पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६० कारिकावली [ गुणखण्डः क्षतिः फलमुखगौरवस्यादोषत्वात् । किंच यब रङ्गरजतयोरिमे रजते रङ्गे वेति ज्ञानं जातं तत्र न कारणबाधोऽपि । अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तत्रोभयत्र प्रभा. णभावग्रहानुपपत्तिप्रसक्तिरित्यर्थः ।। फलमुखगौरवस्येति ॥ फलं निरुक्तकार्यकारणभावग्रहः तन्मुखं तत्प्रयोज्यं यत् गौरवं गौरवज्ञानं तम्येत्यर्थः । अदोषत्वादिति ॥ निरुक्तकार्यकारणभावमहाविघठकत्वा- दित्यर्थः तथाचोक्तानुमानात् कार्यकारणभावानुमितेः पूर्व ज्ञानलक्षणायाः प्रत्यासत्तित्वस्वीकाराप्रसक्त्या गौ- रवज्ञानाभावात् अनुमित्युत्पत्तौ विसंवादिप्रवृत्तौ सिद्ध कारणताकविशिष्टज्ञानान्यथानुपपत्त्या ज्ञानलक्षणाया: प्र- त्यासत्तित्वकल्पनाप्रयुक्तगौरवज्ञानस्य कार्यकारणभावग्रहोपजीवकत्वेन तादृशप्रप्रतिबन्धकत्वासंभवात् तदु. जीवकत्वस्य तदुत्तरकालीनोत्पत्याश्रयत्वनियमादिति भावः । नन्वेतादृशगौरवज्ञानस्य कार्यकारणभावग्रहो. तरकालीनतया तदप्रतिबन्धकन्वेऽपि उत्पन्नतादशज्ञाने अप्रामाण्य ज्ञानसम्पादकत्वमव्याहतमिति तेन तत्रा प्रामाण्यप्रमोत्पत्ती प्रमाया एवं वस्तुसाधकत्वात् उक्तानुमितेर प्रमात्वेन विशिष्टज्ञानस्य विसंदादिप्रवृ- त्तिनिरूपितकारणत्वेन प्रमितत्वाभावात् अन्यथारख्यातेनीवश्यकतेत्याशङ्का स्थलविशेषे अन्यधा- ख्यातेरावश्यकत्व प्रदर्शनेन परिहरति ।। किचेति ॥ रङ्गरजतयोरिमे रजते इति ज्ञानमिति ॥ रङ्ग- रजताभ्यां चक्षुम्संयोगोत्तर कालीनं रजतस्वप्रकार के इदन्वेन रङ्गविशध्यकं रजताविशेष्यकं च यदिदं रजत मिदरजतमिति ज्ञानं जातमित्यर्थः । तत्रेति ॥ तादृशसूमूहालम्ब नात्मकप्रत्यक्ष इत्यर्थः ।। न कारणबा- घोऽपीति ॥ चक्षुस्संयुक्तसमवायरूप लौकिकसन्त्रिकर्षासंभवोऽपि नेत्यर्थः अपिना ज्ञानलक्षणात्म कालौकिक- सन्त्रिकर्षासंभवः समुचीयते । तथाचोक्तानुमानेन विशिष्टज्ञानस्य विसंवादिप्रवृत्तिप्रयोजकत्वानुमिती लौकिकस- निकर्पविरहस्थले सिद्धकारणताकविशिष्टज्ञानान्यथानुपपत्त्या ज्ञानलक्षणायाः प्रत्यासत्तित्वकल्पनाप्रयुक्तगौरव ज्ञानेनोत्पन्नानुमितावप्रामाण्यज्ञानोपत्तावपि लौकिकसन्निकर्षसंभवस्थले ताशकल्पनाया अप्रसक्तत्वेन गौरव ज्ञानाभावादुत्पन्नानुमितौ अप्रामाण्य