पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । भेदाग्रहस्य हेतुत्वे जलहदे वह्निव्यायधूमवद्धदाग्रहादनुमितिनिराबाधा । यदि च विशि- प्रज्ञानं कारणं तदायोगोलके वह्निव्यायधूमज्ञान मनुमित्यनुरोधादापतितं सेयमुभयतापाशा प्रभा. न्यथाख्याति प्रसाध्य इदानी दाढर्याय प्रकारान्तरेणाप्यन्यवाख्याति साधयति ॥ किंचेति ॥ अनुमि- तिं प्रतीति ॥ अनुमितिसामान्य प्रतीत्यर्थः ॥ भेदामहस्येति ॥ व्याप्यत्ववझेदाप्रहविशिष्टव्याप्योपस्थि- तिकालीनहेतुप्रकारकपक्षविशेष्यकनिश्चयस्य व्याप्यवद्भेद ग्रहकालीनव्याप्यविशिष्टविषयकोपस्थितिविशि- टपक्षग्रहस्य व्याप्यत्ववद्भेदामहविशिष्टव्याप्योपस्थितिकालीन हेतूपस्थितिहेतुमद्भदाग्रहकालीनहेतुविशिष्टवि. षयकोपस्थितिविशिष्टपक्षप्रहृत्य चेलार्थः || हेतुत्व इति ॥ वहिव्याप्यप्रमेयत्ववान् पवर्तः वलिव्याप्चम हानसीयधूमव्यक्तिमान्पर्वतः वह्निव्याप्य रजतत्ववान्पर्वत इति विशिष्टज्ञानानङ्गीकर्तृप्राभाकरमते तत्र तादृश- भ्रमस्थानाभिषिक्तज्ञानद्वयस्यैव स्वीकरणीयतया तादृशज्ञानोत्तरं तन्मते पर्वते वहधनुमित्युत्पत्तये त्वन्यतम- स्वेन हेतुत्वस्वीकार इति भावार्थः ॥ जलहद इति ॥जले ह्रद एवेत्यर्थः जलत्वरूपसामान्यधर्मावच्छिन्ने ह्रदत्व- रूपविशेषणधर्मावच्छिन्ने वेति यावत् ॥ वहिव्यायधूमवझेदाग्रहादिति ॥ तादृशभेदप्रतिबन्धकदोप- विशेषप्रयोज्यतादृशभेदप्रकार काहनिष्ठविशेष्यतासंबन्धाबाच्छन्न प्रतियोगिताकामावरूपकारणबालादित्यर्थः ॥ अनुमितिरिति ॥ विशेष्यतासंबन्धेन वहिविधेयकानुमितिरित्यर्थः ॥ निरावाधेति ॥ अवश्यमझीकार्येत्यर्थः । तथाच तदनङ्गीकारेऽन्वयव्यभिचारात अनुमितिसामान्य निरुतमेदाग्रहस्य हेतुत्वानुपपत्तिः तदङ्गीकारे त्य- न्यथाहयातिसिद्धिरिति भावः ।। यदि चेति ॥ विशिष्टज्ञानं च कारणं यदीति योजना विशिष्टज्ञानं चेति च कारः एवकारार्थे साध्यव्याप्यत्वप्रकारतानिरूपितहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानभवेत्यर्थः ॥ कारणं यदीति ॥ अनुमितिसामान्यनिरूपित्तकारणतावत्त्वेन तच यद्यभिमतामत्यर्थः विशिष्टज्ञानत्वेन कारणत्वस्य तन्मतसिद्धत्वाभावात् यदीत्युक्तम् । तथाच तैरपि अनुमितिसामान्ये विशिष्टज्ञानत्वेन हेतुत्वस्वीकारेण जलादि. पक्षकस्थले वहिव्याप्यधूमप्रकारकजलादिविशेष्यकज्ञानरूबकारणाप्रसिद्धधा तन्मते जलादौ न वहथादिविधेयका. तुमित्यङ्गीकारत्रसक्तिरिति भावः ॥ तदेति ॥ तथापीत्यर्थः अनुमितिसामान्ये विशिष्टज्ञानस्य हेतुत्वपक्षाश्र- यणेऽपीति यावत् एतस्यापतितमित्यनेनान्वयः ॥ अयोगोळक इत्यादि । तप्तायःपिण्डविशेष्यकह्नि- व्याप्यधूमप्रकारकज्ञानमित्यर्थः ॥ अनुमित्यनुरोधादिति ॥ तप्तायःपिण्डविशेष्यकवह्निविधेयकसर्चा- नुभवसिद्धानुमित्यनुपपत्तिभयादित्यर्थः ॥ आपतितमिति ॥ अवश्यमङ्गीकार्यमित्यर्थः । तथाच वहिव्या- प्यधूमवदयःपिण्डामति भ्रमस्थानाभिषिक्तज्ञानयोत्तरं तप्तायःपिण्डं वहिमदित्यनुमितेः त्वयापि विषयबा- धाभावेन स्वीकरणीयतया तादृशानुमितिपूर्व तादृशविशिष्टज्ञानास्वीकारे ब्यतिरेकव्यभिचारात् अनुमितिसा. मान्ये विशिष्टज्ञानस्य हेतुत्वासंभवः तत्पूर्व तत्स्वीकारे तु अन्यथाख्यातिसिद्धिनिष्प्रत्यूहेति भावः । केचित्तु ननु रजे रजतभेदाग्रहप्रयोजकदोषस्य प्रतिवन्धकत्वकल्पनान्न र निवृत्तिरेवं रजते रङ्गभेदाप्रयोजकदोषस्य प्रतिबन्ध कत्वान्न रजते प्रवृत्तिरिति कथं युगपत्प्रवृत्तिनिवृत्त्योरापादनमत आह किंचेतीत्यवत्तरन्ति । तद- सत् तादृशदोषस्य केवलदोषत्वेन तादृशनिवृत्तिप्रतिबन्धकरवे रङ्गे इदं न रजतामिति प्रमोत्तरमपि निवृत्त्यनुपप. त्तिः दोषसामान्यान्तर्गतदूषणत्वादिदोषसत्वात्तादृशभेदाग्रहप्रयोजकत्वविशिष्टदोषत्वेन तत्प्रतिबन्धकत्वे दो. दिनकरीयम् . इदं चेष्टभेदाग्रहः प्रवृत्तिकारणमनिष्टभेदाग्रही निवृत्तिकारणमिति यथाश्रुताभिप्रायेण इष्टभेदोपस्थितिविशिष्टे- टभेदासंसर्गाग्रहः प्रतिबन्धकस्तदभावः कारणमिति दर्शितनिष्कर्षे तु रजतभेदोपस्थितिविशिष्टरजतभेदासं. सर्गामहस्य प्रतिबन्धकस्य रङ्गेऽभावादिति रीत्या सामग्री बोध्या । ननु रङ्गे रजतभेद्राग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रङ्गे निवृत्तिरेवं रजते रङ्गभेदासंसर्गग्रहप्रयोजकदोषस्य प्रतिबन्धकत्वान्न रजते प्रवृत्तिरिति कथं युगपत्प्रवृत्तिनिवृत्त्योरापादनमित्यत आह ॥ किंचेति ॥ भेदाग्रहस्य व्याप्यवद्भेदाग्रहस्य ॥ अ. नुमितिर्निरावाधेति ॥ सति वाधाभावेऽन्यथाख्यातिरूपानुमितिनिराबावेत्यर्थः ॥ आपतितमिति ॥