पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणरखण्ड यत्नो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारे कारणं तत्प्रकीर्तितम् ॥ १५२ ।। यन इति ।। जीवनयोनियत्नो यावजीवनमनुवर्तते स चातीन्द्रियः । तत्र प्रमाण- माह ॥ शरीर इति ।। प्राणसञ्चारो हि अधेिकश्वासादिः प्रयत्नसाध्यः । इत्थं च प्राणसञ्चारस्य सर्वस्य यत्नसाध्यत्वानुमानान् प्रत्यक्षप्रयत्नबाधाचातीन्द्रिययनसिद्धिः स एव जीवनयो- . रियनः ॥ १५२॥ प्रभा. निवृत्तिरित्यर्थः । उपायेच्छां प्रति फलेच्छाया इक उपायट्वेषं प्रति फलदेपहेतुत्वस्यावश्यकत्वादिति भावः । उपायद्वेषस्येव फलद्वेषस्यापि उपायविषयकानवृत्तिकारणत्वामिति उपायद्वेषं प्रतीव तजन्यनिवृत्ति प्रत्यपि अ- न्वयव्यतिरेकाभ्यां द्विष्टसाधनताज्ञानस्य हेतुत्यमिति चाश येन तादृशमूलं व्याकरोति || मुक्तावळ्यां नियु- त्तिरितीति ॥ स्वाभिप्रायं प्रकाशयति ।। द्विष्टसाधनता ज्ञानस्यत्यादिना ॥ १४९ ॥ १५० ॥ १५ ॥ या जीवनयोनिस्तु सर्वदातीन्द्रियो भवेदिति मूलस्थसर्वदत्यस्य प्रतीकात्यार्थमाह ॥ यावज्जी- वमनुवर्तत इति ॥ जीवनयोनियत्न साधयितुं भूमिकामाह ॥ प्राणसञ्चारो हीति ॥ अवधारणार्थक- हिशब्दः अधिकश्वासाहिरित्युत्तरं योज्य: । अधिकश्वासादिरूप एवेत्यर्थः धावतः प्रयत्मोत्कर्षण वासोत्कर्षदर्श- नात् अधिकथासादिरूप प्राणसञ्चारस्य प्रयत्नसाध्यत्वमावदय कामति भावः । इत्थंचेति ॥ एतादृशप्राणस- चारस्य प्रयत्नसाध्यत्वसिद्धावित्यर्थः । प्राणसञ्चारस्य सर्वस्येति ॥ प्राणसञ्चारमात्रस्येत्यर्थः । सुपु. प्तिकालीनश्वासात्मकप्राणसञ्चारस्यापीति यावत् ॥ प्रयत्नसाध्यत्वानुमानादिति ॥ तथाच सुषुप्तिका - लीनश्वासः भोक्तप्रयत्नजन्यः थासत्वात् धावतः श्रासनदिति अनुमानात् प्रत्यक्षयत्नयाघसह कृतात् अती- न्द्रिययत्नस्मिध्यतीति भावः । नन्वतीन्द्रिययत्नामद्धावपि जीवन योनियत्नोऽसिद्ध एवत्यत आह ॥ स ए- वति ।। उकानुमानात् सिद्धातीन्द्रिय यत्न एवेत्यर्थः । नव्यास्तु सुषुप्तिकालीनप्राणसञ्चाररूपश्वासं प्रति जीवना. दृस्य तादृशादृष्टप्रयोज्य मनोयोगरूपजीवनस्य वा हेतुत्वस्वीकारेण वोपपतेः उकानुमानस्याप्रयोजकत्याच जी. वनयोनियत्ने मानाभावः अन्यथा बाह्यपदार्थप्रयत्ने वानजन्यत्वस्य सिद्धत्वात् तदृष्टान्तेन प्रयत्नत्व लिनेन जी. वनयोनियत्नेऽपि ज्ञानजन्यत्व सिद्धथापत्त्या सुपुतिकाले आत्मनि अतीन्द्रिसज्ञानस्यापि स्वीकारापत्तरिति प्रा. दिनकरीयम् . न्द्रियत्वात् एवं ध्वंस साध्य कप्रवृत्तिरपि तत्समवायिनोऽप्रसिद्धरिति वाच्यं इष्टापत्तेः शब्दसाक्षात्कारसाध्यकप्रय तेरेव मृदङ्गादिगोचराया उपगमादिति प्राचीनमतानुसारेणेदम् । नवीन मते त्वधिष्ठानमात्रमुपादानं बोध्यम् । तेन यागादेहविः शब्दस्य मृदङ्गादिः प्राणसञ्चारादेश्च प्राणवहनाइयादिरुपादानमिति बोध्यम् ॥ मूले द्वेषादि. ति ॥ फलगतो द्वेषो द्विष्टसाधनताज्ञानं च निवृत्ति प्रति कारणमित्यभिप्रायेणोक्तम् ।। १४९ ॥ १५० ॥ १५१ ॥ प्राणसञ्चारोहीति ॥ अधिकश्वासादिः प्राणसञ्चारो यन्नसाध्यः प्रत्यक्षयमसाध्यतया दृष्टः धावतः प्रयत्नो- रकर्षेण श्वासकियोत्कर्ष दर्शनादिति भावः । इत्थं चेति ॥ दृष्टान्तसिद्धावित्यर्थः॥सर्वस्यति ॥ एकत्र यत्न सा. ध्यत्वस्यानुभविकत्वेन तदृष्टान्तेन प्राणसञ्चारत्वावच्छेदेन सर्वन भोक्तृयत्नजन्यत्वानुमानादिति भावः ।। स एव प्राणसच्चारहेतुन्वेनानुमीयमान एव । नव्यास्तु जीवनयोगियत्ने मानाभावः प्राणक्रियाया अदृष्टविशे. षप्रयोज्यालामनोयोगरूपाज्जीवनात् तत्प्रयोजकादृष्टाद्वा सम्भवादुक्तानुमानस्य चानगोजकत्वात् । अन्यथैक. अ यत्ने ज्ञानजन्यस्वदृष्टान्तेन जन्ययत्नत्वावच्छेदेन ज्ञानजन्यत्वकल्पनापत्त्या सुषुप्तौ ज्ञानादेरप्यत्तीन्द्रियस्य कल्पनापतेरिति प्राहुः ॥ १५२ ॥