पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३२ कारिकावली [गुणखण्डः अपेक्षावुद्धिनाशेन नाशस्तेषां निरूपितः । बुद्धेः प्रपञ्चः प्रागेव प्रायशोऽपि निरूपितः ।! १२५ ।। अथावशिष्टोऽप्यपरः प्रकार परिकीयंन । अप्रमा च प्रमा चति ज्ञानं द्विविधमिष्यते ॥ १२६ ॥ तच्छ्न्ये तन्मातर्या स्यादप्रमा सा निरूपिता । तत्मपञ्चो विपर्यासः संशयोऽथ प्रदश्यतेः ।। १२७ । तेषां दैशिककालिकपरत्वापरत्वानाम । निरूपयक्रमप्राप्तां बुद्धिं निरूपयति ।। बुद्धरिति ।। प्रभा. मपरत्वं चोत्पद्यते अन्यथा पाटलिपुत्रात् काश्यपेक्षया प्रयाग : पर: कुरुक्षेत्रात् काश्यपेक्षया प्रयागोऽपर इति सर्वानुभवसिद्धप्रतीत्यनुपपत्तेः एवं प्रमागे पाटलिपुतावविकमेव काशीनिरूपितं परत्वं कुरुक्षेत्रनिरूपित. मपरत्वं चोत्पद्यत इत्यङ्गीकार्य अन्यथा पाटलिपुतात् काश्यपेक्ष या प्रयाग: पर: कुरुक्षेत्रापेक्षया प्रयागोऽपर इति सर्वानुभवसिद्धप्रतीत्यापत्तेः कालिकपरत्वादी त्वचधिनिरूपकयाभदाभावादबध्याभिननिरूपक भेदनेव कालिकपरत्वादिकमुत्पद्यते यथा लक्ष्मणे शत्रुघ्नावधिक निरूपितं परत्वं रामावधिक तानरूपिता- परत्वं लोत्पद्यत इत्यङ्गीकार्यम् । अन्यथा लक्ष्मणः शत्रु नात्परः रामादपर इति सर्वानुभवसिद्धन- तीत्यनुपपत्तः अत एव लक्ष्मणः शत्रुघ्नात् शत्रुघ्नापेक्षया पर: रामात् रामापेक्षया अपर इति न नियमेन प्रयोगः एकपञ्चम्यापि तनिष्ठावधितानि पकत्वतनिरूपितत्वयोः प्रतिपादनसंभवादिति विश्वनाथ स्य निगूढाभिप्राय इति प्रतिभाति । नवीन कदेशिनातु निरुक्तवहुतर सूर्यसंयोगान्तरितत्त्वमेव देशिकपरत्वं नि. रुक्ताल्पतरसंयोगान्तरितत्वं तदपरत्वं एवं निरुक्तबहुतर तपनसंयोगान्तरितोत्पन्नावं कालिकपरत्वं तादृशश- योगान्तरितजन्मत्वं ज्येष्ठत्वं निरुक्ताल्पतरतत्सं योगान्तरितोत्पन्नत्व रूप मेव कालिकपरत्वं निरुक्ताल्पतरतप- नपरिस्पन्दान्तारतजन्मत्वमेव कनिष्ठत्वमस्तु लाघवानतु तज्ज्ञानजन्यातिरिक्तगुणरूपं तादृशापेक्षाबुद्धिच्य. क्तिभेदेनानन्तपरत्वादिकल्पने तत्सामग्रीकल्पने तन्नाशकल्पने चातिगौरवादित्याहुः । तन्न देशिकपरत्वा. देर्निरुकसूर्यसंयोगान्तरितत्वादिरूपरचे तस्याप्यतीन्द्रियत्वेन घटादावपि कस्यापि दैशिकपरत्वादिनिष्टलोकि- कविषयताशालिप्रत्यक्षानुपपत्तः साक्षात्करोमीत्य नुव्यवसायानुपपत्तेश्च । एवं कालिकपरत्वादेनिरुक्तब. हुतरतपनपरिस्पन्दान्तरितत्वोत्पन्नत्वादिरूपत्वे ज्येष्ठत्वादनिरुत बहुतरतपनपारिस्पन्दान्तरितजन्मत्वादिरूपत्वे चोत्पतिजन्मनोरतान्द्रियतया तल्लौकिक प्रत्यक्षानुपपत्तेः जन्य गुणादानति निरुक्तबहुतरतपनपरिस्पन्दान्त- रितोत्पन्नत्वादेस्सत्वेन भ्रान्तानां कालिकपरत्वादिप्रत्ययायत्तेश्चेति दिक ॥ १२३ ॥ १२४ ॥ अपेक्षावुद्धिनाशेन नाशस्तेषामुदाहृत इति मूलस्थेदंशब्दस्याव्यवहितपूर्वोपस्थित कालिकपरत्वादिमानपरत्वे दैशिकपरत्वादेनाशकाप्रदर्शनेन न्यूनता स्यात् अतो मूलस्थेदंशब्दस्य देशिककालिकसाधारणपरत्वादि- मानपरत्व माह ॥ मुक्तावळ्यां दैशिककालिकपरत्वापरत्वानामिति ॥ ननु ग्रन्थान्तरे अपरत्वनिरू- पणानन्तरं गुरुत्वनिरूपणं दृश्यते तदुपंक्ष्यात्र बुद्धिनिरूपण किनियामकमित्याशी नियामकप्रदशनेन परिहा रति ।। मुक्तावळ्यां निरूपणक्रमप्राप्तामिति ॥ गुणविभागकारिकाक्रमोपस्थितामित्यर्थः । तथाच ग्रन्था- न्तर गुणविभागवाक्यस्यापरत्वपदाव्यवहितोत्तरगुरुत्वपदघटितत्वात् तदात्या तत्रापरत्वनिरूपणानन्तरं गुरु. स्वनिरूपणमावश्यकं असतु गुणविभागकारिकायाः अपरत्वपदाव्यवहितोत्तरयुद्धिपदघटितत्वादपरत्वनिरूप- दिनकरीयम् - मूलेऽपेक्षाबुद्धिनाशेनेति ॥ स्वनिमित्त कारणविप्रकृष्टत्वादिबुद्धीनां नाशेनेत्यर्थः । नव्याः पुनर्बहु- तरसंयोगान्तरितत्वरूप विप्रकृष्टत्वाल्पसंयोगान्तरितत्वरूपसन्निकृष्टत्वाभ्यां दैशिकपरत्वापरत्वादिव्यवहारस्य बहुतरस्पन्दान्तरितजन्यत्वरूपज्येष्ठत्वाल्पतरस्पन्दान्तारतजन्यत्वरूपकनिष्टत्वाभ्यां च कालिकपरत्वादिव्यव-