पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत् । अनित्ये तदनित्यं स्यानित्ये नित्यमुदाहृतम् ॥ १५३ ।। तदेवासमवायि स्यात् पतनाख्ये तु कर्मणि । सांसिद्धिकं द्रवत्वं स्यान्नैमित्तिकमथापरम् ॥ १५४ ।। सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः । परमाणौ जले नित्यमन्यत्रानित्यमिष्यते ।। १५५ ॥ गुरुत्वं निरूपयति । अतीन्द्रियमिति ॥ अनित्येति ।। अनिये म्यणुकादौ तद्गुरुत्वम- नित्यम् । नित्ये परमाणौ नित्यम् । गुरुत्वामित्यनुवर्तते ।। तत् गुरुत्वम् ।। असमवायि असमवायि- कारणम् ।। पतनाख्य इति ।। अद्यपतने इत्यर्थः । द्रवत्वं निरूपयति ॥ सांसिद्धिकमि- ति ॥ द्रवत्वं द्विविध सांसिद्धिकं नैमित्तिकं चेति ।। द्वितीयं नैमित्तिकम् ॥ परमाणा- विति। जलपरमाणो द्रवत्वं नित्यमित्यर्थः । अन्यत्र पृथिवीपरमाण्वादौ जलद्वयणुकादौ च द्रवत्वमनित्यम् ।। १५३ ।। १५४ ।। १५५ ।। नैमित्तिकं वहियोगात् तपनीयघृतादिषु । द्रवत्वं स्यन्दने हेतुर्निमित्तं सङ्गो तु तत् ।। १५६ ॥ कुत्रचित्तेजसि कुत्रचित् पृथिव्यां च नैमित्तिकं द्रवत्वं तत्र को वा नैमित्तिकार्थः तदर्शयति । नैमित्तिकमिति ॥ वहीति ॥ अग्निसंयोगजन्यं नैमित्तिकं द्रवत्वम् । तच सुवर्णादिरूपे तेजसि धृतजतुप्रभृतिपृथिव्यां च वर्तत इत्यर्थः ।। द्रवत्वमिति । हेतुरिति ।। असमवायिकारणमित्यर्थः। सङ्गहे सक्तुकादिसंयोगविशेषे द्रवत्वं स्नेहसाहितमिति बो- प्रभा. त देवासमवाय स्यात्पतनाहये तु कर्म गीतिमूलस्थासमवायिशब्दस्य समघायिकारणभिन्नपरत्वे रूपादा- वतिव्याप्तिः अतः तत्पदं असमचाविकारणपरतया व्याचष्टे । असमवायिकारणमिति ॥ गुरुत्व इव वेगेऽपि द्वितीयादिपतनासमवायित्वसत्त्वात् अतः मूलस्थपतनपदं आद्यपतनपरतया व्याकरोति ॥ आद्यप- तन इति ॥ यद्यप्यायपतनासमवायिकारणत्वेन कृप्तगुरुत्वस्यैव द्वितीयादिपतनासमवायिकारणत्वसंभवे तत्र वेगस्यासमवायि कारणत्वे मानाभावेनातिव्याप्त्यप्रसक्त्या पतनशब्दस्याद्यपतनपरत्वमनर्थकं तथापि वेगं विना द्वितीयादिपतनानुत्पत्तेः अञ्चयव्यतिरेकाभ्यां वेगस्य तत्कारणत्वावश्यकत्वात् निमित्तकारणतया कुप्तवेगस्यासमवायिकारणत्वस्वीकारेणैव सामञ्जस्ये तत्र गुरुत्वस्थापि हेतुत्वकल्पनमनुचितं गौरवादित्याश- येन तथा व्याख्यातमिति हृदयम् । तथाचाचपतनं सासमवायिकारणं क्रियात्वात् संयोगासमवायिकारणक्रि. यावदित्यनुमानात् गुरुत्वसिद्धिरिति भावः ।। १५३ ॥ 1५४ ॥ १५५ ॥ दिनकरीयम् पतनसमवायिभिन्नत्वरूपं पत्तनासमवायित्वं रूपादावतिव्याप्तमतो व्याचष्टे || असमषायिकारण. मिति ॥ द्वितीयादिपतनस्य वेगासमवायिकारणकत्वादाह D आयोति ॥ एवं च संयोगासमवधानकाली- ना क्रिया गुणासमवायिकाराणिका क्रियास्वात् संयोगजन्यक्रियावदित्यनुमानेन गुरुत्वसिद्धिरिति भावः ॥ अग्निसंयोगजन्यमिति ॥ अग्निसंयोगासमवायिकारणकमित्यर्थः । वक्ष्यमाणातिप्रसादाह ॥ स्नेहसहितमिलि ॥ लव सांसिद्धिकमेव । तथा न्य सांसिदि कासत्वत्वेन हेतुत्वाम गुवर्णाविदवावस्य सु.