पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयम् । ८५५ गङ्गारामजटीयम् ! यस्माद्भवन्ति लोका ये नोज्जीवन्ति यत्र लीयन्ते । तस्मै कस्मैचिदिदं भवतु परस्मै नमः पुंसे ॥ पुटम् (२१) विषयत्वमित्यादिनाविषयत्वं ज्ञानविषय सुखेऽतिप्रसक्तमत आचारेति ॥ यद्यप्याचारः क्रिया तथापि विषयत्वश्रुतः कृतिरेव विवक्षिता । विषयत्वन्न विधेयनया बोध्यम् । तेन फले न व्यभिचारः तस्य उद्देश्य . तया कृतिविषयत्वात् । विधेयतया कृतिविषयत्वं चैत्यवन्दनादाचप्य स्तीला तशिष्टेति । शिष्टत्वं च इष्टसाधनतां. शे भ्रान्तिरहितत्वं नतु वेदप्रामाण्याभ्युपगन्तृत्वं तेन व्युत्क्रमेण कृते दर्शादौ न व्यभिचारः । शिष्टाचारविष- यत्वं श्येनयामादावस्तीत्यतोऽविगीतेति । अविगीतत्वं च बलवदनिष्टाननुबन्धित्वम् । तेन श्येनयागादौ प्रवृ. न्युपयुक्तबलवदनिष्टाननुबन्धीष्टसाधनत्वरूप साध्याभावेऽपि न व्यभिचार इत्युक्तं महादेवेन । अत्रेदमवसेयम् । परमतासिद्धस्यैव हेतोरनुमापकत्वम् । नचार्य हेतुः परमते सिद्धः तथाहि मा समाप्तिसाधनतां सन्दिहानेन पुंसा समाप्तिसाधनताबुद्धया मङ्गळे प्रवर्तमाने पुरुषे इटसाधनतांश भ्रान्तिरहितत्त्वमपि सन्दिह्यत एव । किं. च माळत्य समाप्तिसाधनत्वव्यवस्थापनार्थं सफलत्वं साध्यतां किं बलवदनिष्टाननुबन्धित्वस्यापि साध्यताव- च्छेदककुक्षिप्रवेशेन । एवं च तदनुरोधेन बलवदनिष्टाननुबन्धित्वरूपमविगीतत्वमपि हेतुतावच्छेदककुक्षौ न निवेश्यम्। इष्टसाधनताज्ञानस्येव वलवदनिष्टाननुबन्धित्वज्ञानस्यापि प्रवृत्त्युपयोगित्वात्तस्य साध्यतावच्छेदककु. क्षिनिवेशस्यावश्यकत्वे कृतिसाध्यतःया अपि तनिवेशापत्तिः । अथ मजळे सफलस्वसन्देहे बलवदनिष्टाननुब- न्धित्त्वमपि सन्दिह्यते न कुर्यानिष्फलं कर्मत्यादिना निष्फलस्य कर्मणो क्लवदनिष्ठाननुबन्धित्वस्मरणातू त- निरासाय बलवदनिष्टाननुबन्धित्वस्म साध्यप्रवेशः कृतियाध्यतायास्तु सन्देहाभावान्न तस्यास्तत्र प्रवेश इति चन्न । सफलत्वसन्देहाहितबलव दांनष्टान नुबन्धित्वसन्देहस्यापि सफलस्वसाधनेनैव निराससंभवेन तत्साधनवै- यर्यस्य दुरित्वादिति दूषणत्रयं दुरुद्धरम् । अत्र दूषणान्तराण्यपि केचिदाहुः । बलवदनिष्टाननुबन्धित्वस- न्देहनिरासाय साध्यतावच्छेदककोटौ तस्य प्रवेशे हेतुतावच्छेदकघटकत्वासंभवः निश्चितस्यैव निश्चायकत्वत् चैत्य