पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः योगनाशः तत उत्तरदेशसंयोगस्ततः कर्मनाश इति । नच तेन कर्मणव कथं देशान्तरवि- भागो न जन्यत इति वाच्यं एकस्य कर्मण आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्यानार- म्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात् । अन्यथा विकसत्कमलकुड्मलभङ्ग- प्रसङ्गात् । तस्माद्यदीदमनारम्भकसंयोगप्रतिद्वन्द्विविभागं जनयेन् तदारम्भकसंयोगप्रतिद्वन्द्वि- विभागं न जनयेत् । नच कारणविभागेनैव द्रव्यनाशात् पूर्व कुतो देशान्तरविभागो न जन्य- त इति वाच्यं आरम्भकसंयोगप्रतिद्वन्द्विविभागवतोऽवयवस्य सति द्रव्ये देशान्तरविभागा- प्रभा. D इते ॥ नचेति ॥ तेनैव कर्मणेति ॥ तन कर्मणवेत्यर्थः । एव कारेण विभागस्य हेतुत्वं व्यवच्छिद्यते ॥ देशान्तरविभाग इति ॥ विभुपदार्थेन विभाग इत्यर्थः । कथं न जन्यत इति ॥ विभागं प्रति कि- याघटितसामन्याः प्रावल्येन प्रकृते तत्सत्त्वादिति भावः ॥ एकस्य कर्मण इति ॥ एकस्यावयवकर्मण इत्यर्थः ॥ विरोधादिति ॥ आरम्भक संयोग प्रतिद्वन्द्विविभागजनककर्मणः अनारम्भकसंयोगप्रतिद्वन्द्विवि. भागाजनकत्वनियमादिति भावः । तादृशनि गमानजीकारे बायकमाह ॥ अन्यथेति ॥ विकसत्कमलकुम लभङ्गप्रसङ्गादिति ॥ विकसत्कमलस्य कुडमलस्यापि नाशप्रसादिलार्थः । अत्रेयमापत्तिः निरुतनियमस्य यथाश्रुतार्थमनुसृत्य पाककियायां उपवर्णि तनिकृष्टार्थानुसरणे न कोऽपि दोष इति हृदयम् । तस्मादिति ॥नि- रुभाग्रसङ्गपरिहाराय तयोविरोधस्वीकारस्यावश्यकत्वादित्यर्थः । तथाच परमाणुसमवेतक्रियावृत्तिः नाकाशा- दिविभागजनिका परमाणुद्वयविभाग जनकत्वात् यद्यदारम्भकसं योगप्रतिद्वन्द्विविभागजनके तन्नानारम्भकसंयो- गप्रतिद्वन्द्विविभागजनकं यथा विकसत्कमलकुमलकमेति सामान्य मुखव्याप्त्या परमाण्वादिकर्मविशेष परमा-- वाकाशवृत्तिविभागजनकत्वाभावसिद्धथा परिशेषात् कारणमात्रविभागजविभागसिद्धिनिराबाधेति भावः। निरु- कहेतौ व्यभिचारशङ्कानिवर्तकतर्कमाह || यदीति ॥ इदमिति । परमाणुसमवेतक्रियाव्यतिरित्यर्थः ॥ अना- रम्भकसंयोगेति॥ आकाशादिविभागजनिका यदीत्यर्थः ॥ आरम्भकसंयोगेति ॥परमाणुद्वयविभागज- निका न भवेदित्यर्थः । नचेष्टापत्तिः व्यणुकनाशानापत्तेः तत्रापि नेष्टापत्तिः उपलभ्यमानस्य त्र्यणुकादिमहाव- यविपर्यन्तनाशस्यापलापापत्तरित्याशयः। ननूक्तरीत्या परमाणुद्वयविभागस्य परमाण्वाकाशादिविभागासमवामि- कारणत्वस्वीकारे परमाणुद्वय संयोगनाशकाल एव परमाण्वाकाशादिविभागः कुतो जोत्पद्यते कारणत्वसाधा- दित्यभिप्रायेण शकृते ॥ न चेति ॥ कारणविभागेनैवेति ॥ परमाणुद्वयविभागेनैवेत्यर्थः । कारणयोः समवायिकारणयोः विभागेनेति व्युत्पत्त्या अणुकादितत्तव्यसमायिकार गद्यवृत्तिपरमाणुद्वयविभागादि. लाभादिति भावः ॥ पूर्वमिति ॥ द्यणुकादिनाशात्पूर्वमित्यर्थः ॥ देशान्तरविभाग इति । आकाशादि- दिनकरीयम् . रसंयोगस्यैव स्वजनककर्मनिवर्तकत्वादिति भावः । अमुमर्थ हृदि निधायोक्तम् ॥तत उत्तरदेशसंयोग- स्ततः कर्मनाश इति । तेन कर्मणवेति ॥ कपालद्वयविभागजनककर्मणे वेत्यर्थः ॥ देशान्तरवि. भामः कपालाकालादिविभागः || आरम्भकत्यादि ॥ अरम्भकसंयोगः कपालद्वयसंयोगादिस्तत्प्रतिद्व- न्द्वी तद्विरोधी तन्नाशक इति यावत् । एवमग्रेऽपि ॥ अनारम्भकसंयोगः कपालाकाशसंयोगादिः ॥ अन्य. थेति ॥ आरम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मणोऽनारम्भक संयोगप्रतिद्वन्द्विविभागजनककर्मणश्चैश्य इ. त्यर्थः । विकसदिति ॥ तलामावच्छेदेनानारम्भकसयोगप्रतिद्वन्द्विविभागजनककर्मणः सत्वात्तन कर्मणा मूलावच्छिन्नारम्भकसंयोगविरोधिविभागोत्पत्तिस्तेन चारम्भकसंयोगनाशस्तेन कमलनाशः स्यादिति भावः ।। कारणविभागेनैव कारणमात्रविभागेनैव कपालद्वयविभागादिनेति यावत् ॥ पूर्व घटाद्यात्मकद्रव्यनाशा- तु पूर्व । तथा च पूर्वोक्तं ततो घटनाशस्ततः कपालस्याकाशविभागों जन्यत इत्यसङ्गतामति भावः ॥ सति द्रव्ये द्रव्यनाशं विना देशान्तरविभागासम्भवादिति ॥ अन्यथा कारणमात्रविभागे कर्मलक्ष-