुथ्यमात्रवृत्तिभूतत्वं द्रव्य समवारिकारणतावच्छेदकतया सिद्धो जाति वशेषः तस्य चरमावयववृत्ति- त्वं स्वीक्रियते तेषामनित्यत्वेन निलस्येत्यादिनियमानवकाश इति वाच्यम् द्रव्यत्वजातिसिद्धेः प्राक द्रव्य- समवाय कारणतावच्छेदकतया पृथिव्यादिचतुष्टयमात्रवृत्तिजातिसिद्धरसंभवात् । अस्तु वा तादृश जातिविशे- मम्जूपा. स्वीकारे च भूतत्वस्थ प्रतिबन्धकतावच्छेदकतामादाय विनिगमनाविरहापत्तरित्याहुः । तन्न अत्यन्ता- प्रतिबन्धकबहुतव्याक्तिव्यावृत्तधर्मस्य प्रतिबन्धकतावच्छेदकत्वे संभवति तत्साधारणधर्मस्य तथात्वानी- चियेन अणुरपि विश पोऽध्यवसायकर इति न्यायन मूर्तत्वस्य तथात्वमादाय विनिगमनाविरहप्रसक्ते- रभावन भूतत्वस्यैव प्रतिबन्धकतावच्छेदकत्वसंभवात् । साधर्म्य प्रकरणे जलत्यादीनां द्रव्यत्वसाक्षाव्या- प्यत्वस्य अग्रे वक्ष्यमाणतया दर्शिनभूतत्वमूर्तत्व जात्याग्रन्थकुदभिमतत्वाच्च । किंच न पृथिव्यादिचतुष्टयवृत्ति- भूतत्व जाती प्रमाणमस्ति तद्धि न प्रत्यक्षण द्रव्यत्वादतिरिक्तमनुभूयत नाप्यनुमानगम्यं योग्यवृत्तिजाते. ग्यित्वापत्तेरनुमानभ्याप्यसंभवाच । तद्धि न द्रव्यसमवायिकारणताचच्छेदकतया सिध्यति द्रव्यारम्भ- कविजातीचावयवसंयोगाभावात् समवायेन द्रव्यं प्रति स्पर्शस्य समवाय संबन्धन हेतुत्वस्वीकारद्वा ग- गनाद। द्रव्योत्पत्तिवारणसंभवेन अतिरिक्तभूतत्व जातिपुरस्कारेण पृथिव्यादीनां कारणताया अप्रामाणिकत्वात् नापि स्पर्शसमवायिकारणतावच्छेदकतया तसिद्धिः तत्र प्रमाणाभावात् नहि स्पर्शत्वं कार्यमात्रवृत्ति येन कार्यताविपनियाम्यतथैव तथात्वमावश्यकं स्यान अनुपदोक्कद्रव्य कारणत्वादेरेव स्पर्शत्वजातिनि- यामकता या मतद्वयेऽप्यावश्यकत्वात् नच गगनादी स्पर्शत्वावच्छिन्नाभावे अनुगतप्रयोजकलाभाय तद्धेतु- त्वमावश्या कामिति वाच्यम् । योग्यवृत्तिजातेर्योग्यत्वनियमेन पृथिवीजलादिषु द्रव्यत्वादतिरिक्त स्यानुगतध- भंस्य प्रत्यक्षतोऽनुपलम्भन कल्पयितुमशक्यतया साथ यसमवेतत्वसंवन्धावच्छिन्न प्रतियोगिताकानुष्णाशीत- द्यभावसमवायसंबन्धावच्छिनप्रतियोगिताकविजातीयामिपंयोगाभावकूटस्यैत्र अनायत्या तत्प्रयोजकताया व. क्तव्यत्वात् अन्यथा रूपसमवायिकारणतावच्छेदकतया पृथिव्यादिपु लिघु रससमवायिकारणतावच्छेदकतया पृथिवीजलयोनैमित्तिकद्रवत्वसमचायिकारणतावच्छेदकतथा पृथिव'तेजसोरनुष्णाशीतस्पर्शसमवायिकारणताव- दिनकरीयम्. च्छेदकत्वानियमेन तादृशकारणत्वस्यावश्यकत्वात् । नित्यसंयोगाङ्गीकर्तुर्मतसाधारण्येनाह । विभागस्यैवेति ॥ द्रव्यत्वसिद्धेः द्रव्यत्वजातिसिद्धेः । क्वचित्तथैव पाटः । अत्र यद्यपि गुणत्वेनान्यधासिद्धिः सम्भवति तथापि साक्षात्सम्बद्धधर्मबाधे सत्येवानुमितेः परम्परासम्बद्धधर्मविषयकत्वमिति भावः । इदमुपलक्षणम् । द्रव्यवति द्रव्यान्तरानुत्पत्त्या समवायेन द्रव्यस्य प्रतिवन्धकत्वं कल्पनीयमिति प्रतिबन्धकतावच्छेदकतया द्रव्य- त्वजातिसिद्धिः, प्रतिबध्यतावच्छेदकं तु पृधिव्यादिचतुष्टय मात्रवृत्तिभूतत्वमेव, नित्यव्यावृत्तत्वात् , भूतत्वस्य रामरुद्रीयम्. गुणत्वनान्यथासिद्धिरिति ॥ स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन गुणत्वस्यापि द्रव्यनिष्टकार- पतावच्छेदकत्वसंभवादिति भावः । नित्यव्यावृत्त त्वादिति ॥ यद्यपि भूतत्वं पृथिव्यादिपरमा-