पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । - स संशयो मतिर्या स्यादेकत्राभावभावयोः । साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ १३० ।। संशयं लक्षयति ।। स संशय इति । एकधर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं सं. प्रभा. मतिरिति ॥ पातरूपनिर्णय इत्यर्थः । तथाच शङ्खादेः पीतरूपस्य च वैशिष्ट्यावगाही शल: पीतः शले पीतरूपमित्याद्याकारकनिर्णयः विपर्यय इत्यर्थः फलितः । इदमुपलक्षणम्। शङ्खादेः पीतरूपचतश्च तादात्म्या- वगाही पीतश्शल इत्याद्याकारकनिर्णय स्वरूपविपर्ययोऽपि बोध्यः । संशयस्वरूपमाह ॥ किंस्विदिति ॥ इदंतु वितर्के ॥ नरो वेति ॥ नरत्वतदभावकोटिकैत्यर्थः । स्थाणुर्वेति । स्थाणुत्वतदभावकोटि केत्यर्थः । यथाश्रुते भावद्वयकोटिकसंशयाप्रसिद्धथा असाङ्गल्यापत्तेः । निश्चयत्वं चायमों निश्चित इति प्रतीतिसााक्षको आतिविशेषः । सच ज्ञानत्वरूप एव ज्ञानसामान्यस्य किंचिदंश निश्चयरूपत्वात् । एवच ज्ञानस्वरूपानश्चय सामान्यलक्षणस्य स्फुटत्वात् तदुपेक्ष्य निश्चयविशेषलक्षणमाह ॥ तदभावाप्रकारेति ॥ इदंच संशयवा रणाय || निश्चय इति । तनिश्चय इत्यर्थः । ह्रदो वयभाववान् पर्वतो वह्रिमानिति समूहालम्बनात्मकनि- श्रयसहाय लक्षणे एकथर्मिविशेष्यकत्वमपि निवेशनीयम् । नच घटः प्रमेय इत्यादिनिश्चयेऽव्याप्तिः प्र- मेयत्वाभावानसिद्धेरिति वाच्यम् । प्रतियोगितासंबन्धावच्छिन्नतन्निष्ठप्रकारतानिरूपिताभावत्वावच्छिन्न प्रकार - त्वानिरूपकत्वस्य विवक्षितत्वात् । नन्वेवमपि पर्वतो वह्निमान्वयभावांश्चेति समुच्चयेऽव्याप्तिदुर्वारा तस्य निरुकप्रकारत्वानिरूपकत्वाभावादिति चेदन सिद्धान्तवागीशभट्टाचार्यप्रभृतयः संशयसमुच्चययोवेलक्षण्याय संशये कोम्याविरोधस्य संसर्गतया भानस्वीकारात् तनिष्टप्रकारतानिरूपितज्ञानीयविशेष्यता कत्वतादृशविशेष्य. तासमानाधिकरणतद्विरोधविशिष्टदशिकविशेषणतासंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपकत्वाभावै- तदुभयवावं तनिश्चयत्वमिति नोक्ताव्याप्तिरित्याहुः । तर्कालङ्कारभट्टाचार्यप्रभृतयस्तु संशयसमुच्चययोवैलक्ष- ण्याय भावाभावनिरूपितविशेष्यतयोरवच्छेद्यावच्छेदकभावः स्वीक्रियते समुच्चयीयविषयतयोर्न तथा प्रति योगितासंबन्धावच्छिन्नतनिष्ट प्रकारतानिरूपिताभावत्वावच्छिन्न प्रकारतानिरूपितविशेष्यतानवच्छेदकतन्निष्ठप्र- कारतानिरूपितज्ञानीयविशेष्यताकत्वं तनिश्चयत्वमिति न काप्यनुपपत्तिरिति प्राहुरिति दिक् ॥ १२५ ॥ १२६ ॥ १२७ ॥ १२८ ॥ १२ ॥ ननु स संशयो मतियाँ स्यादेकत्राभावभावयोरिति मूलादेकवृत्तिभावाभाव विषयकज्ञानत्वं संशयत्वामित्यर्थो लभ्यते तच्च न संभवति वृक्षे कपिसंयोगतदभावाविति निश्चयेऽतिव्याप्तेरित्याशङ्कापरिहारायान्यथा मूलार्थ- माह ॥ मुक्तावळ्यामेकर्मिकेति ॥ एकविशेष्यताकेति एक विशेष्यत्वावच्छिन्नविशेष्यताकेति वार्थः । तेन मतद्वये समुश्चयेऽतिव्याप्तेयुदासः ॥ विरुद्धति ॥ विरोधसंसर्गावगाहीत्यर्थः । तेन भवानन्दमते तत्रा. दिनकरीयम् . प्रमायामतिव्याप्तिवारणाय । तदभावव द्विशेष्यकतदभावप्रकारकप्रमायामातव्याप्तिवारणाय तत्प्रकारकामति । इच्छायामतिव्याप्तिवारणाय ज्ञानमिति । तदभावाश्रकारकमिति संशयेऽतिव्याप्तिवारणाय । तद्विशेष्यकत्वावच्छिन्नतदभावप्रकारताशून्यतद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्ववज्ज्ञानत्वं यत्र तत्र तन्निधय- त्वमवसेयं न तु यथाश्रुतं महानसोऽयं वह्निमान्न वा पर्वतो वह्निमानित्यस्य पर्वते वह्निनिश्चयत्वानापत्तेः । ज्ञानपदं चेच्छायामतिव्याप्तिवारणाय ॥ १२३ ॥१९४ ॥११५ ॥ १२६ ॥ ११७ ॥ १२८ ॥ १२९ ।। एकधर्मिकति ॥ हदपर्वतौ वह्नितदभाववन्ताविति ज्ञानेऽतिव्याप्तिवारणायैकमिकेति एकधः मितावच्छेदकविशिष्टविशेष्यकत्वावच्छिन्नेत्यर्थः । तेन पर्वतो वह्निमान् द्रव्यं वह्नयभाववदिति ज्ञानव्युदास: वृक्षः संयोगवान् तदभाववाश्चेति समुच्चयवारणाय विरुद्धति । विरोधावगाहित्वं तदर्थः । घटो द्रव्यं पृथिवी चेति ज्ञानवारणाय भावाभावेति । इच्छाव्युदासार्थ विशेष्यभागः । वस्तुतस्तु एकधर्मावच्छिन्नविशेष्य कत्व- निवेशे विभिन्नरूपेणैकधर्मितावच्छेदककज्ञानस्य संशयत्वापत्तिः एकधर्मावच्छिन्नविशेष्यतावच्छेदकताकत्व. अत्र च