पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिबन्धकतावादः । - प्रतिबन्धकतावादः॥ धर्म कार्यानुकूलं विघटयतितरां यत्तदेतद्विरोधी- येतत्सिद्धान्तसारं प्रशमयितुमना यन्महादेव ऊचे बाधज्ञानस्य न स्यादनुमितिीरपुतेत्येतदत्यन्त दुष्यं मन्यन्ते ये तु तेषां निरसन कुतुकी कृष्णनामा सुधीन्दः । कार्यानुकूलधर्मविघटकत्वस्य प्रतिबन्धकत्वपदार्थत्वे बाधज्ञानस्यानुमिति प्रतिबन्धकत्वानुपपत्तिः इत्याच. ख्यौ महादेवः । अनुमित्यनुकूलमन:संयोगादिनिष्टशक्तिचिघटकतया बाधज्ञानस्यानुमित्तिप्रतिवन्धकत्वीप- पत्तेः इदमसङ्गतमेवेत्याचक्षते मञ्जूषाकृतः । अत्रेदं विचार्यते किमिदमनुकूलत्वं नाम जनकजनकतावच्छेद- कसाधारणः प्रयोजकत्वापरपर्यायः स्वरूपसंबन्धविशेष इति चेत् तर्हि अत्रानुमितित्वावच्छिन्नप्रयोज्यतानि. रूपित्तप्रयोजकत्वं अनुमितिनिष्टप्रयोज्यतानिरूपितप्रयोजकत्वं वा विवक्षितम् । नाद्यः, अनुमितित्वेन शक्तिम. मदात्ममनःसंयोगत्वेन कार्यकारणभावाभावनात्ममनःसंयोगनिष्ठायाः शक्रनुमितित्वावच्छिन्न कार्यतानिरूपि- तकारणतानवच्छेदकतया तथाविधप्रयोजकत्वायोगात् । नापि द्वितीयः, ज्ञानत्वेन शक्तिमदात्ममन:- संयोगत्वेन कार्यकारणभाव सद्भावेन आत्ममन:संयोगनिष्ठायाः शक्तः अनुमितिनिष्ठकार्यतानिरूपितकारणता- वच्छेदकतया तादृशप्रयोजकत्वोपपत्ताबपि तस्याः ज्ञानसामान्यानुकूलायाः बावज्ञानेन विघटनाङ्गोकारे बा- धज्ञानस्य ज्ञानसामान्य प्रतिबन्धकरवापत्तेः । अथ प्रतियोगितासंबन्धेन स्वरूपसंबन्धेन वा तद्वत्ताज्ञानोपधाय. कशक्तिनाशत्वावच्छिन्नं प्रति समानाधिकरणबृत्तित्वसंबन्धेन सामानाधिकरण्य संबन्धेन वा हेतुलम् । इत्थं च तद्वत्ताज्ञानानुपधायकानां हानान्तरानुकूलानां शकीनां न तदभाववत्तानिश्चयेन विनाशापत्तिरिति चेतू किमिदं तद्वत्ताज्ञानोपधायकत्वं तद्वत्ताज्ञानाव्यवहितपूर्ववृत्तित्वमिति चेत् तार्ह चैत्रस्य तद्वत्ताज्ञानवेलायां तदि- तरेषां तदभाववत्तानिश्चयवतां शक्तिमदात्ममनःसंयोगहेतुककार्थमात्रानुत्पत्तिप्रसङ्गः । चैत्रेतरात्ममनःसं- योगशकीनां चैत्रीयतद्वत्ताज्ञानाव्यवहितपूर्ववृत्तित्वेन तदभाववत्तानिश्चयेन विनाशात् शक्तिमदात्ममनःसंयो- गरूपकारणाभावात् स्वसमानाधिकरणनिरूपितस्वाव्यवहितपूर्वक्षणावच्छिन्नाधेयतासंबन्धेन तद्वत्ताज्ञानविशि. टत्वमेव तद्वत्ताज्ञानोपधायकत्वम् । तथाच चैत्रेतरात्ममनःसंयोगशक्तीनां निरुक्तसंबन्धेन चैत्रीयतइत्ताज्ञानवि- शिष्टत्वाभावान्न पूर्वोकदोषावसर इति वाच्यम् । तदभावरतानिश्चयोत्पत्तेितृतीय क्षणे तद्वत्ताज्ञानोत्पत्तावेव द्वितीयक्षणे शक्तिनाशसंभवेन बाधनिश्चयोत्पत्तितृतीयक्षणे विशिष्टबुद्धेरप्रामाणिकतया तनाट्यशकेरवाप्रसि - देः बाधनिश्चयोत्पत्तिचतुर्थक्षणे तद्वत्ताबुद्धेरानुभाविकत या तत्पूर्व शक्तिविनाशापत्त्या तदनुत्पत्तिप्रसङ्गाच्च । अत एव आत्मनिष्ठशक्तिविघटकत्वं मनोनिष्ठशक्तिविघटकत्वं वा न बाधज्ञानस्य संभवति तयोरुभयोरपि ज्ञान- सामान्यानुकूलत्वात् । न चानुमित्यनुकूलपरामर्शनिष्टशक्तिविघटकतया बाधज्ञानस्यानुमितिप्रतिबन्धकतोपप-- त्तिः। एतदर्थमेवादिपदं प्रायुजत मञ्जूषाकृत इति वाच्यम् । तस्यापि विचारासहत्वात् । तथाहि यत्र प्रथमतो बाधनिश्चयः तदनन्तरं परामर्शः तत्र परामोत्पत्तिद्वितीयक्षण एव शक्त्युत्पत्त्या तृतीयक्षण एव तन्नाशो वक- व्यः । तच्च न संभवति । तत्पूर्व परामर्शन बाधज्ञानस्य विनाशात् योग्यविभुविशेषगुणानां स्वोत्तरवृत्ति- गुणनाश्यत्वात् । नच परामर्शसमकालमेव तत्र शक्त्युत्पत्तिस्वीकारात् तद्दितीयक्षणे तन्नाशः संभवति तत्पूर्व बाघनिश्चयस्य विद्यमानत्वादिति वाच्यम् । परामर्शीय शक्ति प्रति परामर्शस्य हेतुतया पूर्व परामर्शम. न्तरा शक्त्युत्पत्तेरसंभवात् । एवं परामर्शानन्तरं यत्र लौकिकी बाधबुद्धिः तत्र पारमर्शतृतीयक्षणे वाधबुद्धया शक्तिनाशो वक्तव्यः । तदपि न संभवति । सकलानामपि कारणानां शक्रिमत्त्वेनैव कारणताया: तत्सम्मत- स्वेन बाधनिश्चयस्य उत्पत्तिवेलायां पूर्वोक्तयुक्त्या निःशकित्वेन तदानितरक्षणे तदसंभवातू पूर्व शक्तिमवाध. निश्चयरूपकारणाभावात् । नच बाधनिश्चयोत्पत्तितृतीयक्ष शकिनाशः संभवत्येव । पूर्व शक्तिमादाय निश्च. यसद्भावात् इति वाच्यम् । तत्क्षणे शक्तिनाशस्य पूर्वक्षणोत्पन्नपरामर्शनाशजन्यत्वेन तं प्रति बाधनिश्चयस्य हेतुतायाः ज्ञानामावात् । नच विनिगमनाविरहेण बाधनिश्च यस्यापि तद्धेतुत्वमिति वाच्यम् । बाधनिश्चया. समवधानदायां परामर्शनाशात् तदीयशकिनाशानुरोधेन प्रतियोगितासंबन्धेन शकिनाशत्वावच्छिन्नं प्रति