पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः 1 कारकत्वावच्छिन्नतद्विशेष्यकत्वं परं न गृह्यते संशयानुरोधात् । ननु सर्वेषां ज्ञानानां यथार्थत्वात् प्रभा. हत्वादिति ॥अनुव्यवसायविषयत्वादित्यर्थः। तथाच पक्षे हेतुनिर्णयान्न प्रमात्वानुमित्खनुपपत्तिरिति भावः । न- नु गन्धवति पृथिवीत्वप्रकारकत्वस्येव तुल्ययुक्त्या पृथिवीत्ववति पृथिवीत्वप्रकारकत्वस्याप्य नुव्यवसायविषय- त्वानुमित्यसंभवात् प्रमात्वस्य कुतोऽनुमेयतेत्यत आह ॥ तत्प्रकारकत्वावच्छिन्नेति ॥ तत्प्रकारकत्वाव- च्छिन्नत्वविशिष्टतद्विशेष्यकत्वरूपप्रमात्वमित्यर्थः ॥ परंन गृहान इति ॥ प्रथमानुव्यवसायवेद्यं न भवेदित्य- पः। तद्वद्विशेष्यकत्वनिष्ठतत्प्रकारकत्वावच्छिन्नत्वेन सह मनःसनिक भावादिति भावः । ननु लाघवाद्वस्तुती अ. वच्छेद्यावच्छेदकभावापन्नतद्वद्विशेष्यकत्वतत्प्रकारकत्वोभयमेव प्रमात्वमस्तु किं निरुक्तप्रमात्वेनेत्यत आह ॥ सं शयानुरोधादिति ॥ प्रथमानुव्यवसायोत्तरं सर्वमतसिद्धसंशयानुपपत्तरित्यर्थः तथाच संशयान्यथानुपपत्त्या निरुक्तावच्छिन्नत्वविशिष्टतद्विशेष्यकत्वमेव प्रमात्वं वाच्यम् तचोक्तरीत्या न प्रथमानुव्यवसाय वेद्यामिति तद्रहा- र्थमनुमानमावश्यकमिति भावः । इदमुपलक्षणं घटत्वादिनिष्ठप्रकारतानिरूपितसमवायनिष्ठसांसर्गिकविषय- तानिरूपितघटादिनिष्ठविशेष्यताकत्वरूपप्रसात्वस्य समवायघटितत्वेन न प्राधमिकानुव्यवसायवेद्यत्वं अयं घट इति व्यवसायस्य सस वायनिष्ट सांसर्गिक विषयताकत्वेन समवायभाने उपनायकत्वासंभवात् ज्ञानान्तराभा- वाचेत्यपि बोध्यम् । एवंच प्रमात्वस्य स्वतोग्राह्यत्वाभावेऽपि उकालिङ्गेन प्रमात्वानुमितिसंभवात् मिश्राणा- माक्षेपो युक्त इति इदं पृथिवीत्वप्रकारकज्ञानमित्यारभ्य संशयानुरोधादित्यन्तप्रन्धतात्पर्याथः । ननु लाघवा- दशीकृतस्य वस्तुतोऽवच्छेद्यावच्छेदकभावापन्नतद्वादशेष्य कत्वतत्प्रकारकत्वोभयरूपनामाण्यस्य स्वतोप्रा. ह्यत्वेऽपि कथं संशयानुपरत्तिः प्रथमानुव्यवसायस्य धर्मितावच्छेदकसामानाधिकरण्येन प्रामाण्यावगाहित्व- स्वीकारेण तस्य धर्मितावच्छेदकावच्छेदेन प्रामाण्यावगाहि तत्सामानाधिकरण्येन प्रामाण्याभावावगाहिसंशय. विरोधित्वाभावादिति चेन्न। प्रथमानुव्यवसायसामान्यस्य सामानाधिकरण्येन प्रामाण्यावगाहित्वे तदुत्तरं जा यमानसंशयसामान्यस्य सामानाधिकरण्येन