पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । ८१ प्रभा. त्यर्थः । घृतेति ॥ प्रभृत्यन्तपदं हिरण्यभिन्नमात्रोपलक्षकम् । तथाच पामराणां हिरण्यभिन्ने द्रव्यत्वप्रकार- कज्ञानाभावेन नवद्रव्येषु द्रव्यत्वरूपजातिसाधकानुगतप्रतीतेरभावात् नोक्तप्रतीत्या द्रव्यत्वजातिसिद्धिर्भवती ति भावः । कार्येति ॥ समवायेन कार्य प्रति तादात्म्येन द्रव्यम्य हेतुतया तदवच्छेदकतया द्रव्यत्वजातिसि- लिरिति भावः । नच प्रागभावप्रतियोगित्वरूपकार्यत्वं न कार्यतावच्छेदकम् तस्य ध्वंससाधारणत्वादननुगतत्वा- चेति वाच्यम् स्वत्तिमहाकालभेदबत्त्वकालिकविशेषणत्वसमवायतत्रितयसंबन्धेन सत्त्वरूपकार्यत्वस्यैव का. यतावच्छेदकत्वात् तस्यानुगतत्वात् । महाकालवारणाय स्ववृत्तिमहाकालभेदवत्त्वस्य कार्यतावच्छेदकताब- च्छेदकसंबन्धकोटौ निवेशः । स्ववृत्तिभेदवत्त्वं दैशिकविशेषणतया बोध्यम् नातस्संबन्धान्तरेण तादृशभेदवत्त्व- मादाय उक्त दोषत दवस्थ्यम् आकाशादिवारणाय तत्कोटो कालिकसंबन्धनिवेशः । ध्वंसवारणाय तत्कोटी समवायसंबन्धनिवेशः । तथाच निरुक्तत्रित्तय संबन्धात्रच्छिन्नसत्तानिष्ठावच्छेद ऋतानिरूपित्तसमवायसंबन्धाव- च्छिन्न कार्यतानिरूपिततादात्म्यसंबन्धावच्छिन्न कारणतावच्छेदकतथा द्रव्यत्व जातिसिद्धिरिति भावः । नचैता- मजूपा. भगवत एव रामकृष्णादिरूपत्वप्रतिपादकानां च बहुप्रमाणानां व्याघानापत्तेः य एष रा- कृष्णाद्यवतार- स्स्वगुणक्रियाजन्मानुभवेन जगद्धन्यायितुं भगवता प्रवयते तच्छरीरहेतुरेव संसायदृष्टवश इत्यवधेयम् । आचार्यास्तु भौतिकाः परमाणव एवेश्वरस्य शरीराणि । तथाहि विधतश्चक्षुरुत विश्वतोमुखो विश्वतोहत उत विश्वतस्पात संबाहुभ्यां नमति संपतत्त्रयावापृथिवी जनयन् देव एक इत्यादिश्रुतिभिर्यथा लोके घटादि कार्थ जनयन् कुलालादिः पाणिपादाद्यवयाप्रियते एवं द्यावापृथिव्युपलक्षित कृत्स्नं जगजनयन् परमेश्व. रोऽपि पाणिपादादिभिस्सर्वतो व्याप्रियत इत्यवगम्यते । ते च पाणिपादादयः परिशेषात्परमाणव ऐवत्याहु. रित्यलं विस्तरेण । घृतेति । तथाच हिरण्यादिष्वेव लोकानां द्रव्यशब्दोल्लिखिता प्रतीतिरिति भावः । यद्यपि द्रव्यशब्दोल्लेखाभावेऽपि पृथिवीजलादिष्वनुगतो जातिविशेषः प्रत्यक्षसिद्ध एव चक्षुरादिसंयुक्तसमवायसत्त्वात् । तथापि तस्य पृथिवीत्यादिना सार्यवारणाय परमाणुद्वयणुकसाधारण्यसिद्धावपि गगनादिसाधारज्यं न सिध्ये- दिति सर्वद्रव्यसाधारणद्रव्यत्वजातिसिद्धयर्थ अनुमानप्रमाणमाह । कार्यति । कार्यत्वं प्रागभावप्रतियोगित्वम् नच समवायसंवन्धावच्छिन्नकार्थताशुन्यध्वंससाधारणस्य कार्यत्वम्य कथं कार्यतावच्छेदकत्वमिति वाच्यम् । कार्यतातिरिक्तवृत्तिधर्मस्यापि कार्यतावच्छेदकत्वे बाधकाभावात् एतच्च कारणतानिरूपणे स्फुटतरमुपपादयि- ध्यामः । महादेवस्तु सत्वविशिष्टकार्यत्वं कार्यतावच्छेदकमित्याह । अम्मद्गुरुचरणास्तु स्ववृत्तिमहाकालभेदव- त्वक लिकविशेषणत्वसमबाथैतस्त्रितयसंबन्धेन सत्तायाः कार्यतावच्छेदकत्वम् । अत्र च महाकालवारणाय स्ववृत्तिमहाकालभेदबत्त्वनिवेशः । शेषं सुगम मित्याहुः । अयं च कार्यकारणभावः नीले नीलादापत्तिवारणाय स्वीकरणीयः । अन्यथा स्वाश्रयसमवेतत्वसंबन्धेन नीलत्वावच्छिन्नवति नीले समवायेन नीलापत्तेः । मम तु नीलत्वव्यापककार्यत्वावच्छिन्न जनकस्य द्रव्यत्वावच्छिन्नस्य तादात्म्येन अभावान्न नीलत्वावच्छिन्नापत्तिः । नच दिनकरीयम्. द्रव्यत्वजातौ । घृतेति ॥ तथाच घृतादिषु पामराणां द्रव्यत्वज्ञानाभावेन सकलद्रव्यसाधारणद्रव्यत्वजातिसि रामरुद्रीयम्. कशब्दः प्रश्नः । घटकत्वं सप्तम्यर्थः । तथाच मूल थकिंशब्द: जिज्ञासार्थक इति पर्यवसितोऽयः । उत्तरवा- क्येन प्रमाणसामान्यस्यानिरासेन किंशब्दम्य आक्षेपार्थकत्वासंभवादिति भावः । वृतादिष्विति ।। न च घटा- दावित्येव कुतो नोक्तामति वाच्यम् । अनुगतप्रीत्यभावे बीजसूचनाय धृताद्युपादानात् । तथा दि । अनुगता- कृसिव्यङ्गया हि मनुष्यत्वादिजातिः, नहि नवद्रव्यप्चनुगताकृतिः काचित्संभवति, घृतादिध्ये पदार्थेष्वपि सर्वदा नैकाकृतिः कठिनत्वद्वत्वयोरनियतत्त्वादिति भावः । पामराणामिति ॥ पण्डितानां श स्त्रकारीयवा- क्यजन्यद्रव्यत्वभानसंभवेऽपि पामराणां शास्त्रजन्यज्ञानाभावेन पामराणामित्युक्तम् । द्रव्यत्वस्य प्रत्यक्षवेद्यत्वे 11