पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता तत्र अप्रमां निरूपयति ॥ तच्छ्रन्य इति ।। तदभाववति तत्प्रकारकं ज्ञानं भ्रम इत्यर्थः ।। तत्पपञ्चः अप्रमाप्रपञ्चः ॥ १२५॥ १२६ ।। १२७ ।। प्रभा. णानन्तरं बुद्धिनिरूपणमावश्यकमिति भावः । ननु ग्रन्थान्तरे गुणविभागक्रमानुसारणात्रापि गुणविभागः कुतो न कृत इति चेन्न तादृशविभागक्रमस्य गुणविभागसूत्रघटकपरवापरत्वबुद्धय इति सूत्रविरुद्धत्वेन तादृशवि. भागक्रममुपेक्ष्य सूत्रोक्तगुणविभागक्रमेणैवात्रापि गुणविभागः कृत इत्युक्ता शङ्कायाः अनवकाशात् ॥ मूले बुद्धेः प्रपञ्च इति ॥ बुद्धेः प्रकार इत्यर्थः ॥ प्रागेव आत्मनिरूपणावसर एव ॥ प्रायशोऽपीति ॥ अनुभवत्वादिरूपकतिपय इत्यर्थः। तस्य प्रपञ्चपदार्थेऽभेदेनान्वयः । अपिशब्दः अथेत्युत्तरं योज्यः ॥ अथे. ति ॥ कतिपय प्रकारे निरूपितेऽपीत्यर्थः ॥ अवशिष्टोऽपीति ॥ आत्मग्रन्थे अनिरूपितोऽपीत्यर्थः । अपि- शब्दः प्रकारपदोत्तरं योज्यः । अपर इति ॥ अप्रमात्वादिरूप इत्यर्थः ॥ प्रकार इति ॥ बुद्धिधर्मोऽपी- त्यर्थः ॥ परिकार्यत इति ॥ निरूप्यत इत्यर्थः । तथाचात्मनिरूपणाव सरेऽनुभवत्वस्मृतित्वाभ्यां बुद्धेर्निरूपि. तत्वेऽपि तदा वुद्धित्वव्याप्यसकलधमैरनिरूपितत्वेन न्यूनतापत्त्या तत्परिहाराय गुणविभागकारिकाया अपर- त्वोपस्थित्युत्तरकालोपस्थितित्त्वरूपप्रसङ्गसत्यावशिष्टधर्मबुद्धिनिरूप्यत इत्यर्थः । प्रतिज्ञातार्थमेवाह ॥ अग्न- माचे त्यादिना ॥ यद्यपि प्रन्थान्तरे यथार्थत्वायथार्थत्वाभ्यामेव विभागो दृष्टो नत्वयथार्थत्वयथार्थत्वा. भ्यामिति तदीसैवात्रापि विभागो युक्तः तथापि प्रमालक्षणस्य भ्रमभिन्नत्वघटितस्याने वक्तव्यतया तस्याप्रमात्व- घटित्तत्वेन तदुपस्थिति विना विशिष्टलक्षणज्ञानासंभवादुक्तरीत्या विभागेऽप्रमालक्षणस्य प्रथमतोऽजिज्ञासित- त्वेन तल्लक्षणवाक्यस्य प्रथमतो वक्तुमशक्यत्वात् प्रथमतोऽप्रमावोपस्थितिनिर्वाहायाप्रमात्वप्रमात्वाभ्यामत्र विभागकरणामिति । वस्तुतस्त्वप्रमाया लक्षणविभागोभयकरणमावश्यकं नतु प्रमाया; तस्याः लक्षणमात्र- वैव वकव्यत्वादतः प्रमानिरूपणापेक्षया अप्रमानिरूपणस्थ कष्टत्वेन कष्टमनुभुज्य सुखं भोक्तव्यमिति न्या. यादादावप्रमानिरूपणमेव कर्तव्यामतीच्छया बुद्धर्विभागोऽपि