ज्ञानानुत्पत्त्या विसंवादिप्रवृत्तिहेतुतया क्वचिदन्यथान्यात्य भ्युपगमस्याव- श्यकत्वात्तावतैव वादिनिवृत्तिरिति भाव इति केचित् । वस्तुतस्तु विसंवादिप्रात्तसाधारणप्रवृत्तित्वावच्छिन्नं प्र. त्येव भेदापद: कारणमिति न कार्यकारणभावकलपनागौरवं नच विशिष्टज्ञानत्वापेक्षया इष्टभेदप्रहाभाच. स्वस्य कारणतावच्छेदकस्बे गौरवामिति नाटयं रजतत्वविशिष्टानुमित्यादौ रजतभेदामहत्वेन कारणत्वे त. व प्रवृत्तिसाधारणरजतत्वविशिष्टविषयकत्वस्यैव कार्यतावच्छेदकत्व कल्पनेनैव निर्वाहात् । न्यायमते तु प्रवृत्ति त्वावच्छिन्नं प्रति विशिष्टज्ञानत्वेन हेतुत्वान्तरकल्पने गौरवमिति तदनुरोधन कल्पनीयभ्रमात्मकरजतज्ञानार्थ दिनकरीयम् . षणमुद्धरति ॥ इत्थं चेति ॥ प्रवृत्तिमात्रे विशिष्टयुद्धेहेतुत्वसिद्धौ चेत्यर्थः ॥ फलमुखेति ॥ कार्यकारण- भावग्रहात्मकफलात् पूर्व गौरवस्यानिर्णयात् गौरवसन्देहस्य चाप्रतिबन्धकत्वादिति भावः । नन्वस्तु संवा- दिविसंवादिप्रवृत्तिसाधारणप्रवृत्तित्वावच्छिन्नं प्रत्येव भेदामहः कारणमिति न कार्यकारणभावद्वयकल्पनागौर- वम्। नच विशिष्टज्ञानत्वापेक्षयेष्टभेदनहाभावत्वस्य कारणताचच्छदकत्वं गौरवमिति वाच्यं रजतत्वविशिष्टानु- मित्यादौ रजतभेदाग्रहत्वेन कारणत्वे तत्रैव प्रवृत्तिसाधारणरजतत्वविशिष्टविषयकत्वस्यैव कार्यतावच्छेदक त्वकल्पनेनैव निर्वाहात् न्यायन ये तु प्रवृत्तित्वावच्छिन्नं प्रति विशिष्टज्ञानहेतुत्वेन हेतुत्वान्तरकल्पने गौरवमि- ति न तदनुरोधेन कल्पनीयभ्रमात्मकरजतज्ञानार्थं ज्ञानलक्षणाप्रत्यासत्यादर इति कारणबाधाद्वाधितमेव मि- ध्याज्ञानमित्याशङ्को मनसि निधाय स्थलविशेषे कारणबाधाभावादनिवार्यमेव मिथ्याज्ञानमित्याह ।। किंचे. त्यादिना ॥ यत्र रजते रजतभेदग्रहो न वा रङ्गे रजतभेदग्रहस्तत्र सति युगपदिन्द्रिय सन्निकर्वे रजतरङ्गयोरिमे रजते इति ज्ञाने न किमपि बाधकं रजतत्वेन सम संयुक्तममवायस्य सत्त्वात् ता- दृशं च ज्ञानं रांश प्रमात्मक विशेषणवद्विशेष्यसन्निकर्षरूपप्रमासामप्रधभावात् । किंत्वन्यथा. ख्यातिरेवेति भावः । ननु तत्तद्विशेध्ये तत्तद्विशिष्टबुद्धिं प्रति तत्तद्विशेषणे तत्तद्विशेष्यवटितसन्निकर्षों हेतुरम्य - भातिप्रसङ्गात् तथा च कथं रजतघटितसंयुक्तसमवायेन रहे रजतत्वाह इत्यत आह ॥ अपि चेति ॥ न