पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७६१ युगपत्प्रवृत्तिनिवृत्ती स्यातां रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे चान्यथाख्यातिभयात् त्वन्म- ते दोषादेव रङ्गे रजतभेदाग्रहस्य रजते रङ्गभेदाग्रहस्य च सत्त्वात् । किंचानुमिति प्रति प्रभा. ज्ञानलक्षणाप्रत्यासत्त्यादर इति कारणबाधात् बाधितमेव मिथ्याज्ञानमित्याशङ्कां मनसि निधाय स्थलावशेषे कारणबाधाभावादनिवार्य मेव मिथ्याज्ञानमिल्लाह किञ्चत्यादिनेत्यवतारयन्ति तदसत् रजतभेदाग्रहकार्यताव- च्छेदकप्रवृत्तिसाधारणरजतत्वविशिष्टविषयकत्वं न रजतत्वप्रकारतानिरूपितरनतनिष्ठविषयतानिरूपकत्वं तस्य विसंवादिप्रवृत्तिसाधारण्याभावेन न्यूनवृत्तित्वान्नापि रजतत्वप्रकारकत्वं तस्य बाधज्ञानाप्रतिबध्यनिर्धर्मिताव- च्छेदककरजतत्वप्रकारकज्ञानसाधारणतयातिप्रसकत्वात् किन्तु किञ्चिद्धर्मावच्छिन्नविशेष्यकरजतत्वप्रकारकत्व- रूपं वाच्यम् । एवंच सधर्मितावच्छेदककप्रवृत्तिमात्रस्य तादृयत्वेऽपि निमितावच्छेदककरजतत्वप्रकारकज्ञानप्र. योज्यतत्समानाकारकप्रवृत्तेः तादृशकार्यतावच्छेदकानाक्रान्ततया तादृश प्रवृत्तौ विशिष्टज्ञानहेतुतायाः तवाप्याव- श्यकत्वान्न नैयायिक मते गौरवप्रसक्तिः। नच निर्धर्मितावच्छेदककप्रवृत्त्य स्वीकारे क्षतिविरह इति वाच्यं तथा सति स्वर्गाद्देश्यकथामविधेयकप्रवृत्तेः स्वर्गत्वयागत्वांशे निर्मितावच्छेदककत्वादेःखीकार्यतया स्वर्गकामो यजे. तेति श्रुतेः प्रवृत्त्युपयोगित्वाभावेन तादृशविधेरप्रवर्तकत्वापत्तेः एवंच रजतत्वादिविशिष्टानुमित्यादिसाधारणर- जतभेदनिर्णयाभावे कार्यतावच्छेदक प्रवृत्तिसाधारण्याय ज्ञानत्वाप्रवेशेऽपि तस्य निर्धर्मितावच्छेद ककप्रवृत्ति- साधारण्याभावेन तादशप्रवृत्ति प्रति विशिष्टज्ञानत्वेन हेतुत्वांशकल्पनस्य प्रामाकरमतेऽप्यावश्यकतया तदपेक्ष- या प्रवृत्तिव्यावृत्तसधर्मितावच्छेदककरजतत्वविशिष्टयुद्धित्वावच्छिनं प्रति रजतभेदनिर्णयाभावत्वेन हेतुत्वं स्वी- कृत्य लाघवात्प्रवृत्तिसामान्ये विशिष्टज्ञानत्वेन हेतुत्वाजीकर्तृनैयायिकमते गौरवस्यानवकाशः । तथाच तादृशका- र्यकारणभावग्रहात्मकानुकूलतर्कसहकृतानुमानात् विसंवादिप्रवृत्तिहेतुतयान्यथाख्यातिसिद्धौ तदर्थं ज्ञानलक्षणा- याः प्रत्यासत्तित्वस्वीकारोऽप्यावश्यक एव तस्मादुक्तरीत्या किश्चेत्यादिग्रन्थावतरणमयुक्तमिति एतावता ला- घवात्प्रवृत्तिसामान्ये विशिष्टज्ञानस्य हेतुत्वमङ्गीकृत्य तदनुरोधेन विसंवादिप्रवृत्तिहेतुतया अन्यथाख्याति प्रसा- ध्य इदानी प्रवृत्तिमामान्ये निरुक्तभेदाग्रहहेतुत्वं अनिष्ट प्रदर्शनपूर्वकं निराकृत्यान्यथानुपपत्त्या तत्र विशिष्ट ज्ञानहेतुत्वं वाच्यं तदनुरोधेनान्यथाख्यातिस्वीकारोऽप्यावश्यक इत्याहुः ॥ अपिचेति ॥ यत्रेति ॥ यदे- त्यर्थः ॥ रङ्गरजतयोरिति ॥ तव्यक्तित्वेन रङ्गरजतोभयविशेष्यमित्यर्थः ॥ इमे रजतरङ्गे इति ज्ञा- नमिति ॥ रङ्गाशे रजतत्त्वप्रकारकै रजतांशे रङ्गत्व प्रकारकं इदं रजतं इदं रङ्गमिति ज्ञानं जातमित्यर्थः तदा तव भे- दामहविशिष्टज्ञानद्वयस्थैव उत्पत्तरिति शेषः ॥ तत्रेति ॥ तादृशकालोत्तरकालमित्यर्थः ॥ उभयत्रेति ॥ र. व्यको रजतव्यक्तौ चेत्यर्थः ॥ युगपदिति । एकक्षण इत्यर्थः ॥ प्रवृत्तिनिवृत्ती स्यातामिति ॥ए- कैकप्रवृत्तिनिवृत्युभयोत्पत्त्यापत्तेरित्यर्थः । ननु प्रवृत्ताविष्टभेदग्रहस्य निवृत्तौ इष्टभेदग्रहस्य च हेतुतया एकैकत्र एकदा तदुभयकारणासत्त्वान्नाकापत्तिरित्याशङ्का सदुभय सत्त्वप्रदर्शनेन परिहरति ॥ रङ्गे रङ्गभे- ग्रह इत्यादिना ॥ रङ्गे रङ्गभेदनह् इति रङ्गविशेष्यकरङ्गभेदनकारकज्ञानस्वीकार इत्यर्थः ॥ रजते रज- तभेदग्रहे चेति ॥ रजतविशेष्यकरजतभेदप्रकारकज्ञानस्वीकारे चेत्यर्थः ॥ अन्यथाख्यातिभियेति ॥ भन्यथाख्यातिस्वीकारापत्त्येत्यर्थः ॥ त्वन्मत इति ॥ प्राभाकरमत इत्यर्थः॥ रङ्गे रङ्गभेदाग्रहस्येति ॥ सत्त्वादित्यनेनान्वयः रङ्गभेदप्रकारकग्रहनिष्ठविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकामावस्य रङ्गवृत्तित्वेनाव- श्यं स्वीकार्यत्वादित्यर्थः ॥ रजते रजतभेदाग्रहस्य चेति ॥ रजतभेदप्रकारकाहनिष्ठविशेष्यतासंबन्धा वच्छिन्नप्रतियोगिताकाभावस्य रजतवृत्तित्वेनावश्यं स्वीकार्यत्वाचेत्यर्थः । एतावता रङ्गविषयकनिवृत्तिसामग्री दिनकरीयम् अन्यथाख्यातिभयादित्यनन्तरं रङ्गे रङ्गभेदाग्रहस्य रजते रजतभेदाग्रहस्येति पूरितस्य सत्त्वादित्य नेनान्वयः । अनेन रङ्गेऽनि प्रभेदामहरूपा निवृत्तिसामग्री रजते इष्टभेदामहरूपा प्रवृत्ति सामग्री च प्रदर्शिता रङ्गे रजतभे- दाग्रहस्येत्यादिना च रङ्गे इष्टभेदाग्रहरूमा प्रवृत्तिसामग्री रजतेऽनिष्टभेदारहरूपा निवृत्तिसामग्री च प्रदर्शि- ता ॥ दोषादेवेति ॥ त्वन्मते न्यायाभिमतभ्रमस्थलाभिषिक्तभेदाग्रहूं प्रति दोषस्य हेतुत्वादिति भावः । 96