पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिबन्धकतावादः - दिप्रतिबन्धकत्वानुपपत्तिः दाहानुकूलशकिनाशं प्रति मणरिव मन्त्रौषध्योरपि कारणतया परस्परजन्यनाशे व्यभिवारवारणाय मण्याद्यव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटौं निवेशनीयतया स्वसामानाधिकरण्यस्था- व्यवाहतोत्तरक्षणोत्पत्तिकत्वैतदुभयसंबन्धेन मणिविशिष्टं प्रति मणिः कारणमिति एतावतेव सामञ्जस्ये दा. हानुकूलशक्तिनाशत्वस्य कार्यतावच्छेदककोटौ निवेशे प्रयोजनाभावात् । किन्तु कार्यानुत्पत्तिप्रयोजकत्वे सति कार्यानुकूलशाकविघटक वं दण्डनाशस्य घटानुकूलशक्तिविघटकत्वेऽपि न घलानुत्पत्तिप्रयोजकत्वं । दण्डात्य- तामावस्यैव कारणाभावविधया तत्प्रयोजकत्वात् दाहानुकूलशाकनाशान दाहोत्पत्तिरिति प्रतीत्या दाहानु. त्पत्तिप्रयोजकत्वत्यैव शक्तिनाशे सद्भावात्तजनकमण्यादीनां तथात्वाक्षोः प्रतिबन्धकत्वोपपत्तिः । कार्यानु. स्पत्तिप्रयोजकत्वमात्रस्य कारणभावसाधारणत्वात्कार्यानुकूलधर्मविघटकरवनिवेशः । इत्थं च परामर्शात्पूर्व यत्र बाधनिश्चयस्तत्र परामर्शोत्पत्तिद्वितीयक्षणे शक्तिनाशस्योत्पत्या तृतीय क्षणे अनुमित्यनुत्पादस्य शक्ति- नाशप्रयोज्यता वाच्या । तच्च न संभवति । परामर्शोत्पत्तिद्वितीयक्षणेऽपि अनुमियनुत्पादात् तत्क्षणेऽनुमित्य- भावप्रयोजकस्यैव तदुत्तरक्षणेऽपि तथात्वसंभवात् शक्तिनाशस्य तत्प्रयोजकत्वायोगात परामर्शानन्तरबाधनिश्वः यस्थले तु बाधनिश्च असामध्यैव शक्ते विनाशाद्वाधानश्चयस्य शक्तिनाशकत्वमपि न संभवतीति कथं वाधनिश्चय. स्य अनुमतिप्रतिवन्धकत्वोपपत्तिरिति । वस्तुतस्तु अनुमितिप्रतिबन्धकतायाः अनुपपत्तिः निष्प्रयोजनकत्वं बा- धनिश्चयस्यानुमितिप्रतिबन्धकताया यत्प्रयोजनं बाधनिश्चयकालेऽनुमितिवारणरूपं तदसंभव इत्यर्थान्न कोऽ. पि दोषः । नचैवमीदशानुपपत्तिः मणेर्दाहप्रतिन्धकतायामपि संभवति । तत्र मशिवहिनिष्टशक्तिनाशक्षणे दाहापत्तेः पूर्व शक्तिमद्वहिरूपकारण सत्वादिति वाच्यम् । तत्र तत्क्षणे दाहाभावस्य शपथनिर्णयस्वेने टापत्तिसं- भवात् बाधनिश्चयानन्तरमनामत्यभावस्य सर्वसम्मतत्वात् शक्ति मदह्नः कार्यसहभावेन हेतुनामभ्युपगम्य उक्ता- नुपपात्तवारणसंभवाच । न च तथापि मञ्जूषाकृदुकल्या वहिनिष्ठशक्तिं प्रति वढेरेव हेतुतया मणिना शक्तिना. शेऽपि वह्निरूपकारणबलाच्छत्यन्तरोत्पादापत्त्या तदनन्तरं तत्र दाह; स्यादिति वाच्यम् । उत्तेजकेन मण्यपसर. णेन च शकिर्जन्यत इति कलप्यत इति