पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७५३ नुमेयम् । तथा हि इदं ज्ञानं प्रमा संवादिप्रवृत्तिजनकत्वात् यनैवं तन्नैवं यथाप्रमा इदं पृ- थिवीत्वप्रकारकं ज्ञानं प्रमा गन्धवति पृथिवीत्वप्रकारकज्ञानत्वात् एवमिदं जलत्वप्रकारक साने प्रमा स्नेहवति जलत्वप्रकारकशानत्वात् । नच हेतुज्ञानं कथं जातमिति वाच्यं पृथिवी- त्वप्रकारकत्वस्य स्वतोग्राह्यत्वात् । तत्र गन्धग्रहेण गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात् तत्प्र- प्रभा. तरविशिष्टविशेष्यत्वघटितप्रमात्वभ्रमत्वान्यतरविषयकत्वासंभवात् प्रत्युत्तरन्तु जलादिविषयलाभे दूरत्वा- दिदोषाभावात् गीतस्पर्शादिरूपविशेषदर्शनाच निरुक्तप्रकारतानिरूपिततत्तद्यक्तित्वावच्छिन्नविशेष्यतायां जलत्ववत्तित्वनिश्चयसंभवेन तादृशवृत्तित्वविशिष्टविशेष्यत्वघटितप्रमात्वविषयकत्वस्य जलमे जलत्वेन जा. नामीत्याकारकानुव्यवसायस्योत्पत्तिसंभवादीदृशानुव्यवसायस्यैव तादृशप्रमात्वविषयकत्वं प्रवृत्त्युत्तर जलादि. विषयालामे तु दूरस्वादिदोषात् मरुमरीचिकात्वतेजस्वादिरूपजलत्वविरुद्धधर्मदर्शनाच प्रथमानुव्यवसाय. विषय जलत्वप्रकारतानिकापततब्यक्तित्वावच्छिन्नविशेष्यतायां जलवाभाववद्वृत्तित्वनिश्चयसंभवेन तादृशवृत्ति- स्वविशिष्टविशेष्यस्वघटितभ्रमत्त्वविषयकस्य जलत्वेन जलाभिन्नमेव जानामीत्याकारकानुव्यवसायस्योत्पत्तिसं. भवात् ईदृशद्वितीयानुव्यवसायस्यैव निरुक्तभ्रमत्त्वविषयकत्वं तस्मात्प्रथमानुव्यवसायस्य सर्वमतेऽपि नि- रुक्तप्रमावभ्रमत्वविषयकत्वं सर्वथैव न संभवतीत्येव तत्त्वमिति प्रतिभाति ॥ तस्मादिति ॥ संशयानुप. पपत्त्यादिदोषेण ज्ञानप्रमाणस्य मतत्रयसिद्धस्वतस्त्वासंभवादित्यर्थः ॥ ज्ञाने प्रामाण्यमिति ॥ ज्ञाननिष्ठोद्दे. श्यतानिरूपितानुमिातनिरूपितविधेयतावत्प्रमात्वमित्यर्थः अनुमानप्रकारमाह ॥ तथा हीति ॥ इदं ज्ञान- मिति ॥ घटादिज्ञानमित्यर्थः । घटादिज्ञानस्य तद्यक्तित्वेन पक्षत्वलाभायेदम्पद्घटितपक्षनिर्देशः ॥ प्रमे- ति ॥ घटत्वादिनिष्ठप्रकारतानिरूपितसमवाग्रनिष्टसांसर्गिकविषयतानिरूपितघटनिष्ठविशेष्यताकत्वमित्यर्थः॥ संवादीति ॥ समर्थेत्यर्थः तद्वति तत्प्रकार केति यावत् ॥ जनकत्वादिति ॥ प्रयोजकत्वादित्यर्थः । अत्र प्रमात्वेन नितिघटादिज्ञानान्तरं दृष्टान्तो बोध्यः । ननु प्रामाण्यस्य स्वतोग्राह्यत्वानङ्गीकारे लौकिकसनिक. पवशात् गन्धवती पृथिवी त्या कारकगन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिर्णयानन्तरकालीन-गन्धवतिपृथिवीत्वं जानामीत्य नुव्यसायोत्तरमपि निरुक्त व्यवसाये कथं न पृथिवीत्वप्नमात्वसंशयः कारणीभूतकोटिद्वयोपस्थिति- सत्वात् तव मते पृथिवीत्वप्रमावस्यानुव्यवसायाविषयत्वात् पुरोवृत्तिपदार्थे इष्टसाधनताज्ञानाधीनप्रवृत्यु- त्पत्तेः पूर्व प्रवृत्तौ विषयलाभाधीनसंवादित्वनिर्णयाभावात् पक्षे तादृशप्रवृत्तिजनकत्वहेतोरनिर्णीतत्वेनानुभा- नग्राह्यत्वाभावाचेति मिश्राणामाक्षेपं परिहरति ॥ इदं पृथिवीत्वप्रकारकं ज्ञानमिति ॥ तादृशज्ञानस्य तत्तयक्तित्त्वेन पक्षवलाभायेदम्पदघटितपक्षनिर्देशः एवमुत्तरत्रापि ॥ गन्धवतीति ॥ गन्धवन्निष्टज्ञानीयवि. शेष्यत्तानिरूपितपृथिवीत्वनिष्ठप्रकारतानिरूपकत्वात स्वाश्रयनिरूपितगन्धवन्निष्ठविशेष्यतानिरूपितपृथिवीत्वनि- छप्रकारतानिरूपकत्वसंवन्धेन ज्ञानत्ववत्वादिति वार्थः ॥ अतो न विशेषणविशेष्यभावे विनिगमनाविरहन. युक्तो गौरवावकाशः न वा हेतुतावच्छेद कसंबन्धाप्रसिद्धिः एवमेवानिमहेतुवाक्यस्याप्यों बोध्यः ॥ तेन तत्रापि न तादृशदोषः अत्र पृथिवीत्वप्रमात्वेन नितिज्ञानान्तरं दृष्टान्तो बोध्यः अनयैव दिशा तद्धर्मव्याप्यधर्मा- वच्छिन्नविशेष्यताकतत्प्रकारकज्ञानमाले प्रामाण्यमनुमेयमित्याह ॥ एवमिति ॥ जलत्वप्रकारकज्ञान- स्वादिति ॥ इत्याद्यनुमानात प्रवृत्तिपूर्वमेव प्रमात्वसिद्धिरिति शेषः ॥ हेतुज्ञानमिति ॥ पक्षे हेतुनिर्णय इत्यर्थः ॥ स्वतोग्राह्यत्वादिति ॥ व्यवसायस्य पृथिवीत्वप्रकारकत्वेन व्यवसायस्येव तनिष्ठपृथिवीत्व- प्रकारकत्वस्याप्यनुव्यवसायविषयत्वादित्यर्थः । तत्रेति ॥ पुरोवृत्तावित्यर्थः । गन्धग्रहणेति ॥ गन्धप्रत्यक्षा- स्मकोपनायकज्ञानेनेत्यर्थः ॥ गन्धवद्विशेष्यकत्वस्यापीति॥अपिना पृथिवीत्वप्रकारकत्वसमुञ्चयः॥सुग्न दिनकरीयम् . तीति ॥ व्याप्यवति व्यापकप्रकारकत्वस्य व्यापकत्रति व्यापकप्रकारकत्वव्याप्यत्वादिति भावः । ननु कथं तर्हि प्रामाण्यस्यानुमेयता गन्धपति पृथिवीत्वप्रकारकत्वस्येव पृथिवीत्ववति पृथिवीत्वप्रकारकत्वादेरपि प्र- 95