पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। ७८३ 1 शीवस्पर्शवत्वम् । नचात्र स्वरूपासिद्धिरेव दूषणमिति वाच्यं सर्वत्रोपाधेर्दूषणान्तरसङ्कार्यात् अत्र च साध्यव्यापक पक्षावृत्तिरुपाधिरित्याहुः ॥ शब्दोपमानयोरिति ॥ वैशेषिकाणां शब्दोपमानयों व पृथक्पामाण्यमिष्यते ॥ १४० ॥ अनुमानगतार्थत्वादिति वैशेषिकं मतम् । मते प्रत्यक्षमनुमानं च प्रमाणं शब्दोपमानयोस्तु अनुमानविधयैव प्रामाण्यम् । तथा हि दण्डेन गामानयेत्यादिलौकिकपदानि यजेतेत्यादिवैदिकपदानीव तात्पर्यविषयस्मारितपदा- प्रभा. व्यापकोऽपीति ॥ साध्यव्यापकताश्रय इत्यादिः अपिना साधनाव्यापकः समुचीयते तथाच साध्यव्यापकः साधनाव्यापकः यथा उपाधिः तथा साध्यव्यापकः साधनव्यापकच उपाधिर्भवतीति समुदितार्थः । द्विती. यमुपाधिमुदाहरति ॥ यथेत्यादिना ।। अनुष्णाशीतस्पर्शवत्वमिति ॥ उपाधिपदस्य पूर्वग्रन्थस्थ- स्यात्रानुषङ्गः । तथाच तस्य साध्यध्यापकस्य साधनाध्यापकत्वेऽपि पक्षे तदभावेन साध्याभावानुमानसंभ- वाषकत्वमावश्यकमिति भावः ॥ अत्रेति ॥ काठनसंयोगवत्त्वहेतावित्यर्थः ॥ स्वरूपासिद्धिरेवेति ।। अत्राप्यर्थकैव कारेण स्वरूपासिद्धत्वं बाधितत्वं सत्प्रतिपक्षत्वं च दूषणमिति लभ्यते । तथाचैतादशदोषैरेच हेतादुष्टत्वसंभवे साधनव्यापकसाधारणमुपाधिलक्षणमङ्गीकृन्य सादृशोपाधिनापि हेतोर्दुष्टत्वाङ्गीकारे प्रयोजन विरह इति भावः । सर्वत्रोपाधेरिति ॥ सर्वस्थलीयोपाधरित्यर्थः । उपाधिमात्रस्यति यावत् ॥ दूषणा- न्तरसाङ्कर्यादिति ॥ व्यभिचारादिरूप दोषसमवहितत्वादित्यर्थः तथाच उपप्रेयसङ्करेऽपीत्यादिन्यायेन ए- कस्मिन् नानादोषसङ्करे बांधकाभावात् प्रकृतहतो उपाधिरूपदोषाजीकारोऽप्यावश्यक इति भावः । ननूक्त- स्थलेऽनुष्णाशीतस्पर्शवत्वस्योपाधित्वे तत्र साधनाव्यापकत्वघटितलक्षणाभावादध्याप्तिरित्याशङ्का परिहरति ॥ अत्रचेति ॥ उपाधेस्सत्प्रतिपक्षोन्नायकत्वेन दृष्करवपक्ष इत्यर्थः । साध्यव्यापक इत्यादि । साध्यव्यापक वे सति पक्षावृत्तित्वमुपाधिलक्षणमित्यर्थः । तथाचोक्तस्थलऽनुष्णाशीतस्पर्शवत्वस्य पथिवीत्वव्यापकत्वात् क- रकारमकपक्षावृत्तित्वाच नाव्याप्तिरिति भावः तत्र एतादृशोपाधिलक्षणस्वीकारे पर्वतो धूमवान् बढेरित्यादौ आर्द्र. धनादौ घटो द्रव्यं सत्वादित्यादौ गुणान्यत्वादौ चाव्याप्तिः तेषां पक्षावृत्तित्वाभावात् किंचोपाधेस्सत्प्रतिप- क्षोत्रायकत्वेन दूषकत्वे पर्वतो वहिमान् धूमादित्यादौ अन्धनादेः पर्वते धूमाभावाननुमापकत्वेन सत्प्रति. पक्षोन्नायकत्वाभावात् दूषकत्वानुपपत्तिः ।अपिचोपाधेस्सत्प्रतिपक्षोन्नायकत्वं न मणिकारानुमतं यदभाको व्याभ- चारविरोधी तत्त्वमित्युपाधिलक्षणकरणात् अन्यथा यदभावस्साध्यविरोधीति लक्षणकरणापत्तरित्याद्यस्वरसं वि- चिन्त्याहुरित्युकामिति ध्येयम् ॥ मूले शब्दोपमानयोरित्यादि । यद्यप्युपमानशब्दयोरित्येव वक्तुमुचितं मू ले उपमाननिरूपणानन्तरमेव शब्दस्य निरूपितत्वात् प्रमाणविभाजकसूत्रानुसाराच्च तथापि वैशेषिक,णां प्रमाण- चतुष्टयानुसारिमूलोकनिरूपणक्रमानुसरणाय प्रमाणविभाजकसूत्रानुसरणस्य चानपेक्षितत्वात् शब्दस्यानुमाना. न्तर्गतत्वव्यवस्थापनं कठिनामिति कष्टमनुभुज्य सुखं भोक्तव्यमिति स्वेच्छयैवादी शब्दस्यानुमानान्तर्गतत्वं तैय. वस्थापितमिति तदेव मूलकृताप्यनुसारितामति नोकदोषप्रसक्किः तादृशमूलार्थस्य स्फुटत्वेऽपि शब्दोपमानमो- वैशेषिकाभिमतानुमानगतार्थत्वमुपपादयितुं मूलार्थमनुवदति ॥ वैशेषिकाणां मत इत्यादि ॥ विधिप्रत्ययघ. टितवाक्यमेव प्रमाणामिति प्राभाकरमससाधारण्याय ॥ दण्डेन गामभ्याजयति ॥ पदानीति ॥ कर्मकर णाकावानिवृत्त्यर्थं द्वितीयान्तगोपदतृतीयान्त दण्डपदघटितसमुदायस्य घटकपदानां प्रातिस्विकरूपेण तावत्पदा दिनकरीयम् या दूषकत्वे चेत्यर्थः । अत्र च सत्प्रतिपक्षोत्थापकत्वपक्षे च ॥ पक्षावृत्तिरिति ॥ पक्षवृत्तित्वे तु पक्षे तदभावेन साध्याभावासाधनादिति भावः । गुरुमते लौकिकः शब्दोऽनुवादकः वैदिक एव प्रमाणं तन्मत. निराकरणायाह ॥ वैदिकति । अत्र स्वर्गकामो यजेतेत्यादिपदत्वेन पक्षता तेन विशेषतः संसर्गसिद्धिरि- ति द्रष्टव्यम् ॥ तारपर्यविषयति ॥ अन ब्राह्मणे विछत्यादौ यदाधिकरणत्वं संसर्गे तात्पर्य तदा विषय-