च प्रामाण्याभावावगाहिले च प्रमाणाभावात् यादृशप्रथमानुव्यव- सायोऽवच्छेदकावच्छेदेन वस्तुतो अवच्छेयावच्छेदकभावापन्नतद्वद्विशेष्यकत्वतत्प्रकारकत्वावगाही तदुत्तरम. नुभूयमानप्रमावसंशयानुपपत्त्या तादृशप्रथमानुव्यवसायस्य यादृश प्रथमानुव्यवसायोत्तरमवच्छेदकावच्छेदेन प्रामाण्याभावावगाहिसंशयः प्रामाणिकः तादृशानुव्यवसायस्य च प्रामाण्यानव गाहित्वोपपादनाय तत्प्रकारकत्वा- वच्छिन्नत्वविशिष्टतद्वद्विशेष्यकत्वस्यैव प्रमात्वरूपत्वावश्यकतया तस्य प्रथमानुव्यवसायविषयत्वासंभवात् स्व. तोग्राह्यत्वस्य सुदूरपराहतत्वात् नतूक्तयुक्त्या प्रामाण्यस्यावच्छिन्नत्वाविशेषिततद्विशेध्यकत्वरूपत्वखीकारे त. दूहस्यानुपयुक्तत्वात् तदनुमानत्रै फल्यम् । तथाहि जलज्ञानानन्तरं तत्र प्रामाण्यसंशये सति तदधीनइदंजलं नवेति विषयसंशयोत्पत्त्या जलार्थिनः निष्कम्पप्रवृत्तिन संभवतीति तत्र विषय संशायकप्रामाण्य संशयनिरास. द्वारा प्रामाण्यनिश्चयस्योपयोगो वाच्यः तनिश्च यस्यानुमितिरूपत्व तत्पूर्व तत्कारणीभूतनिरुक्तप्रमात्वव्याप्यं ने- हवाद्विशेष्यकत्वावशिष्टजलत्वप्रकारकत्वमिति व्याप्तिघटकव्यभिचारशक्कानिरासार्थमनुपेक्षणीयस्य तद्वद्विशेष्यक- दिनकरीयम्, त्यक्षसम्भवादत आह ॥ तत्प्रकारकत्वेति ॥ संशयानुरोधादिति ॥ यद्यपि ज्ञाने प्रामाण्यानिश्चयो धर्मितावच्छेदकसामानाधिकरण्येन जायते सन्देहस्तु धर्मितावच्छेदकसामानाधिकरण्येन प्रामाण्याभावावगा- ही धर्मितावच्छेदकावच्छेदेन प्रामाण्यावमाहीति कथं संशयानुपपत्तिः । तथापि प्रवृत्त्युपयुक्तस्य धर्मिताव- च्छेदकावच्छेदेन प्रामाण्यग्रहस्य स्वतस्त्वे संशयानुपपत्तिर्दूषणामति ध्येयम् । नच प्रामाण्यग्राहकसामग्रीस- त्विात् कथमनिमसंशयानुरोधेन प्रामाण्याग्रह इति वाच्यं तनानिमसंशयानुरोधेन संशय जनकदोषस्य प्रामाण्य - निश्चयप्रतिबन्धकत्वकल्पनादित्याशयात् । ननु यदि प्रामाण्यमनुमेयं तदा प्रामाण्य ग्रहवैयर्थ्य तथा हि अ. यं पुरुष इति निश्चये प्रामाण्यसन्देहेनार्थसन्देहस्यायं पुरुषो न वेत्याकारकस्योत्पत्त्या पुरुषार्थिनः प्रवृत्तिर्न सम्भवति तत्र प्रामाण्यानिश्चये च न तत्संशयाधीनोऽर्थसन्देह इति प्रामाण्यग्रहस्य प्रवृत्तावुपयोगः प्रामा- ण्यग्रहस्यानुमित्यात्मकत्वे च प्रामाण्यानुमापककरादिमति पुरुषत्वप्रकारकत्वादिरूपहेतुग्रहे तद्धटकतया पु.