पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२६ कारिकावली 11 जन्यत इति । अत एव विभागो गुणान्तरं अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् अतः संयोगनाशेन विभागो नान्यथासिद्धो भवति ।। ११५ ॥ ११६ ॥ ११७ ११८ ॥ ११९ ।। १२० ॥ प्रभा. न्याति ॥ अत एवेति ॥ विभागजविभागाकारस्यावश्यकत्वादेवेत्यर्थः ॥ विभाग इति ॥ विभाग पदार्थ इत्यर्थः ॥ गुणान्तरमिति ॥ कृप्तगुणातिरिक्तगुण एवेत्यर्थः ॥ न संयोगध्वंस रूप इति यावत् । तत्स्वरूपत्वे बाधकमाह ॥ अन्यथेति ।। संयोगध्वंसरूपत्व इत्यर्थः ॥ शरीर इति ॥ शरीरादिरूपान्त्या. वयविमात्र इत्यर्थः । विभक्तप्रत्यय इति ॥ वृक्षादिना विभक्तप्रत्यय इत्यर्थः ॥न स्यादिति ॥ विषया- भावादित्यर्थः । तथाच विभागस्य संयोगध्वंसरूपत्वे हस्तक्रियाजन्यहस्ततहसंयोगध्वंसस्य शरीरावृत्ति- स्वात् शरीरे क्रियाया अभावाच शरीरतरुसंयोगे ध्वंसोत्पत्यसंभवेन विषयाभावात् शरीरं विभकमिति सर्वा. नुभवसिद्धप्रत्ययानुपपत्तिरिति भावः ॥ अत इति ॥ विभक्तप्रत्ययानुपपत्तिरूपबाधकवशादित्यर्थः ॥ सं- योगनाशेनेति ॥ सर्वमतसिद्धसंयोगनाशस्य विभागपदार्थवाङ्गीकारेणेत्यर्थः ॥ विभागो नान्यथासिद्ध इति । गुणरूपविभागनिराकरणं न संभवतीत्यर्थः । नच हस्ततरुसंयोगध्वंसशरीरतरुसंयोगध्वंसयोः तरौ तत्सा- मानाधिकरण्यसत्त्वात् तरौ शरीरतरुसंयोगध्वंसोत्पत्तिसंभवेन विषयाबाबात न तरौ विभक्तं शरीरामिति प्र. त्ययानुपपत्तिरिति वात्यम् । हस्ततरुसंयोगध्वंसस्य शरीरतरुसंयोगनाश हेतुरवे हस्त तरुसंयोगध्वंसानां बहूना विनिगमकाभावात् अनुगमकाभावाद तत्तद्यक्तित्वनैकैकशरीरतरुसंयोगनाशव्यक्ति प्रति हेतुत्वापत्त्या महागौ- रवात् किंच गुणरूपविभागानीकारे विभक्तप्रत्यये संयोगध्वंस एव विषयो वाच्यः । तथासति हस्सो वृक्षा- द्विभकः शरीरं वृक्षात् विभक्तमिति चानुगताकारप्रत्ययानुपपत्तेः हस्ततरुसंयोगशरीरतरुसंयोगध्वंसानां बहु. त्वात् अनुगमकरूपाभावाच्च । अपि च विभक्तप्रत्ययस्य संयोगध्वंसविषयकत्वे बहूनां हस्ततरुसंयोगध्वंसा. नां विनिगमकाभावेन विषयत्वावश्यकतया गौरवं यावन्त: संयोगध्वंसान्विषयीकृत्य विभकप्रत्ययः प्रामाणि- कः तावत्संयोगध्वंसानां पुनः संयोगोत्पत्त्यनन्तरकालेऽपि सत्त्वात् तदानीमपि विभक्तप्रत्ययापत्तिश्च । नच तत्संयोगासमानकालीनतत्संयोगध्वंसानामेव तद्विभक्तप्रत्ययविषयत्वत्वाकारानोक्कापत्तिः हस्ततरुसंयोगध्वं- साना पूर्व विभक्तप्रत्ययविषयाणां पुनः हस्ततसंयोगादि काले सत्त्वेऽपि ताशसंयोगासमानकालीनत्वाभावा- त् विषयाभावेन न तदा। हस्तादौ तादृशतिभक्तप्रत्ययापत्तिरिति वाच्यम् । चरमहस्ततरुसंयोगादि. ध्वंसातिरिकसकलहस्ततरुसंयोगादिध्वंसानां कदाचित् हस्ततरुसंयोगादिसमानकालीनतया इदानीन्तनतादृश- संयोगध्वंसानां अताहशत्वेन वृक्षादौ हस्तादौ वा कदापि विभक्तप्रत्ययानापत्तेस्तस्मात् गुणरूपविभागमङ्गीकृ- सैव सर्वदोषः परिहरणीयः । अत एव घटापटो विभक इत्यत्र पञ्चम्या: सकलपन्थकाराणां अनधित्वार्थकत्वो- पवर्णनं विभागो विभक्तप्रत्ययनिमित्तं कर्मजो विभागजश्वेति भाष्यं संयोगविभागावित्ति गुणविभागसूत्रं च साधु सङ्गच्छत इति । यत्तूक्तदोषवारणाय गुणरूपविभाङ्गीकारस्यावश्यकत्वेऽपि विभागजविभागे मानाभान एव । एवं हस्तक्रियायाः समवायेन हस्ततरुविभागे हेतुत्ववत् समवायघटितसामानाधिकरण्येन शरीरतरुविभाग- दिनकरीयम् . नियतत्वादिति ॥ क्रियाया व्याप्यवृत्तित्वनियमादिति भावः । अत एव वक्ष्यमाणयुक्तरेव ॥ शरी. रे विभक्तप्रत्ययो न स्यादिति ॥ यत्र हस्तक्रियया हस्ततरुविभागस्तत्र शरीरे विभागप्रत्ययः सर्वानु- भवसिद्धः स च विभागं विना नोपपद्यते नच शरीरतरुसंयोगनाश एवं तद्विषय इति वाच्यं विभागाननी- कारे शरीरतरुसंयोगनाशस्यैवासम्भवात् । न हि तत्र हस्तक्रिया शरीरतरसंयोगनाशिका व्यधिकरणवादत. स्तन्न हस्वतरुविभागेन शरीरतरुविभागो जन्यते तेन च शरीरतरुसंयोगनाशो जन्यत इत्युपेयत इति विभाग सिद्धिः । ननु हत्ततरुसंयोगनाश एव शरीरतहसंयोगनाशकोऽस्तु तरौ तदुभयसामानाधिकरण्यसत्त्वात् । मास्तु विभागजविभागो हस्ततरुविभागस्तु कर्मजन्यशरीरतरुसंयोगनाशकतया सिध्यतीत्यप्यत एवापास्तम् । हस्त-