पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः संशयः यदि तु शानं न जातं तर्हि धर्मिज्ञानाभावात कथं संशयस्तस्मात् ज्ञाने प्रामाण्यम- प्रभा. कतादृशज्ञानोत्तरं तन्मते संशयो नानुपपन्न इत्यत आह ॥ यदि त्विति || अवधारणार्थकतुशब्दः ज्ञानमि- त्युत्तरं योज्यः यदेत्यर्थः ॥ ज्ञानं न ज्ञातमिति ॥ ज्ञानमेव न निर्णीतमित्यर्थः ॥ धर्मिज्ञानाभावा- दिति ॥ धर्मितावच्छेदकप्रकार कज्ञानाभावादित्यर्थः । कथं संशय इति ॥ तथाच निर्मितावच्छे- दककसंशयानासद्धया संशये धर्मितावच्छेदकप्रकारकनिर्णयहेतुतायाः आवश्यकत्वेन प्रकृते तदभावात् तदप्रा- माव्यसंशयानुपपत्तिरिति भावः । इदमुपलक्षणं नष्टघटादौ लौकिकविषयतासंबन्धेन प्रत्यक्षवारणाय लौकि कविषयतासंवन्धेन प्रत्यक्ष प्रति तादात्म्य संबन्धेन विषयत्वेन घटात्मकसंयोगादेः परकीयज्ञानादेच प्रत्यक्ष- वारणाय तत्पुरुषसमवेत वृत्तिलौकिकविषय तासंबन्धेन मानसं प्रति विषयम्य तादात्म्यसंबन्धेन तत्पुरुषमात्र- समवेतत्वेनात्मसमवेत वृत्तिलाकविषयतासंबन्धेन मानम प्रति मनत्संयुफै समायस्य सन्निकर्षविधया च हेतुताया आवझ्य कतया बटादिप्रत्यक्षोत्पत्तेः पूर्व कारणीभूत घटादिरूपविषयस्य तनिष्टनिरुक्तसन्निकर्षस्य चा भावात घटादिप्रत्यक्षोत्पत्तिकाले घटादिज्ञाननिष्ठलौकिकविषय ताशालिप्रत्यक्षासंभवेन तस्य तादृश ज्ञाननिष्टप्रा. मायावसाहित्याप्रसक्त्या गुरुमतसिद्धस्वतस्त्वम्य बाधितत्वात् तन्मतमयुक्तम् । ज्ञातो घट इति प्रतीते: घटाशे ज्ञाननिरूपितविषयत्वावगाहित्वस्वीकारेणदोपपत्तेः प्रमाणान्तराभावाञ्च ज्ञातताया अप्रसिद्धत्वेन तल्लिङ्गकज्ञा. नानुमितेस्मुतराम प्रसिद्धरवेन तत्र प्रामाण्या वगाहत्वासंभवात् ज्ञानस्यातीन्द्रियत्वे घटं जानामात्याद्याकारकज्ञा. ननिष्टलौकिकविषयताशालिप्रत्यक्षापलापापत्ते: आत्मसमवेत वृत्तिलौक्किविषयतासंबन्धेन मानस प्रति तादा- त्स्यसंवन्धन ज्ञानत्वेन प्रतिबध्यप्रतिबन्धकभावान्त र कल्पनापत्तेश्च ज्ञानस्य सेन्द्रियत्वा वश्यकत्वाच्च भमतम- पि नियुक्तिकमेव । घटत्वादिनिष्टप्रकारतानिरूपितसमवायनिष्टसांसर्गिकविषयतानिरूपितघटनिष्ठविशेष्यत्ता- कज्ञानत्वं घटज्ञानप्रमात्वं तच न प्राथमिक नुव्यवसायवेयं घटघटत्वसमवायातत्रितयघटितत्वेनानुव्यवसाये घटघटत्वभासकव्यवसायात्मकोपनायकज्ञानसत्त्वेऽपि नाशव्यवसायम्य