पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिबन्धकतावादा। स्वप्रतियोगिवृत्तित्वसंबन्धेन नाशस्य हेतुतायाःकुप्तत्वात् । अथ परामर्शनिष्ठशक्ति प्रति न परामर्शः कारणम् । तथा सति परामर्शोत्पत्तिद्वितीयक्षणे अनुमित्यनुत्पत्तिप्रसङ्गात् पूर्वोक्तरीत्या परामर्शस्य शक्ति प्रत्यापि शक्ति मत्त्वेनैव हेतुताया वाच्यतया द्वितीयक्षणेऽपि शक्त्यनुत्पादप्रसङ्गात् पूर्व शाक्तिमत्परामर्शाभावात् । किन्तु परामर्शसामग्येव परामर्शशक्ति प्रत्यपि कारणम् । तेन परामर्शसमकालमेव तत्र शक्त्युत्पत्तिः । इत्थं च य. व प्रथमतो बाधनिश्चयः तदनन्तरं परामर्शः तत्र परामर्शोत्पत्तिद्वितीयक्षणे शक्तिनाशः संभवत्येव । एवं बाध. निश्चयशक्ति प्रति याधनिश्चयसामग्येव कारणं । अन्यथा पूर्वोक्तयुक्तथा ताहितीयक्षणेऽपि तत्र शकयनुत्पा- दप्रसङ्गात् । तथाच परामानन्तरं यत्र बाधबुद्धिः तत्र वाधबुद्धिद्वितीयक्षणपरामर्शशक्तिनाशोपपत्तिः पूर्व शक्तिमदाधनिश्न यस्य सद्भावादिति चेन्न स्थलद्वयेऽपि शक्तिनाशक्षणे अनुमित्यापत्तेः पूर्व शक्तिमत्परामर्शरू- पकारणसद्भावात् । किंन्च द्वितीयस्थले बाधनिथयोत्पत्तिवेलायां अनुमित्यापत्तिः । न व नैयायिकानामपि दूषणं इदं तुल्यम् । तत्पूर्व वाधनिश्रयाभावरूपकारण सद्भावादिति वाच्यम् तद्वत्ताबुद्धि प्रति तदभाववत्ता. लौकिक प्रत्यक्ष सामग्या अपि प्रतिबन्धकतया परामर्शानन्तरं बाधास्थले बाधनिश्चयात्प्रा नियमेन तादृशमाम- ग्याः विद्यमानत्वात् । न चास्माकमपि सैव गतिरिति वाच्यम् । परामर्श समवधानकालीनया तया सामग्या तदिनीयक्षणे बाधबुद्धव्युत्पत्तिवेला यामेव शक्तिनाशस्य वाच्यतया पूर्व शक्तिमत्परामर्श सद्भावेन तत्क्षणे अ- नुमित्यापत्तेः भवद्भिः दुरित्वात् । नन शक्तिमत्परामर्शस्य कार्यसहभावेनैव कारणत्वाशीकारात् न शक्ति- नाशक्षणे अनुमित्यपातिरिति वाच्यम् । तथा सति यत्र परामर्शनिन्तरं सिषाधयिषा तत्र तदनन्तरं अनुभ. वसिद्धायाः अनुमितेः अपलापप्रसङ्गात् । अथ शक्तिनाशक्षणे अनुमित्युत्पत्यापत्तावपि बाधनिश्चयस्य का- यानुकूलधर्मविघटकत्वरूपप्रतिबन्धकत्वस्य का क्षतिरिति चेत् यथास्श्रुतग्राहासि यतः न कार्यानुकूलधर्म- विघटकत्वमात्रं प्रतिबन्धकत्वम् । तथा सति दण्डनाशजनकदण्डावयव संयोगनाशस्य घटप्रतिबन्धकत्वापत्तेः । न च दण्डत्य घटानुकुलत्वेऽपि न धर्मत्वमिति वाच्यम् । धर्मत्वस्य