मुक्तावळीप्रन्थेनैव मण्यभावोत्तेजकयोवह्निनिष्ठशाक्तकारणताप्रतिपादके. नेदृशशङ्काया दूरोत्सारितत्वात् तत्र मण्यभावस्य उत्तेजकस्य बा अभावात मञ्जूषाकृतां तादृशशङ्काकरणस्य अन- तिपरिशीलनविज़म्भितत्वात् । तस्मात् बाधनिश्चयस्य अनुमितिप्रतिवन्धकतायामेवे यमनुपपत्तिः प्रसरति । एते. न दण्डनाशान घटोत्पत्तिः कपालनाशान घटोत्पत्तिरित्यादिप्रतीला दण्डनाशकपालनाशादीनामपि घटा. नुत्पत्तिप्रयोजकत्वेन घटानुकूलशक्तिनाशकत्वेन च घटप्रतिबन्धकत्वापत्तेः तावतापि दुर्वारत्वात् लाघवा- च्च नाशकतायां स्वप्रतियोगिवृत्तित्वसंवन्धानवच्छिन्नत्वमेव निवेशनीयम् । तथा सति दण्डनाशकपालनाशा- दीनां शकिनाशं प्रति स्वप्रतियोगिवृत्तित्वसंबन्धेनैव हेतुतया नोक्कापत्तिः । इत्थं च वाधनिश्चयस्यानुमिति- प्रतिवन्धकत्वं सम्यगेव प्रतियोगितासंबन्धेन स्वरूपसंबन्धेन वा अनुमित्स्यनुकूलशक्तिनाशत्वावच्छिन्न प्रति स्वस मानाधिकरणवृत्तित्वसंबन्धेन सामानाधिकरण्यसंबन्धेन वा बाधनिश्चयस्य हेतुत्वात् । वाधनि- श्वयनिष्टशक्ति नाशजनकतायाः स्वप्रतियोगिवृत्तित्वसंबन्धानवच्छिन्नत्वात् इति परास्तम् । नच दाहानुकू- लशकिं प्रति मण्यभावस्येवानुमित्यनुकूलशक्तिं प्रति बाधनिश्चयाभावस्य हेतुत्वाभ्युपगमात् बाधनिश्चया- नन्तरोत्पन्नपरामर्शे शक्युत्पत्तिः । तथा च तादृशबाधनिश्चयकालेऽनुमितिवारणं भवत्येव । एवं परामर्शानन्तरं यत्र बाधनिक्षयः तत्रापि न परामर्शानन्तरमनुमित्यापत्तिः अनुमित्यनुकूलशक्ति प्रति बाधनिश्चयजनकसामय्य-- भावस्य कार्यसहभावेन हेतुत्वात् परामर्श शक्त्यनुत्पादादिति वाच्यम् । तथा सति अनुमित्रानुकूलशक्तिना- शकत्वाभावेन प्रतिबन्धकत्वासंभवात् । नच कार्यानुकूलधर्मविघटकत्वं कार्यानुकूलशक्त्यभावप्रयोजकत्वमेव तच्च तादृशशक्तिनाशजनके तदत्यन्ताभावप्रयोज के चाक्षतम् । इत्थंच बाधनिश्चयस्य अनुमित्यनुकूलशक्त्य- भावं प्रति कारणभावविधया प्रयोजकत्वेन प्रतिबन्धकत्वोपपत्तिरिति वाच्यम् । जनकाद्यतिरिकायाः स्वरूप- संवन्धविशेषरूषायाः प्रयोजकतायाः संबन्धविशेषावच्छिन्नत्वे मानाभावात् । स्वप्रतियोगिवृत्तित्वसंपन्धानव- च्छिन्नघटानुकूलशक्यभावप्रयोजकताया: दण्डनाशे सत्त्वेन दाहानुकूलशक्ति प्रति उत्तेजकस्यापि कारणत्वेन शत्यभावं प्रति उत्तेजकाभावस्यापि प्रयोजकत्वेन तनचातिप्रसक्तेः । तस्मान्न परमार्शनिष्ठशक्तिविघटकतया बाधनिश्चयस्य अनुमितिप्रतिबन्धकत्वोपपत्तिरिति । यादृशानुमिति प्रति विजातीयशचिमदात्ममनःसंयोगत्वेन 111