पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८३ प्रभा. नीलं प्रत्यवयवनीलस्य हेतुत्वं न संभवति स्वाश्रयसमवेतत्वविशिष्टद्रव्यत्वस्य द्रव्यत्त्वविशिष्टस्वाश्रय समवेतत्वस्य वा कारणतावच्छेदकसंबन्धन्वामित्यत्र विनिगमकाभावात स्वाश्रयसमंवत्तत्वद्रव्यत्वोभयत्वावच्छिन्नस्यैकसंव- न्धेनावर्तमानतया संवन्धत्वासंभवात् सकलद्रव्यसाधारणद्रव्यत्वसिद्धेः प्राक् द्रव्यत्वघटितस्य संवन्धत्वासं- भवाच्च । प्रागभाव प्रतियोगित्वरूपकार्यत्वस्य कालिकसंबन्धेन घटत्वादिकमादाय विनिगमनाविरहोऽपि न सं- भवति तेन संवन्धेन घटत्वादेर्महाकालवृत्तित्वात् प्रागभावव्यक्तिभेदेन प्रतियोगिव्यक्तिभेदेन च प्रागभाव- प्रतियोगित्वरूपकार्यत्वस्याननुगततया महाकालान्यवृत्तिविशेषणतासंवन्धेन घटत्वादेर्महाकालवृत्तित्वेऽपि तेन संबंन्धेनाप्यनुगतघटत्वादिकमादाय विनिगमनाविरहासंभवाच । चतुर्विंशतिगुणविभाजकधर्मागां मध्ये केषां- चित् पृथिव्यादिमनोऽन्तसकलवृत्तितावच्छेदकत्वासंभवात् केषांचिन्नित्यगुणवृत्तित्वाच्च संयोगत्वविशिष्टस्य कार्य- बमभिहितम् । यद्यप्यत्राप्युक्तरीत्या तत्तव्यक्ति समवेतकार्य प्रति तत्तद्वयक्तित्वेन समवायिकारणत्वस्वीका- रेणैच सामन्जस्ये संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वानङ्गीकारेऽपि न क्षतिः तथापि कार्यमात्रवृत्तिजा. मजूषा. तावच्छेदकजात्य वच्छिन्नं कुतो न शक्यतेऽनावापादयितुम् । तद्वारणं च तादृशजातिव्यापकनीलवाद्यवच्छिन्नं प्रति पृथिव्याः कारणत्वकल्पनया शक्यमेव किंच जातरनियाम्यत्वेन सर्वेषां सर्वजातीयत्वं एकजातीयत्वं वा स्यादिति जातेनियामकापेक्षायां कार्यमात्रवृत्तिजातेः कार्यताविशेषनियाम्यतायास्सिद्धान्तसिद्धत्वेन त- त्राग्निसंयोगावयवनीलादिजन्यताविशेषयोयोनीलत्वादिजातिनियामकत्वे गौरवापत्त्या नालवाद्यवच्छिन्नं प्रति पृथिवीत्वादिना हेतुतां स्वीकृत्य तादृशजन्यताविशेषस्यैव नीलत्वादिजातिनियामकत्व आवश्यकम् । अत एव कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वमिति नियमः । नियाम्यानियामकभावश्चायं प्रातातिकस्त्र- रूपसंबन्धविशेषः । तथाच कि कार्यत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणतास्वीकारेणेति चेन्न । गुणादी सम- वायसंवन्धेन कार्यत्वावच्छिन्नानुत्पादे कार्यत्वव्याप्यतत्तद्धर्मावच्छिन्नजनकसामन्यभावकूटस्य प्रयोजकत्व- कल्पनापेक्षया द्रव्यभेदस्यकस्यानुगतस्य प्रयोजकतास्वीकारे लाघवानुरोधेन तादृश कारणताया आवश्यक- त्वात् । नचैवं गुणादी भावत्वप्रमेयत्वाद्यनन्तधर्मावच्छिन्नानां समवायेनानुत्पादनयोजकभेदप्रतियोगितया कारणान्तराणि स्युरिति वाच्यम्। समवायेन भावत्वाचवच्छिन्नोत्पत्तिं प्रति समवायेन या व्यापकता तद- वच्छेदकीभूतकार्यत्वावच्छिन्नजनकद्रव्यभेदस्थैव समवायेन भावत्वाद्यवच्छिन्नानुत्पादप्रयोजकत्वसंभवात् । नच तथापि द्रव्यजन्यतावच्छेदक कार्यत्वं भावत्वादिकमेवेत्यत्र विनिगमनाचिरह इति वाच्यम् । कार्यताशून्य. बहुतरव्यक्तिव्यबृत्तधर्मस्य कार्यतावच्छेदकत्वे संभवति तत्साधारणधर्मस्य कार्यतावच्छेदकताया अन्याय्य- स्वात् । एवञ्च उक्तकार्यतावच्छेदकतयैव सत्ताजातिरपि सिद्धयति तस्याश्च द्रव्यत्वादिना सार्यवारणाय नित्यसाधारण्यम् । कार्यतातिप्रसक्तधर्मस्य कार्यताबच्छेदकत्वानङ्गीकारे त्वस्मद्गुरुचरणोपदर्शितसंवन्धत्रयस्य कार्यतावच्छेदकतावच्छेदकत्वं वाच्यम् । समवायेन कार्यत्वभावत्वाद्यवच्छिन्नोत्पत्तिव्यापकतावच्छेदकस. दिनकरीयम्. मानाभावः, न च नीले नीलोत्पत्तिवारणाय तथा हेतुत्वमावश्यकमिति वाच्यं, समवायेन नाल प्रति स्वाश्रय समवेतद्रव्यत्वसम्बन्धेन नीलस्य हेतुतयेव तद्वारणात् कार्यत्वस्य कार्यतावच्छेदकत्वे गौरवात् कालिकसम्बन्धेन रामरुद्रीयम्. स्य कार्यतावच्छेदकत्वेऽनन्तस्वरूपाणां कार्यतावच्छेदकताघटकसंसर्गता स्वीकरणीया, सत्त्वस्य तथात्वे तु एकस्य समवायस्यैव तथाविधसंसर्गता कल्पनीयेति लाघवमभिप्रेत्याह । जन्यसत्त्वरूपति ॥ स्वाश्रयसम- घेतद्रव्यत्वेति ।। स्वाश्रयसमवेतत्वसम्बन्धेन स्वस्मिन्नपि नीलस्य सत्त्वेन तत्र नालोत्पत्तिवारणाय सम्बन्ध- कोटी द्रव्यत्वप्रवेशः । नन्वेवमुक्तकार्यकारणभावविरहेऽप्युक्तकारणतावच्छेदकसंसर्गघटकतयैव द्रव्यत्वजातिसि- द्विनिष्प्रत्यूहेवेति सिद्धं नः समीहितमित्यत आह । कार्यत्वस्येति ॥ ननु तर्हि लाघवात्कालिकसम्बन्धन