समवाय निष्टसांसर्गिकविषय ताशा- लिवन तस्य समचायांश उपनायकत्वानहीकारात् अन्यथा सामानाधिकरर संबन्धेन प्रमेयत्ववि शिष्टो घट इति ज्ञानात् निखिलप्रमेय प्रकार कालौकिकप्रत्यक्षापत्तेः सामानाधिकरण्यघटकतया निखिलप्रमेय - स्यापि संसर्गत या भानात । तस्मात्तत्सं सगकज्ञानस्य तदुपनीतभाने उपनायकत्वासंभवेन घट इत्यादिव्यवसाय- स्य समवायनिष्ठ सांसर्गिकविषयताभिन्न विषयताशालिवाभावेन च समवायभासकोपनायकज्ञानाभावात् प्रा. धमि कानुव्यवसायस्य समवायघटितप्रमात्वविषयकत्वासंभवात् मिश्रमतं हेय मिलपि बोध्यम् । कण्टकोद्धारास्तु तद्वद्विशेष्यकत्वावच्छिन्नताप्रकारकत्वमेव तत्प्रमात्वं तद्वद्विशेष्य कत्वादेर्मनस्संयुक्त समवेतविशे- पणतासनिकर्षवशात् प्राथमि कानुव्यवसायविषयत्वेऽपि तादृशविशेषणतायाः संसर्गत्वे मानाभावोऽवच्छिन्न- स्वांशे मनस्सन्निकर्याभावेन चावच्छिन्नघटितप्रमात्वस्य न प्राथमिकानुव्यवसाये विषयत्वं किन्तु प्राथमिका. नुव्यवसायानन्तरं प्रवृत्तौ सत्यां विषयलाभे व्यवसायात्मकज्ञाने समर्थप्रवृत्तिजनकत्वलिङ्गेन प्रमात्वानुमित्युत्तरं अनुमित्यात्मकज्ञानलक्षणासन्निकर्षवशात् तादृशप्रमात्वस्य द्वितीयानुव्यवसायविषयत्वमेवात एवं प्राथमिका- नुव्यवसायोत्तरं इदं ज्ञानं प्रमा न वेति संशयोपपत्तिः तस्मान्मिश्रमते प्रमात्वस्य स्वतस्त्वमप्रामाणिकमेवे. त्याहुः । वस्तुतस्तु चक्षुस्सन्निकर्षवशात् इदं जलमिति व्यवसायोत्तरं इदं जलं जानामि इदं जलत्वेन जाना. मीत्याद्याकारक एव प्रथमानुव्यवसायः नतु केवलं जलं जानामीत्याकारकः पूर्वमिदन्त्वोपस्थितिरूपोपनाय कज्ञानसत्त्वात् प्रमात्वं तद्वनिष्ठत्वविशेषितविशेष्यताघटितं भ्रमत्वं च तदभाववन्निष्टत्वाविशेषितावशेष्यताघ-- टितमेव । एवंच निरुक्तप्रथमानुव्यवसायस्य समवाय संबन्धावच्छिन्नजलत्वादिनिष्ठप्रकारतानिरूपितवास्तव- जलत्वाश्रयनिष्ठविशेष्यताकत्वविषयकत्वेऽपि इदं जलमिति व्यवसायस्य इदन्त्वेन रूपेण मझमरीचिकारूपव- स्तुविशेष्यकाचे तादृशप्रथमानुव्यवसायस्य तादृशजलत्वनिष्टत्रकारतानिरूपितवास्तव जलवाभाववनिष्ठविशे- ध्यताकत्वविषयकत्वेऽपि प्रत्युत्तरकालीनविषयलाभालाभात्पूर्व विशेषदर्शनाभावान्निरकप्रकारता- निरूपिततत्तद्वयकित्वावच्छिन्नविशेष्यतायां जलत्ववन्निष्टत्वजलवाभाववानिहत्वान्यतरनिश्वयाभावेन तादृशान्य- च