पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रमा-दिनकरीयसमन्विता । -- प्रभा. भिहितामति दिगिन्याहुः । तदसत् नित्ये कालिकसंबन्धाभावात् । यथा कालिकसंबन्धेन कार्यमात्रानुत्पत्तिः तथा तद्धर्मान्य वृत्तिविषयतायास्त द्धौ अभावेन तेन संबन्वेन ज्ञानोत्पत्तिवारणे ईदृशकार्यकारणभावस्याप्रा. माणिकत्वात् अन्यथा कालिकसंबन्धन कार्य प्रति नित्यभेदम्य हेतुत्वापत्तिः । यच्चोक्तमे ताशकार्यकारणभा. चस्तत्र तत्र व्यवस्थापित इति तदपि न प्रामाणिकस्तादृशकार्यकारणभावव्यवस्थापनस्य काप्य दर्शनात् । यञ्चोक्त कार्यतावच्छेदककोटिप्रविष्टज्ञानत्वस्थाने गुणवं निवेशनीयमिति तदपि मन्द ज्ञानत्वेच्छास्वकृति - स्वादिभेदेनानन्तकार्यकारणभावकल्पनागौरवभिया हि सर्वसाधारणगुणत्वस्य कार्यतावच्छेदकत्वमङ्गीकृतम् । तद्धर्मान्यवृत्तिविषयतासंबन्धेन ज्ञानत्वावच्छिन्नं प्रति तद्धर्मभेदस्य हेतुत्वमते तद्धर्मे तद्धर्मभेदरूपकारणामा- वेन तेन संबन्धेन ज्ञानतावच्छिन्नानुत्पत्ती तेन संबन्धेन ज्ञानायभावादेव तेन संबन्धेन इच्छायुत्पत्तिवारण- संभवेऽतिप्रसकतत्साधारणगुणत्वस्य कार्यतावच्छेदकत्वे मानाभावात् अन्यथा तेन संबन्धेन सत्वावच्छिन्नं प्रत्यपि तद्धर्मभेदस्य हेतुम्बापत्तिः । न चेष्टापत्तिः अप्रामाणिकानन्तकार्यकारणभावप्रसङ्गात् तस्मात् गुणत्वस्य प्रवृत्तित्वव्यापकत्येऽपि तेन संबन्धेन व्यापकधर्मावच्छिन्नोत्पादकसामम्या अप्रसिद्धत्वात् तदभावेन सुखत्वे विधे. यतावच्छेदकतासंबन्धेन प्रवृत्त्यापत्तिवारणं तद्बलेनैव प्राणसञ्चारत्वे श्रमत्वे च तेन संबन्धेन प्रवृत्तित्वावच्छि- नापत्तियारणं च बन्ध्यापुत्रबले शत्रुनिराकरणमितेि तुल्यामति प्रतिभाति । यच्च प्राणसञ्चारस्य प्रवृत्त्ययोग्य. स्वादेव न तत्र प्रवृत्तिारीत मिटरभिहितमिसि स्वीकार्थोपष्टम्भकतया लिखितं तदपि न तादृशमिश्रप्रन्थयटक प्रवृ. त्यथोम्यवादेवेति वाक्यस्य प्रवृत्तिजनक सामयभात्रादेवेत्यर्थपरतया उपष्टम्भासङ्गत्तेरित्यास्तां विस्तरः ॥ इत्थंचेति ॥ इष्टसाधनतादित्रितयविषयकज्ञानस्य प्रवर्तकत्वे चेयर्थः ॥ विधेरपीति ॥ अपिशब्द इष्ट- साधनत्वादिकमित्युत्तरं योज्यः । विधित्वावच्छिन्नस्येत्यर्थः ॥ अर्थ इति ॥ वाच्य इत्यर्थः । तथाच विधेरा- ख्यातत्वेन यथा कृतिशकत्वं तथा विधित्वेनटसाधनतादिशक्तत्वमिति फलितार्थः । अत्रेदं बोध्यं वैदिकं वाक्यं विधिनिषेधार्थवादभेदास्त्रिविधं तलेष्टसाधनतादिबोधकवाक्यत्वं विधित्वं यजेतेत्यादौ धात्वर्थयागादौ स्वर्ग: साधनत्वादिबोधकत्वालक्षणसङ्गतिः । स विधिरुत्पत्तिविधिविनियोगविध्याधिकारविधिप्रयोगविधिभेदाचतुर्वि- धः । मन्त्र क्रमस्वरूपमात्रप्रतिपादन विधिरुत्पत्तिविधिः यथा सोमेन यजेतेत्यादिः तस्य सोमयागादिरूपक- ममात्रविधायकत्वात् । क्रियार्थतया किश्चिद्रस्तुविधायको विधिः विनियोगविधिः यथा दध्ना जुहोतीत्यादिः। हो- दिनकरीयम्. कधर्मावच्छिन्न जनकसामप्रथा अपेक्षितत्वात् अनयैव च रीत्या प्राणसञ्चारत्वे श्रमत्वे च साध्यताख्यविषय- तावच्छेदकतासम्बन्धेन प्रवृत्तवारणं बोध्यम् । एतदेव हृदि निधाय प्राणसञ्चारस्य प्रवृत्त्ययोग्यत्वादेव न तत्र प्रवृत्तिरिति मिश्रभिहितामिति दिक् ॥ इत्थं चेति ॥ प्रवृत्ति प्रतीष्टसाधनत्वादिधियो हेतुत्वे चेत्यर्थः । इष्टसाधनवादीत्यादिना बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वयोः परिग्रहः अत्र च निष्फलप्रवृत्त्यभावादि- टसाधनत्वस्येष्टसाधनेऽपि मधुविषसम्पृक्तानभोजनेऽप्रवृत्तेर्बलवदनिष्टाननुवन्धित्वस्य कृत्यसाध्ये सुमेरुशृङ्गाह- रणादावनवृत्तेः कृतिसाध्यत्वस्य च ज्ञानं प्रवृत्तिहेतुः तश्च विधित इतीष्टसाधनत्वादिकं विध्यर्थ इति भावः । मनु भावियौवराज्यादौ प्रवृत्तिवारणायेदानीन्तनकृतिसाध्यताज्ञानादेः प्रवर्तकत्वं वाच्यं तच्च न विधिवा- क्यात् ततः शक्यकृतिसाध्यत्वेष्टसाधनत्वप्रकारकज्ञानस्यैवोत्पत्तरिति कथं प्रवर्तकं ज्ञानं विधित इति । अत्र वदन्ति न विधिः साक्षात प्रवर्तकं ज्ञानमुत्पादयति किंतु विधिवाक्यादिष्टसाधनत्वे कृतिसाध्यत्वे चावगते किमि- टमित्याकाङ्खयां स्वर्गकामादिपद समाभिव्याहारात् स्वर्गसाधनमिति बानमानुमानिक मानसं वोत्पद्यते अन्यथा विशेषरूपेण फलज्ञानाभावात् प्रवृत्त्यनुपपत्तेः एवमिदानीन्त नत्वान्तीवेण कृतिसाध्यत्वादिज्ञानमनुमानादिति । अत एवं मणिकृतापि एवं विधिजन्य ज्ञानजन्य ज्ञानं प्रवर्तकमिति । अत्र भट्टपादाः लोके प्रवृत्तिर्द्वधा स्वेच्छा- धीना परप्रेणाजन्या व । तत्राधायां प्रवर्तनाथा अनुपयोगेऽपि द्वितीय प्रवृत्ती सा प्रयोजिका आचार्य प्रेरणये. दं करोमीति व्यवहारात् । प्रवर्तना च प्रवर्तयितुः प्रवृत्त्यनुकूलव्यापाविशेषः स च चेतनस्याभिप्राय एव अचेतनस्य तु वेदस्याभिधानामकः कश्चिच्छन्दसमवेतः तथा वाचार्याभिप्रायज्ञानायथा शिष्यः प्रवर्तते त. 103