पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. संभवे प्रतियोगित्वस्यापि न पदार्थान्तरत्वसिद्धिरिति । सादृश्यलक्षणं लक्ष्ये उपपादयति । यथेति ॥२॥ मञ्जूपा. हादकमित्यपि प्रत्ययस्स्यात् इति वाच्यं । सदृशादिपदोल्लिखितप्रतीताचेव चन्द्रप्रतियोगिकत्वभानोपगमादिति चेन्न संयागादेः प्रतियोगित्वस्योभयसिद्धत्वेऽपि आह्वादकत्वादिधर्माणां स्वरूपादिसंबन्धातिरिक्तप्रतियोगित्वा- ख्यसंबन्धकल्पने प्रमाणाभावात् अथैवं मुखं चन्द्रस्य सदशामित्यत्र षष्ट्या किमुल्लिख्यत इति चेत्सादृश्यलक्षणे तगतत्वमनिवेशयतां भेदसमानाधिकरणधर्मवत्त्वरूपसादृश्यघटकभेदान्वितं प्रतियोगित्वं, तनिवेशयतां पुनः ध- मान्वितमाधेयत्वमपाति । महादेवस्य पुनरयमभिसंधिः सादृश्यातिरिक्तत्ववादिभिरपि भुखं चन्द्रस्य सदृशमिति प्रतीत्या सादृश्यस्य चन्द्रादौ प्रतियोगित्वरूपसंवन्धान्तरमन्वेष्टव्यं तच वयमाहादकत्वादेरेव संबन्धतया स्वीकुर्मः तथाच चन्द्रप्रतियोगिकत्वविशिष्टाह्लादकत्वनिरूपिताधिकरणतायाश्चन्द्रेऽभावान्न तद्भिनत्वविशेषणं देवमिति । अथ परैरपि न सादृदयस्य प्रतियोगित्वं संबन्धान्तरमभ्युपगन्तव्यं किंतु ज्ञापकत्वं समानज्ञानविषयत्वं वा चन्द्र- मप्रात्य सादृश्यस्याप्रतीते नत्वतदाहादकत्वस्य शक्याभ्युपगम चन्द्रमप्रतीत्यापि मुखमाहादकं इति प्रतीतेरिति चेदाहादकपदोल्लिखितप्रतीतो चन्द्रप्रात्यनावश्यकत्वेऽपि सदशादिपदोलिखिताहादकत्वादिप्रतीतों तदावश्य- कल्वन ममापि चन्द्रे ज्ञापकत्वादेस्यूप्रपादत्वादिति अत्र चानिभरमेव सूचयति अनुयोगितासंवन्धविवक्षणोत्विति सप्तमी प्रयुञ्जानो महादेवः परैरङ्गीकृतस्यापि प्रतियोगित्वरूपसंबन्ध न्तरस्य स्वयमीकारे प्रयोजनाभावात् ज्ञापक- स्वादेस्तु चन्द्रऽवाधितत्वेऽपि तस्य तत्प्रतातिविषयतास्वीकारे प्रयोजनाभावाचेति सर्व समञ्जसम् । अथाहादकत्वा- देव सादृश्यत्व चन्द्र इव मुखमाहादकामति वाक्ये पोनरुत्यापत्तिः आह्वादकत्वस्येवपदेनैव लब्धत्वात् इति चेन्न इचपदेन साधारणधमत्वनवाह्लादकत्वयोधन न पौनरुतयाभावात् । अयं तु विशेषः यत्र विशिष्य साधारणधर्मवा- चकपदसमभिव्याहारोऽस्ति तत्र साधारणधर्मत्वेनैवाह्लादकत्वामवादिबोधयति यवतु स नास्ति तत्र सति तात्पर्य आहादकत्वत्वेनैव बोधः । अन्यदातु साधारणधर्मत्वेनैवाहादकत्वादिवोध्यते । अत एव भूयः पदं तात्पर्यविषयक- मित्यवोचाम ॥ इति शक्ति सादृश्यनिरूपणम् ॥ अक्षितोऽस्यक्षित्यत्वेत्यादौ क्षितिशब्दस्य क्षयवाचकत्वादाह । दिनकरीयम् . त्याहुः । सादृश्यलक्षणं लक्ष्ये योजयति । यथेति । इतिशब्दः श्लोकव्याख्यासमाप्तिद्योतकः ॥ २ ॥ रामरूद्रीयम्. परामर्शस्य द्रव्यादिविषय तया द्रव्यादीनामपि साक्षादुपयोगित्वसंभवः तथापि भेदानां तत्तद्वयक्ति- वेनापि परामर्श भानसंभवेन तत्तद्धेदव्याप्यहेतुमानात्मेति परामर्शस्य द्रव्याद्यविषयकत्वात्परम्परोपादानम् अत्र मात्रपदेन सप्तपदार्थानिरिक्तसादृश्यादिपदार्थव्यवच्छेदः । तथाच सादृश्यादीनामात्माभिन्नपदार्थानां सत्त्वे ऽपि आत्मानि तद्भदो नानुमितिविषय इति तदेतज्ज्ञानं न तत्त्वज्ञानं अतस्तद्भेदज्ञानजनकज्ञानविषयस्यापि सादृश्यादर्न तत्त्वज्ञानोपयोगितति भावः । एवंच तत्त्वज्ञानोपयोगिपदार्थानामेव महर्षिणा विभजनान विभागव्याघात इति भावः । अधिकरणत्वादीनां अतिरिक्ततां साधयति । एवमिति ॥ कुण्डे बदरमिति॥ इत्थं च आधारत्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः आधारत्वस्य च निरूपकतासंबन्धन सप्तमीसमभिव्याहृतवदरादिपदार्थेऽन्वयः । तथाच कुण्डवृत्त्याधारतानिरूपकं बदरामिति बोधः । इदं प्राचीन- मताभिप्रायेण । आधेयत्वं सप्तम्यर्थ इति नवीनमत तु कुण्डं बदरवदितिबद्वदरं कुण्डवदित्यापत्तिष्टव्या प्रतियोगित्वमपोति । एवं अतिरिक्तपदार्थ इत्यर्थः । प्रतियोगितायाः प्रतियोगिस्वरूपत्वे भूतलादेरपि घटा- दिप्रतियोगितापत्तिः घट प्रतियोगिताबानियाधारताप्रतीत्यनुपपत्तिश्च । प्रतियोगितावच्छेदकस्वरूपत्वे अभे- देनावच्छेयावच्छेदकभावविरहेण घटत्वादेः प्रतियोगितावच्छेदकत्वानुपपत्तिश्च अतिरिक्तत्वसाधिकेति भावः अपिना विषयत्वादिसमुच्चयः ॥ २॥ ननु क्षितिः पृथिवीत्यादिव्याख्यानं ग्रन्थकृतामसंगतम् क्षित्यादि- शब्दानां प्रसिद्धार्थ कत्वात् अप्रतिपत्तेरन्यथाप्रतिपत्तेर्वा निरासायैव हि विवरणं कुर्वन्ति सन्तः न चान्न तयोरे-