पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ७२५ सम्भवात् । द्वितीयस्तावद्यल हस्तक्रियया हस्ततरुविभागस्ततः शरीरेऽपि विभक्तप्रत्ययो भव- ति तत्र च शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात् । शरीरे तु क्रिया नास्त्येव अवयविकर्मणो यावदवयवकर्मनियतत्वात् । अतस्तत्र कारणाकारणविभागेन कार्याकार्यविभागो प्रभा. विभाग इत्यर्थः । कुतो न जन्यत इति ॥ कारणसत्वादिति भावः ॥ आरम्भकसंयोगप्रतिद्वन्द्वि- विभागवतोऽवयवस्येति ॥ विभुपदार्थनिष्चविभागसमवायिकारणासमवायिकार गयोः सत्त्वमाविष्कृतम् ।। सति द्रव्य इति ॥ अनेन द्रव्याभावरूपासाधारणनिमित्तकारणासत्त्वमाविष्कृतम् ॥ देशान्तरविभा- गासंभवादिति ॥ तथाच समवाथिकारणासमवायिकारणयोः सत्त्वेऽपि तत्र समवायेन द्रव्यस्य प्रतिबन्ध- कतया तदभावरूपकारणाभावात् न द्यणुकादिनाशात्पूर्व तादृशविभागापत्तिरिति भावः । नच तत्र समवा- येन द्रव्यस्य प्रतिबन्धकसत्त्वे मानाभाव इति वाच्यम् । एकदेशिमते सति द्रव्ये तादृशविभागाननुभवस्यैव प्रमाणत्वात् अन्यथा दाहं प्रति मण्यादेः प्रतिबन्धकताविलयप्रसवात् अत एव संयोगविभागयोरनपेक्षं का- रणं कर्मेति सूत्रप्रतिपाद्यकर्मलक्षणमपि सङ्गच्छते । इतरथा परमाणुद्वयविभागादेरपि तादृशलक्षणाक्रान्तत- यातिव्याप्तत्वेन सूत्रस्याप्यप्रामाण्यापत्तेः एतत्तत्वं निरपेक्षस्य तत्त्वे कर्मत्वं स्यादिति प्रन्थविवरणावसर एव स्फुटतरं सयुक्तिकं च प्रपञ्चितम् ॥ द्वितीयस्तावदिति ॥ कारणाकारणविभागजन्य कार्याकार्यविभाग इत्यर्थः । तावच्छब्दो वाक्यालङ्कारे यथेत्यर्थको वा ॥ यत्रति॥ यस्मिन् क्षण इत्यर्थः। तस्य विभाग इत्यने. नान्वयः ॥ तत इति ॥ हस्ततरुविभागोत्पत्त्याधिकरणक्षणतृतीयक्षण इत्यर्थः । शरीरेऽपीत्यपिना हस्तपरिग्रहः ॥ कचिदिति ॥ तरी हस्तान्यतच्छरीरावयवानां यावतां न संयोगाभावकाल इत्यर्थः । तथाच हस्ते यथा विभक्त- प्रत्ययः तथा शरीरे विभक्तप्रत्ययो जायत इत्यर्थः । तत्रचेति ॥ शरीरतरुविभक्तप्रत्यय इत्यर्थः । विषयत्वं स- प्तम्यर्थः अस्य विभागेऽन्वयः एचकारार्थकचशब्दस्य नना अन्वयः ॥ न कारणमिति ॥ नैव कारणमि- त्यर्थः ॥ व्यधिकरणत्वादिति ॥ समवायघटितसामानाधिकरण्याभावादित्यर्थः । नच हस्तक्रियायाः सम- वायेन शरीरवृत्तित्वेऽप्येकार्थसमवायेन शरीरवृत्तित्वात् कथं वैयधिकरण्यामिति वाच्यं संयोगग्रन्थे हस्तश- रीराभ्यां तहसंयोगस्यैकक्रियाजन्यत्वनिराकरण प्रस्तावे हस्तशरीराभ्यां विभागस्यापि एककियाजन्यत्वासंभ. वस्य दर्शितत्वात् । तस्मात् क्रियायाः संयोग इव विभागेऽपि न समवायघटितसामानाधिकरण्यप्रत्यासत्त्या हेतुत्वं किन्तु समवायनवान्यथानुपपत्त्या हेतुत्वं वाच्यम् । एवं च हस्तक्रियायाः समवायेन शरीरावृत्तितया तेन संबन्धेन शरीरतरुविभागहेतुत्वासंभवात् विभागविभागाशीकार आवश्यक इति भावः । ननु तथापि शरीरक्रिययैव शरीरतरुविभाग आस्तामत आह ॥ शरीरे विति ॥ अवधारणार्थकतुशब्दो नास्तीत्युत्तरं योज्यः ॥ नास्तीति ॥ नास्त्येवेत्यर्थः । तत्र हेतुमाह ॥ अवयविकर्मण इति ॥ शरीरा. दिकर्मण इत्यर्थः ॥ यावद्वयवकर्मनियतत्वादिति ॥ यावदवयवघटकप्रत्येकावयवसमवेता यावत्यः कियास्तावत्प्रत्येकनिरूपितजन्यताववादित्यर्थः । शरीरादिसमवेतकर्मत्वस्य शरीरायवयवयावद्धटकप्रत्येकस. मवेतयावक्रियाघटकप्रत्येकनिरूपितजन्यत्वव्याप्यत्वादिति यावत् । तथा च कर्मणो दैशिकाव्याप्यवृत्तित्व. वारणायोकनियमाङ्गीकारस्यावश्यकतया एकाक्यवसमवेतक्रियामात्रेण शरीरक्रियोत्पत्तिन संभवतीति भावः ।। अत इति ।। एकावयवसमवेतक्रियामात्रेण शरीरक्रियानुत्पत्तीरत्यर्थः । तत्रेति ॥ तादृशशरीर इत्यर्थः ।। कारणाकारणविभागेनेति ॥ इस्ततरुविभागादिनैवेत्यर्थः ॥ कार्याकार्यविभाग इति ॥ शरीरता- विभागादिरित्यर्थः ॥ जन्यत इति ॥ अवश्यं स्वीकार्य इत्यर्थः । तथाच विभागजविभागसिद्धिनिष्प्रत्यूहेति भावः । एतावता विभागं निरूप्य विभागस्य संयोगनाशरूपत्तावादिनां मतं निरसितु आदौ स्वसिद्धान्तमुप. दिनकरीयम् . णस्यातिव्याप्त्यापत्तरिति भावः । वस्तुतः कर्मलक्षणस्य तन नातिव्याप्तिः तत्प्रकारस्तु पाकजप्रक्रियायां सप्रपञ्चं प्रदर्शितोऽस्माभिः ॥ द्वितीय इति ॥ कारणाकारणविभागजन्य इत्यर्थः ॥ यावदवयवकर्म