पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः प्रभा. त्यापत्तेः । तथाच तत्र स्वमात्रकर्तृकत्वस्वभित्रमात्रकर्तृकत्वरूपविरुद्धधर्माध्यासेनाभेदस्य वक्तुमशक्यत्वा- दिति भावः ॥ १६८ ॥ ॥ इति गुणपरिच्छेदः ॥ इति महोपाध्यायधीबालकृष्णतर्कालङ्कारभट्टाचार्यसद्गुरुप्रसादलब्धविद्यावैभव श्रीमदालूरिवंशपथ पारावारराकासुधाकररायनरसिंहपण्डितकृत. मुक्तावळीप्रभा सम्पूर्णा ॥ तकदुर्गमहारण्यनव्यवानुवर्तनी । मुक्तावळीप्रभा हर्ष सतां वितनुतां सदा ॥ करिगिरिशिखराने सिद्धिभित्र जनानां प्रतिकलमपि कुर्वन् प्रांशुभिः स्वैः कटाक्षः । सरसिरुहवसत्या साकमामोदमानः श्रियमुपचिनुयाद्वः श्रीनिधिदेवराजः ॥]