पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः प्रभा. रजतविषयकप्रतिसामग्री च प्रदर्य इदानी रङ्गविषयक प्रवृतिसामग्री रजतविषयकनिवृत्तिसामग्री च प्रदर्शयति ॥ दोषादेवेति ॥ रङ्गे रजतभेदग्रहप्रतिबन्धकागजते रङ्गभेदग्रहप्रतिबन्धकाच वर्तुलत्वचाक- चिक्यरजतसमुदायमध्यनिष्टत्वादिधर्मदर्शनरूपदोषादेवेत्यर्थः एवकारेणान्यथाख्यातिभीतर्व्यवच्छेदः ॥रने रजतभेदाग्रहस्येत्यादि । रजतभेदप्रकारकग्रनिष्ठविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकामावस्य रवृत्तित्वेनावश्यं स्वीकार्यत्वात् रङ्गभेदप्रकारकग्रहनिविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकाभावस्य रज. तवृत्तित्वेनावश्यं स्वीकार्यत्वाचेत्यर्थः । एतेन रङ्गविषयकप्रवृत्तिसामग्री रजतविषयकनिवृत्तिसामाग्री च प्रद- र्शिता तथाचैककर्तृसामग्रीद्वयसत्त्वात् तदुभ पोत्पत्यापत्तिः परस्परसामग्याः परस्पर प्रतिबन्धकत्वे एकैकस्या अप्यनुत्पत्तिप्रसङ्ग उभयोत्पत्तरिव एकैकस्याप्यनुत्पत्तेः प्राभाकरस्थासम्मत्तत्वेन इष्टापतेर्वस्तुमशक्यत्वात् । तस्मात् भेदामहस्य प्रवृत्तिनिवृत्तिकारणत्वं परित्यज्य प्रवृत्ताविष्टतावच्छेदकप्रकारकज्ञानस्य निवृत्ताविष्टतावच्छे. दकप्रकारकज्ञानस्यान्यथानुपपत्त्या हेतुत्वमङ्गीकृल्यैव प्राभाकरेणाप्युक्तदोषः परिहरणीय इति तन्मते अन्यथाख्यातिसिद्धिर्निराबाधेत्यखण्डार्थः । केचित्तु ननु तत्तविशेष्ये तत्तविशिष्टबुद्धिं प्रति तत्तद्विशेषणे तत्तद्वि. शेष्यघटितसन्निकर्षों हेतु; अन्यथातिप्रमजात तथाच कथं रजत घटित्तसंयुक्तसमवायन रजे रजतत्व ग्रह इत्यत आह अपि चेत्यवतगणिकामाहुः तदसत् । तत्तद्धार्मविशेष्यकतत्तद्धर्मप्रकारकप्रत्यक्ष प्रति तत्तद्धर्मनिष्ठतत्त- द्धर्मिघटितेन्द्रिय सन्निकर्षस्य हेतुत्वेऽपीनर रूप निष्पार्थिवभागघटितचभुत्संयुक्तसमवायात् लौकिकनिष्टज. पाकुसुमघटितचक्षुसंयुक्तसमवायाच्च पीनं सुवर्ण लोहितः हफाटेक इति प्रत्यक्षानापत्तेः पीतरूपांशे लोहित्यांशे च तादृशप्रत्यक्षस्य ज्ञानलक्षणाजन्य त्वस्वीकारे सुवर्णनिष्ठपीतरू स्फाटेकनिष्ठलौहित्यमिति प्रत्यक्षानायत्तेः उपनीत विशेषणतयैव भासत इति नियमात् । किञ्च तादृशप्रत्यक्षस्य पीतरूपाचशे ज्ञानलक्षणाजन्यत्वे तत्त- द्धर्मनिष्टविषयतायाः तादृशालौकिकसानकर्यप्रयोज्यत्वेन लौकिकविषयत्वरूपत्वाभावात् तादृशप्रत्यक्षानन्तरं पीतं साक्षात्करोमि लौहित्वं