पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संख्यावाचकपदस्य स्वार्थान्वयिभिने समभिव्याहृतपदार्थान्वयव्यवच्छेदार्थकतया नवत्वसंख्यान्वयिपृथि- च्यादिमनोऽन्तान्यतमभिन्नेषु द्रव्यत्वान्वयनिषेधप्राप्त्या द्रव्यत्वावभाजकपृथिवीत्वादिमनस्त्वान्तान्यतमव्या- मञ्जूपा. मरद्वायुरिति ॥ परमे व्योमन्प्रतिष्ठितेत्यादी व्योमन्शब्दस्य वापरत्वादाह । व्योमाकाश इति ॥ काल- दिशोस्तु विवरणं बहुषु पुस्तकेषु न दृश्यते महादेवेनापि न व्याख्यातम् । देहविशिष्टार्थकदेहिनशब्दाद्देहावयवा- नामुपस्थितेराह देही आत्मेतीति महादेवः तन्न, सामान्यतः सम्बन्धिबोधकतया विहितम्यापि मत्वीय प्रत्ययस्य तत्तत्प्रकृतिसमभिव्याहारे नियतसंबन्धविशेषावच्छिन्नबोधकतायाः सर्वानुभवसिद्धत्वेन दर्शिताशङ्काया अनवका- शात् । तथाहि वृक्षादिष्वेव शाखीति व्यपदेशः न पर्णादिपु अतः शाखाद्यवयवाचकपदोत्तरमत्वर्थीयप्रत्ययेन स- मवेतत्वमेव बोध्यते न समवायित्वं एवं पुत्रीत्यादौ पुत्र तानिध्पकत्वं शास्त्रीत्यादी अध्येतृत्वं एवं गोमान् चैत्रो गोमान् ब्रज इत्यादिव्यवहारात् गवादियदोत्तरेण स्वामित्वं संयोगक्ष बोध्यते । नचेह देहायसवे हस्तादी देहीति व्यवहारोऽस्ति येन समवायित्वबोधकत्वमाशयेत तस्मादित्थमवतरणीयम्। तथाहि देहिनशब्दो देहावच्छिन्न - परो लोके दृष्टः । तथाच ईश्वरपरिग्रहो न स्यात् । ननु मास्त्वीश्वरपरिग्रहः अतएवाग्रे जीव एव निरूप्यते नेश्वरः नचेश्वरस्यानिरूपणात् ग्रन्थस्य न्यूनतति शङ्कयम् मङ्गकरूपेश्वरनिर्देशेनैव तन्निरूपणम्य वृत्तत्वात् अतएव तत्रै- वमीश्वरसाधकानुमानं उपन्यस्तं ग्रन्थकृता नहि तसत्प्रकरण एव तत्तनिरूपणामिति नियमोऽस्मिन्प्रन्थे दृश्यते आत्मप्रकरणे बुद्धिनिरूपणात् । उच्यते मास्त्वात्मप्रकरणे ईश्वरनिरूपणम् । तथापि ईश्वरे के नचिद्दव्य विभा- जकेन भवितव्यम् अन्यथा नवत्वव्याघात त् अथ मन्यते भूतावेशन्यायात् संसाबदृष्टवशाबा इश्वरस्यापि देहित्वं अन्धकृदभिमतम् : अत एव नूतनजलधररुचय इति देहित्वेनोक्तस्यैव संसारमहारुहस्प बीजायेति ई- वरत्वं मूले निर्दिष्टं , साधितं च ग्रन्थकृतेति एवमपि नाल दोहेत्वस्य द्रव्यविभाजकत्वं युक्तं लाघवात् आत्मत्वस्यैव तथात्व संभवात् अत एवात्मेन्द्रियायधिष्टातेत्युपरिष्टादभिधानमपि संगच्छते , अन्यथा द्रव्य- विभाजकोभूतदेहित्वविशिष्ट एव लक्षणाद्याकामया आत्मत्वविशिष्टे तदभिधानमप्रकृतं स्यात् अत एक चाने ईश्व. रे सा जातिरस्तीत्यादिना ईश्वरे आत्मत्वज तिसत्तां स्वमतेनोक्त्वा पश्चादीश्वरे तदनङ्गीकारमताभिधानवेळायां ईश्वरस्य दशमद्रव्यत्वापत्तिमाशङ्कय ज्ञानवत्वन विभजनादिति समाहितमनेन हि स्वमते आत्मत्वजातिरेव विभा- जिकत्यवगम्यते तस्मादात्मत्वजातर्विभाजकत्वलाभाय देही आत्मेत्युक्तम् । देहिन्शदादात्मत्वजातिवि- शिष्टलाभश्च देहिनशब्दस्य पङ्कजादिपदवद्योगरूटिस्वीकारेणा लक्षणयोपपादनीयः । तथाच तत्र योगरूढिपक्षे उ- पस्थितस्यापि देहावच्छिन्नत्वस्य न विभाजकत्वं स्वीक्रियते प्रयोजनाभावात् । कित्वात्मत्वस्यति बोध्यम् अ- थ कोऽयं भूतावेशन्यायः कश्च संसायदृष्टवशः उच्यते । यथा हि लोके भूतानि जीवान्त र शरीरमा विशन्ति तथेश्वरोऽप्यनुभूयते हि वेङ्कटेश्वरनरसिंहादिसंज्ञावानीश्वरो मानुषाणां शरीरमाविष्टी लोके सोऽयं भू- तावेशन्यायः इति केचन मन्यन्ते तदपरे न क्षमन्ते जीतविशेषा एवैते वेंकटेश्वरादिसंज्ञाभिराविशन्ति दिनकरीयम्. दाह । आत्मेति ॥ पृथिव्यप्तेजोवावात्मान इति पञ्चैव द्रव्याणि व्योमा देरीथरात्मन्येवान्तर्भूत त्वात् मनसश्चास- मवेतभूतेऽन्तर्भावादिलाहुर्नवीनास्तन्मतं निराकर्तुं सङ्ख्याबाधकपदपूरणेनार्थमा । एतानि नव द्रब्याणी- रापरुद्रीयम्. च्छेदेन भूतस्य न सुखदुःखसाक्षात्काररूपभोगाश्रयता किंतु तदीयशरीरावच्छेदेनैव एवमपि भूतप्रयत्नजन्य. व्यापारवन्मनुष्यादिशरीरं तथात्रापि रामादिशरीरं नेश्वरस्य भोगावच्छेदक अपि तु तदन्तर्गतजीवस्यैव एव. माप ईश्वरप्रयत्नज न्यरावणवधादिरूपविलक्षणव्यापारवादिति समुदायार्थः । यद्यपि एवमपि उक्तसम्बन्धेनेश्वरस्य देहविशिष्टत्वाभावात् देहिशब्दानेश्वरलाभः संभवति तथापि स्ववृत्तिचेष्टानुकूलकृतिमत्त्वसम्बन्धेन देहविशिष्ट एव प्रकृते दहिशब्दार्थ इति नानुपपत्तिरिति भावः । नन्वेवं ईश्वरस्य श्रुतावपाणिपादत्वाद्युक्तिविरुध्येतेत्यतः