पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीयसमन्विता । तदेवौषधमित्यादौ सजातीयेऽपि दर्शनात् । तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥ १६८ ।। इति श्रीविश्वनाथपञ्चाननकृता कारिकावली समाप्ता ॥ ननु सजातीये सोऽयमिति प्रत्यभिज्ञा कुत्र दृष्लेत्यत आह॥ तदेवेति ॥ यदीप, मया कृतं तदौषधमन्येनापि कृतमित्यादिदर्शनादिति भावः ॥ १६८ ॥ इति श्रीमहोपाध्यायविद्यानिवासभट्टाचार्यपुत्र श्रीयुतविश्वनाथपश्चानन- भट्टाचार्यविरचित्तायां सिद्धान्तमुक्तावल्यां गुणनिरूपणम् ।। समाप्तश्चायं ग्रन्थः ॥ प्रभा. श इत्युपगमात् । नचैवं सति तस्य द्वितीयक्षणे नाशापत्तिरिति वाच्यं इष्ट वात्। नचैवं सति बौद्धमतप्रवे- शापत्तिरिति वाच्यम् । तन्मते वस्तुमात्रस्य द्वितीयक्षणध्वंसप्रतियोगित्वेन चरमशब्दस्य तदङ्गीकारमानेण ताशदोषासंभवात् । अन्यथा हिंसारूपधर्मस्य तदनुमतस्यास्माभिरपि स्वीकृतत्वेन सर्वेषां तन्मनप्रवेशापत्तिः रिति प्राञ्चः । नवीनास्तु गोग्यविभुविशेषगुणानां स्वोत्तर वृत्तित्वदिशिष्टस्य नाशकत्वमित्येव नियमात् स्वव्य- धिकरणस्य स्वस्य वा उत्तरक्षणवृत्तित्वविशिष्टस्य नाशकत्वं संभवतीति प्राहुरिति ॥ १६७ ॥ तदेवौषधमित्यादाविति ॥ मूलस्थादिषदात् पूर्वेषुत्र ब्रुक्तं तदेवेदं भक्ष्यमित्यादेः परिग्रहः । ननु तदे- वौषधमित्यादौ व्यक्त्यभेद एव विषयोऽस्तु बाधकामावादित्याशका बाधकप्रदर्शनेन परिहरति ॥ मुक्ताव- ळ्यां यदौषधं मया कृतमिति ॥ मयैव कृतमित्यर्थः । यथाश्रुते उभयकर्तृकोषधस्याभेदसंभवादसाङ्ग- दिनकरीयम् . कारणम् । द्वितीयादिशब्दं प्रति तु आद्यशब्दोऽस मवायिकारणम् । न च मेकिाश संयोगकण्टाद्याकाशसंयोगा- दीनां शब्दं प्रति कारणत्वे मानाभाव इति वाच्यं भावकार्यस्यासमवायिकारणजन्यत्वनियमेन तत्कारणत्व. स्वीकारात् । ताइश नियमे मानाभावे तु मास्तु तेषां कारणत्वं भरीदण्डसंयोगादिनिमित्तकारणसहकृतेनाका शेनैव शब्दोत्पत्तिसम्भवादिति । प्रथमादिशब्दानां च स्वकार्यशब्दनैच नाशः चरमस्य तूपान्त्यशब्देनोपा न्स्यशब्दनाशेन वा नाश इति ॥ १३७ ।। मूले तदेवौषधमित्यादिना सैवेयं दीपकलिकेल्यादेः परिग्रहः । ननु तत्रापि व्यक्त्यभेद एव विषयोऽ. स्त्वतो भावार्थ प्रकाशयति ॥ यदौपधं मया कृतमित्यादिना ॥ अन च स्वकर्तृकत्वस्वभिन्नकर्तृकत्यक- पविरुद्धधर्माध्यासाहितभेदप्रत्ययस्य प्रतिबन्धकस्य सत्त्वान्न व्यक्त्यभेदो विषयः किं तु तत्सजातीयाभेदो विषय इति भावः ॥ १६८ ॥ भानुं प्रणम्य परिभाव्य च शास्त्रसारं मुकावलीकिरण एष पितृप्रदिष्टः । सद्युतिभिर्दिनकरेण करेण सोऽयं नीतः प्रकाशपदवी सुधियां मुदेऽस्तु ।। मुक्तावलीप्रकाशो यः स्वाज्ञानतिमिरापहः । तेन सन्तोषमायातु नीलकण्ठः सतीप्रियः॥ इति श्रीभारद्वाजकुलाम्बुधिपूर्णचन्द्रबालकृष्णभट्टात्मजमहादेवभट्ट- तनूजश्रीमद्दिनकरभट्टविरचिते न्यायसिद्धान्तमुक्तावलीप्रकाशे गुणनिरूपणम् ॥ समाप्तश्चायं प्रन्थः॥