साक्षात्करामति साक्षात्कारत्वमहानापत्तेः साक्षात्कारित्वव्यजकलौकिकवि- पयतायाः अमावात् । नहि तत्प्रत्यक्षं दोषनिशेषजन्यं येन पोतरूपादिनिष्ठविषयताया: दोषविशेषप्रयोज्यत्वे. न लौकिकविषयनाया इव दोषविशेषप्रयोज्यविग्यताया अपि साक्षात्कारत्व व्यञ्जकत्वात् तद्रह उपपद्येत तथासति दोपविशेषस्य सकल जनसाधारण्याभावान् कम्यचिद्दोपविशेषवतः पीतइशङ्खः वंश उरग इति प्रत्यक्ष काले दोषविशेषशून्याय शवो न पीतः वशो नोरग इति प्रत्यक्षवत् कस्यचित पीतं सुवर्ण लोहितः स्फटिकः इति प्रत्यक्षस्य काले कस्यचित् पुरुषम्य सुवर्ण न पात स्फटको न लोहित इति प्रत्यक्षापत्तेः नचेष्टापत्तिः सक- लजनानुभववाधितत्वात् । तस्मादिन्द्रिय सन्निकर्षस्य यद्धर्मिविशेषघटितरूपेण प्रत्यक्षहेतुत्वमप्रामाणिकमेव । यद्योक्तमन्यथातिप्रसङ्गात् इति तदपि न रजत समुदायमध्यनिविष्टरले इदं रजतमिति प्रत्यक्षस्यानुभवसिद्धत्वा- तू तादृशप्रत्यक्षानुरोधेन रङ्गनिष्टरजत समुदायमध्यनिविष्टन्वादेस्तद्धेतुत्वं स्वीक्रियते न घटादिनिष्ठतादृशनि- विष्टत्वादेः घटादाविदं रजतमिति प्रत्यक्षाभावात् अत एवारोप सति निमित्तानुसरणं नतु निमित्तमस्त्वित्या. रोप इति मणिकारोक्तः स्फटिकादिभिन्ने सन्नपि लौहित्यस्य स्वाश्रय संयोगो न संबन्धः किन्तु स्फटिकादा. वेवेति सिद्धान्तवागीशभट्टाचार्योतिरपि सङ्गच्छते । एवंच रजतत्वनिष्ठरजत घटित संयुक्तसमवायेन रने रजत. स्व प्रत्यक्षवत् घटादौ न तत्प्रत्यक्षापत्तिः घटादिनिष्टरजतमध्यनिविष्टत्वादेस्तद्धेनुत्वानभ्युपगमात् कल्पनाया अनुभवानुसारित्वात् यच्च कथं रजतघटित संयुक्त समवायेन रङ्गे रजतत्वग्रह इत्यत आह । अपिति तदप्यसंगतमिति । अपिचेत्यादिप्रन्थस्य युगपत्प्रवृत्तिनिवृत्युभयोत्पत्त्यापादनद्वारा इष्टभेदाग्रहस्य प्रवृत्तिहे- तुत्वनिराकरणपरत्वेन जनवनिधरजनघटितसंयुक्त समवायेन तादृशाशङ्कानिरासकराविशेष्यकरजतत्वप्र- कारकप्रत्यक्षहेतुत्वब्यवस्थापनपरलाभावादपिवेत्यादिग्रन्थस्य तादशावतरणिकाया अत्यन्तासंभावितत्वात अ. पिचेत्यादिग्रन्थस्य तादृशावतरणिकाभिप्रायकत्वेऽवतरणिकाग्रन्थेन प्रवृत्तौ विशिष्टज्ञानहेतुत्वनिराकरणात् अव. तार्यापिचेन्यादिप्रन्धेन भेदाग्रहस्य तद्धेतुत्वनिराकरणाच्च स्वपरपक्षोभयनाशकत्वेन विश्वनाथपञ्चाननस्य उ- न्मत्तत्वापत्तश्चेति दिक। एतावता प्रवृत्तिसामान्येऽन्यथानुपपत्त्या विशिष्टज्ञानस्य हेतुत्वव्यवस्थापनद्वारा अ-