पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ८४७ प्रभा. अलस्पदिध्वंसानां वा प्रतिबन्धकावं लभ्यत इति तन्न एकस्मिन्मासि दर्शपूर्णमासकरणानन्तरं कर्मनाशा- जलस्पर्शादिकरणे सत्यन्यस्मिन् मासि कृतदर्श पूर्णमासाभ्यामपि निरुक्तप्रतिवन्धकसत्त्वेन स्वर्गानुत्पत्तिप्रम- जात् यागादेः कालान्तरमाविस्वर्गजनकत्वान्यथानुपपत्त्या अपूर्वमङ्गीकार्यमिति । अत्रेदं बोध्यम् । अपूर्व द्विविध कलिकापूर्व परमापूर्व चेति । तथाहि यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति उपां- शुयाजमन्तरा यजति ताभ्यामेत दप्नीषोमीयमे कादशकपालं पूर्णमासे प्रात्यच्छत् ऐन्द्रं दध्यमावास्यायां ऐन्द्र पयोऽमावास्यायामिति पञ्चभिर्वाक्यर्विहित्तषडाग्नेयादिभ्यः षडुत्पत्यपूर्वाणि जायन्ते तान्येव कलिकापूर्वाणी. त्युच्यन्ते षट्कालकापूर्वेभ्यः परमापूर्वमिति । नन्वावश्यकषट्कलिकापूर्वेरेव स्वर्गसंभवे मध्ये परमापूर्वक ल्पनं व्यर्थमिति चेन्न दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रुतिघटकद्विवचनान्तेन दर्शपूर्णमासोभ यत्वाब- च्छिन्नस्य स्वर्गसाधनत्व प्रतिपादनात् आग्नेयादिषडशा जन्यषट्कलिकापूर्वाणां दर्श पूर्णमासोभयत्वावच्छिन्नज- न्यस्वाभावात् तेषां व्यापारत्दासंभवादुमयत्वावच्छिन्नस्य श्रुतिचोदितकारणत्वान्यथानुपपत्त्या परमापूर्वकल्प नाया आवश्यकत्वात् । न चैवं सति ऋमिकायामाग्नेयादिषड्यागानां तृतीयक्षणातध्वंसप्रतियोगिनां खाक्षा. रमापूर्वजननासमर्थतया व्यापारतया षट्केलिकापूर्वकल्पनायां गौरवमिति वाच्यं ईदृशगौरवस्य फलमुख. त्वेनादोषत्वात् । नच तथापि पञ्चकलिकापूर्वसह कृतषष्ठयागादेव परमापूर्वस्य उत्पत्तिरस्तु किं कलिकापूर्व षटककल्पनेनेति वाच्यं षष्टयागस्थायि उत्तराङ्गदक्षिणादानसहकारेणैव परमापूर्वजननसमर्थतया तावत्कालं षष्ठयागम्य सत्त्वेन तज्जन्यकालकापूर्वस्याप्यावश्यकत्वात् । अन्येतु दर्शपूर्ण मासोभयस्य उभयत्वेन रूपेण परमापूर्व प्रति स्वर्ग प्रति च हेतुन्वे मौरवादुमयसाधारणमेकं वैजात्यं स्वीकृत्य तेन रूपेण हेतूत्वमुचितमित्या- हुः । अपरेतु दर्शत्रिके पूर्णमास त्रिके दर्शत्वपौर्णमासत्वरूपवैजात्यमशीकृत्य साइशचेजात्येन दण्डचक्रादि- न्यायेन परमापूर्व प्रति हेतुत्वामत्याहुः । परेतु कलिकापूर्वत्र यसहकृतदर्शविकेणैकमपूर्वं तादृशेन पूर्णमास. त्रिकेण