तथैव कृतः । नच प्रमानिरूपणस्यापि प्रमाव. स्य स्वतोग्राह्यत्ववादिमतनिराकरणपूर्वकपरतोग्राह्यत्वव्यवस्थापनक्षमत्वेन कष्टतरतयोक्तन्यायोऽत्रापि प्रस. ज्यत एवेति वाच्यम् । अप्रमानिरूपणस्याप्यप्रमात्वस्थ स्वतोग्राह्यत्वचादिमतनिराकरणपूर्वकपरतोपाहत्वव्य- वस्थापनक्षमत्वेन कष्टतरत्वस्यात्रापि तुल्यत्वात द्वैविध्येन विभागकरणे द्विविधाप्रमावोत्पादकसामग्रीप्रदर्शन- प्रयुक्तकष्टं परमतिरिच्यत इति प्रतिभाति । एतेन प्रमात्वस्य तद्वति तत्प्रकारकानुभवत्वरूपस्याशमात्वाघटित- स्यापि वक्ष्यमाणतया प्रथमतोऽप्रमात्वोपस्थितेरनावश्यकत्वात् तनिर्वाहाय वैपरीत्येन विभागकरणमयुक्तामिति दूषणं प्रत्युक्तम् ॥ मुक्तावळ्यामप्रमान्निरूपयतीति । अत्रमा लक्षयित्वा विभजत इत्यर्थः। तच्छून्ये तन्म- तिर्या स्यादिति मूलात्तन्निष्ठप्रतियोगिताकाभावनिष्ठविषयतानिरूपिततनिष्ठविषयताशालिज्ञानत्वं तद्भमत्वमित्य. थों लभ्यते तदयुकं घटेऽपि घटत्वस्य विशिष्टाभावोभयाभावसत्त्वात् घटविशेष्यकघटत्वप्रकारकप्रमायामति- व्याशिवारणायाप्रमावघटकप्रतियोगितायां वैशिष्टयव्यासज्यवृत्तिधर्मानवच्छिन्नत्वमपि निवेश्यम् । समवायेन घटत्वप्रमाया अपि संयोगसंवन्धावच्छिन्नघटत्वनि प्रतियोगिताकाभावबद्धटविशेष्यकत्वात्तत्रातिव्याप्तिवारणा- य तत्संबन्धावच्छिन्नतनिष्ठतादृशप्रतियोगिताकाभाववानिष्ठविषयतानिरूपिततत्संबन्धावच्छिन्नतनिष्ठविषयता- शालिज्ञानत्वं तत्संबन्धेन तद्भमत्वमिति विवक्षणीयम् । तादृशभ्रमत्वघटकविषयतयोः विशेष्यतास्वादिना निवेशे तु अत्र रजतत्वमिति भ्रमस्य इदन्त्वावच्छिन्नसमवायसंबन्धावच्छिन्नाधेयत्वसंबन्धावच्छिन्नशुक्तिनि- प्रकारतानिरूपितरजतत्वनिष्ठविशेष्यताकस्य रजतत्वभ्रमत्वानुपपत्तिः तस्य रजतत्वप्रकारकत्वाभावात् शुक्तिविशेष्यकत्वाभावाच्च । अतो विषयतात्वेनैव निवेशः कृतः । न चैवमपि तादृशभ्रमीयरजतत्वनिष्ठाव- षयतायाः विशेष्यतारूपत्वेन समवायसंबन्धावच्छिन्नत्वाभावात् तत्संबन्धेन रजतत्वभ्रमत्वानुपपत्तिर्दुबारैवेति दिनकरीयम् . हारस्योपपत्तेर्न तयोर्गुणान्तरत्वम् । अत्र च यत्काले ज्येष्ठत्वयुद्धिरुत्पद्यते तत्कालमादाय स्पन्दनन्यूनाधिक- ताबसेया अतो न कनिष्ठेऽधिकजीविनि परत्वव्यवहारापत्तिरिति वदन्ति ॥ तदभाधवतीति ॥ इदं च