पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०४ कारिकावली आयो देहेष्वात्मबुद्धिः शङ्खादी पीततामतिः । भवेनिश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥ १२८ ।। किंस्विन्नरो वा स्थाणुर्वेत्यादिबुद्धिस्तु संशयः । तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥ १२५ ।। आद्य इति ॥ विपर्यास इत्यर्थः । शरीरादौ निश्चयरूपं यदात्मत्वप्रकारकं ज्ञानं गौरोऽहमित्याकारकम । एवं शहादा पीतः शङ्ख इत्याकारकं यत् ज्ञानं निश्चयरूपं तद्भम इति ।। किंस्विदिति ।। किंस्विदिति वितर्के निश्चयस्य लक्षणमाह ! तदभावेति ॥ तदभावा- प्रकारकं तत्प्रकारकं ज्ञानं निश्चयः ।। १२८ ।। १२९ ।। प्रभा. वाच्यम् । तत्संबन्धावच्छिन्नवशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्नतनिष्ठप्रतियोगिताकामावनिष्पतत्संबन्धाघ- दिततत्संबन्धावच्छिन्नविषयतानिरूपित तत्संबन्धातिरिक्तसंबन्धानवच्छिन्न तनिष्टविषयत्ताशालिज्ञानत्वस्यैव त- संबन्धन भ्रमत्वरूपत्वस्वीकारेण समवायसंबन्धावच्छिन्नाधेयत्वसंबन्धावच्छिन्नेदनत्वावच्छिन्नशुक्तिनि- प्रकारतानिरूपितरजतत्वनिष्धविशेष्यताशालिभ्रमस्य समवायन रजतत्वप्रकारकशुक्तिविशेष्यकभ्रमस्य वा तादृशविषयताशालिज्ञानस्वरूपभ्रमत्वस्याक्षतत्वानोकानुपपात्तप्रसाक्तिः। यद्यत्र रजतत्वामति ज्ञानस्य रजत स्वांशे तादृशाधेयतासंबन्धेन शुक्तिभ्रमत्वमेव स्वीक्रियते नतु समवायेन रजतत्वभ्रमत्वमित्युच्यते तदा- निरूकानुपपत्तः सुतरामप्रसक्त्यैताशपरिष्कारे प्रयोजनविरहात् तत्संबन्धावच्छिन्न तनिष्ठप्रतियोगिताका- भाववनिष्ट विषयतानिरूपिततत्संबन्धावच्छिन्नतानिष्टविषयताशालिज्ञानत्वं तत्संबन्धेन तद्धमत्वमिति यथाश्रुत- मेव सम्यगिति मूलाशयः । उक्ताशय मेव प्रकाश यति ॥ मुक्तावळ्यां तदभाववतीति ॥ तत्संबन्धाव - च्छिन्नतनिष्ठतादृशप्रतियोगिताकाभाववतीत्यर्थः । तत्प्रकारकमिति ॥ तत्संबन्धावच्छिन्न तनिष्ठविषयता - निरूपकमित्यर्थः । तथाच तत्संबन्धावच्छिन्न तन्निष्टतादृशप्रतियोगिताकाभाववन्निष्ट ज्ञानीयविषयतानिरूपि ततत्संबन्धावच्छिन्नतनिष्ठविषयतानिरूपितवियित्व संबन्धेन तद्धर्मविशिष्टत्वं तेन संबन्धेन तद्भमत्व- मिति फलितम् । तत्र रजतत्वप्रनायां अतिव्याप्तिवारणाय तत्संबन्धावच्छिन्नविषयतायां ताशनिरू. पितत्वनिवेशः । तादशप्रमीयरजतत्वनिष्टविषयताया अपि शुक्तित्वाभावनिष्ठविषयतानिरूपितत्वादति- व्याप्तिवारणाय तत्संबन्धावच्छिन्नविषयतायाः तनिष्टत्वनिवेशः । रजतत्त्वनिष्टप्रमीयविषयताया अपि संयोगेन रजतत्वाभाववनिष्ठविषयतानिरूपितत्वात् अतिव्याप्तिवारणाय तनिष्टप्रतियोगित्वविषयत्वयो. रेकसंबन्धावच्छिन्न त्वनिवेश: । इच्छादावतिव्याप्तिवारणाय विषयतायां ज्ञानीयस्वनिवेशः । इदंच भ्रमविशेष. लक्षणं धर्मसंबन्धविशेषघटितत्वात् अतो वृक्षः कपिसंयोगीति प्रमायामेतलक्षणसत्त्वेऽपि नातिव्याप्तिः वक्ष्य माणस्य परिष्कृतकपिसंयोगभ्रमलक्षणस्य तन्त्रावर्तमानत्वात् अत्र भगवज्ञानानिरूपितज्ञानसामान्यानिरूपित. विषयतानिरूपितविषयित्वं भ्रमसामान्यलक्षणमिति बोध्यम् । अप्रमा विभजते ॥ मूले तत्प्रपञ्चो वि- पर्यासस्संशयोऽथ प्रदर्श्यत इति ॥ अनाथशब्दस्तत्प्रपञ्च इति पूर्व योज्यः । तादृशायशब्दस्या- प्रमाया: लक्षणप्रदर्शनानन्तरमित्यर्थः । तत्प्रपञ्च इति ॥ तस्या अप्रमाया प्रपञ्चो विभाजकधर्म इत्यर्थः । तथाचाप्रमा लक्षवित्वा विपर्ययत्वसंशयत्वाभ्यां विभज्यत इत्यर्थः फलितः । अप्रमा विभज्य स्वरूपमा- ६ ॥ आद्य इति ।। विपर्यय इत्यर्थः ॥ देहेचान्मबुद्धिरिति । देहात्मनोरभेदावगाही देहे आत्मत्व. प्रकारकः आत्मनि देहत्त्वप्रकारकः देहोऽहमहं देह इत्याकारकः आत्मत्वविशेष्यकसमवायसंबन्धावच्छिन्ना. धेयत्वसंसर्गकशरीरप्रकारकः चेष्टावत्वरूपशरीरत्वविशेष्यकस्समवायसंबन्धावच्छिन्नाधेयत्वसंबन्धेन आत्म- प्रकारकः देहे आत्मत्वमात्मनि देहत्व मित्याकारको वा निश्चय इत्यर्थः । मूढमात्रप्रसिद्धविपर्ययस्वरूपमुक्तवा पण्डितेष्वपि प्रसिद्धविपर्ययस्वरूप माह ॥ शहादाविति ॥ आदिना बराटिकादेः परिग्रहः ॥ पीतता.