एकमपूर्व तादृशापूर्वाभ्यां सहकृतदर्श पूर्णमासाभ्यां परमापूर्वमुत्पद्यते तदेव फलशिरस्कापूर्वमित्युच्यते एतादृशापूर्वद्वारा दर्शपूर्णमासोभयत्वावच्छिन्नस्य स्वर्गहेतुत्वमिति अपूर्वनचकाङ्गीकार आवश्यक इत्याहुः । अत्र फलशिरस्कापूर्वे मानाभावात् अपूर्वाष्टकमित्यन्ये । नव्यास्तु कलिकापूर्वषट्केनैव परमापूर्वोत्पत्तिसंभवात् माध्य. मिकापूर्वये मानाभावेन प्राथमिकसप्तापूर्वपक्ष एव युक्त इत्याहुः । इदं अपूर्व जातेष्टिपितृयज्ञादौ कर्तृ. निष्ठमिति नव्याः । भो कृनिष्ठमिति साम्प्रदाथिकाः । प्राभाकरास्तु क्रियायाः तृतीयक्षणे स्वरूपतो न नाशः स्थूलावस्थाया नाशेऽपि सूक्ष्मरूपेण स्वर्गभोगसमर्थदेहारम्भकावयचेषु यागसंबन्धिव्यारम्भकेषु यागकतरि वा स्थित्वा स्वर्ग जनयतीत्याहुः तन्न ज्ञानेच्छादिरूपस्य यागस्य योग्यविभुविशेषगुणरूपतया क्षणचतुष्टयावस्थायि- स्वासंभवेन सूक्ष्मरूपेणाप्यवस्थानासंभवात् अन्यथा तुल्ययुक्त्या जगन्मात्रस्यैव सूक्ष्मरूपेण वर्तमानत्वापत्तिरि- ति दिक् ।। १६० ॥ १६१॥ १६२ ॥ दिनकरीयम्. मनीयोमीयमेकादशकपालं पूर्णमासे प्रायच्छत ऐन्द्रं दध्यमावास्यायामैन्दं पयोऽमावास्यायामिति पञ्चभिर्वा- क्यैर्विहितेभ्यः षड्भ्य आग्नेयादिभ्यः षडुत्पत्त्यपूर्वाणि तान्येव कलिकापूर्वाण्युच्यन्ते तेभ्यश्च परमापूमि- ति । ननु षडपूर्वाण्यावश्यकानि साक्षादेव स्वर्गहेतवः सन्तु किं परमापूर्वेणेति चेन्न दर्शपूर्णमासाभ्यां यजे. तेत्यने नोभयत्वावच्छिन्नस्य स्वर्गसाधनत्वावगमादुभवत्वावच्छिन्नस्यैकव्यापारकलनादुःपत्त्यपूर्वाणां चोभय- स्वावच्छिन्नाजन्यत्वात् दर्शपूर्णमासाभ्यामिति विधिप्रवृत्तिसमये चिरविनष्टस्य दर्शपूर्ण मासस्य व्यापारतयेक- स्यैवापूर्वस्य कल्पनाच्च । नचैवमनन्तरं षण्णां यागानां क्रामकन्वज्ञाने षडपूर्वकल्पनागौरवं तस्य फलमुखम्बा- त् । नच पश्चभिः पञ्चापूर्वद्वारा षष्ठेन च साक्षादेव परमापूर्व जन्यतामिति किं षष्टेन कलिकापूर्वेणेति वाच्यं षष्ठेनाप्युत्तराङ्गदाक्षिणासहकारेणैव परमापूर्वजननात् तावत्कालं षष्टस्य सागस्यान्वस्थित्या तजन्यापूर्वस्याव. श्यकत्वात् । अत्र परमापूर्व प्रति वर्ग प्रति च दर्शत्वपूर्णमासत्वव्यापकेन दर्शपूर्णमासोभय साधारणवैजात्ये- न कारणत्वामित्मेके । दर्शत्वेन पूर्णमासत्वेन च कारणत्वं दगडचक्रवन्मिलितानां फलोपभानमित्यपरे । अन्न -