प्रकारवरूपस्याधेयतारूपस्य वा दण्ड- बानिति कृतिप्रकारीभूत दण्डावयवसमवेते चाव्याह्तत्वात् । न च एवंविधधर्मस्वस्य केवलान्वयितया अव्या- वर्तकतापत्त्या धर्मपदं कारणधर्मपरं तथा च कार्यानुकुलो यः कारणधर्मः तद्विघटकत्वमिति फलितम् । इत्थंच दण्डस्य ईदृशधर्मत्वाभावान्न पूर्वोक्तातिप्रसक्तिः । कारणधर्मत्वं च कारणतावच्छेदकसंबन्धेन कारणवृत्ति- त्वं । तेन दण्डस्य कालिरुविशेषगतासंयोगादिना चक्रादिवृत्तित्वेऽपि न क्षतिः । न चैवमपि कपालद्वयसंयो. गनाशजनककालदयविभागेऽतिप्रसक्तिः । कपालद्वय संयोगस्य कपाल वनिष्ट कारणतावच्छेदकीभूतसमवायेन कपालवृत्तित्वात् घटानुकूलवृत्ति याचेति वाच्यम् । कार्यानुकूलधर्मशब्देन कारणतावच्छेदकस्य वि. वक्षितत्वात् दण्डस्य कपालद्वयसं योगस्य च तथात्वादिति वाच्यम् । एवमपि घटविशि- रज्ञानं प्रति घटज्ञानत्वेन हेतुतया घटज्ञाननिष्टघटविशिष्टज्ञान कारणतायां विषयितया घटस्यावच्छेदकत्वात् तन्नाशजनककपालद्वयसंयोगनाशस्य घटविशिष्टज्ञान प्रतिबन्धकत्वापत्तेः । न च विशिष्टज्ञान प्रति विशेषणक्षा• नकारणतायाः तदनभिमतत्वात् नायं दोष इति वाच्यम् । तथापि पक्षधर्मताज्ञाननिष्ठानुमितिकारणतायां विषयतया धूमस्यावच्छेदकत्वेन तन्नाशजनकतदवयवसं योगनाशेऽतिप्रसकेः । न च धूमत्वेन पदार्थान्तरा-. वगाहिज्ञानसाधारण्याय धूमत्वावच्छिन्नविषयत्ताया एव कारणतावच्छेदककोटौ प्रवेशः । न तु धूमस्यति नो- कापतिरिति वाच्यम् । यादृशस्थले हेतुतावच्छेदकरूपेण पदार्थान्तरावगाभ्रिमो न कदापि जातः तत्र लाघवेन विषयितया हेतोरेवावच्छेदकत्वेन तन्नाशजमकतदद्वयवसंयोगनाशे ऽतिप्रसक्तर्दुबार त्वात् । न च धर्म- पदस्य शक्तिपरतया कार्यानुकूलशक्तिविघटकत्वं प्रतिबन्धकस्वमिति नोकातिप्रसक्तिरिति वाच्यम् । का- र्यानुकुलदण्डनिष्ठशक्तिविघटकदण्डनाशेऽतिप्रसक्तेः शक्तिनाशं प्रति आश्रयनाशस्य हेतुतायाः प्रागुपदर्शित- स्वात् । यदि च कार्यानुकूलशक्तिनाशत्वावच्छिन्नजन्यतानिरूपितजनकताश्रयत्वमेव तत् दाहाद्यनुकूलशक्ति- नाशत्वावच्छिन्नं प्रति मणित्वादिना हेतुत्वेन मण्यादीनां प्रतिवन्धकत्वोपपत्तिः प्रागुपदर्शितरीत्या आश्रयना- शजन्यतावच्छेदकं शक्तिनाशत्वमेव न तु तत्र दाहानुकूलत्वमपि घटक कार्यान्तरानुकूलश कथविनाशप्रस- हात प्रयोजनाभावाच । तथा च न दण्डनाशस्य घटप्रतिबन्धकत्वापत्तिरित्युच्यते तदा मण्यादीनामपि दाहा.