वन्दनादौ व्यभिचारवारणाय शिष्टपदमिति यदुक्तम् तदयुक्तम् । चैत्यवन्दनादोर्निष्फलस्वेन त्वदुक्तरीत्या बलवदानष्टानुवन्धितया बलबदनिष्टामनुबन्धित्वार्थकाविधीतत्यपदेनैव तद्वारणसंभवात् । एतेन शिष्टत्वं न वेदप्रामाण्याभ्युपगम्तृत्वं तेन व्युत्क्रमेण कृतदर्शादौ न व्यभिचार इति यदुकं तदपि प्रत्युक्तं व्युत्क्रमेण कृ. तदर्शादेर्निष्फलत्वेनानिंगीतत्वविशेषणेनैव तद्वारणसंभवादिति । इदन्तु दूषणत्रयं न सङ्गच्छते । तथाहि अ. त्र शिष्टपदानुपादाने पश्वादिकृतनिष्फलकर्मणि व्यभिचारः न कुर्यादित्यादेधिकारिविशेषपरत्वेन पश्वादिकृत- निष्फलकर्मणो बलवदनिष्टानुबन्धित या अविगीतत्वविशेषणेन तद्वारणसं भवात् । ननु वयं शिष्टपदस्य प्रयोज. नमेव नास्तीति बमः किन्तु चैल्यवन्दनप्रयोजनकत्वं तस्येति यत् तदयुक्तमित्यत्रैवास्माकमाग्रह इति चेत्त- दप्युपपद्यत एव । तथाहि हेतुतावच्छेदककोरिप्रविष्टबलवदनिष्टाननुबन्धित्वं न पापसामान्यजनकत्वाभावरू पं किन्तु न कुर्यादिलादिपापविलक्षणापापजनकत्वाभावरूपं तथोक्तावपि श्येनयागादौ व्यभिचारवारणसंभ - वात् तस्य न कुर्यादितिश्रुतिबोधितपापविलक्षण नाभिचरितवा- इत्यादिश्रुतिबोधितपापजनकत्वात् । साध्य- तावच्छेदककोटिप्रविष्टबलव दनिष्टाननुबन्धित्वन्नु पापसामान्यजनकत्वाभावरूपमेव । एवंच न कुर्यादित्यादि- श्रुतिबोधितपापजनकत्यसन्देहतावच्छेदककोटिप्रविष्टवलबदनिष्टाननुवन्धित्वन्तु नित्यत्वमेध तस्य साध्यप्रवे. शः । पापसामान्यजनकत्वाभावघटितसाध्याभाववति श्येनयागादौ व्यभिचारवारणायाविणीतपदमपि सा.. र्थकम् । न कुर्यादित्यादिश्रुतिबोधितपापविलक्षणपापजनकस्वाभावरूपावितत्वघटितहेतुमति चैत्यवन्दनादौ व्यभिचारवारणाय इष्टसाधनतांशे भ्रान्तिरहितार्थक शिष्टपदमपि देयमेव । शिष्टपदस्य वेदप्रामाण्याभ्युप- गन्तृपरत्वे व्युत्क्रमेण कृते दर्शादौ व्यभिचारोऽपि सङ्गच्छते तस्य तद्विलक्षणपापाजनकत्वात् मङ्गळे न कुर्या- दित्यादिश्रुतिबोधितपापजनकत्वस्यैव सन्देहः नतु तद्विलक्षणपापजनकत्वस्यति तदभावघटितस्य हेतोरनि- श्चितत्वं स्यादेतत् । ननु हेतुतावच्छेदकप्रविष्टबलवदनिष्टाननुबन्धित्वमन्यथा परिष्कृय चैत्य वन्दनादौ व्यभि. चार सम्पाद्य तद्वारणाय शिष्टपदप्रक्षेपापेक्षया यथावतबलवदनिष्टाननुबन्धित्वनिरुक्तिरेव ज्यायसी प्रक्षाळना-