पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। ६९५ नित्येषु परमाण्वादिषु एकत्वं नित्यम् । अनित्ये घटादावेकत्वमनित्यमित्यर्थः । द्वित्वादयस्तु प्रभा. शब्दनिष्ठवाच्यतासंबन्धावच्छिन्नकार्यतानिरूपितसमवायसंवन्धावच्छिन्न कारणत्वं सङ्खयालक्षमित्यर्थः । तथा च एकत्वसत्त्वे एक इति व्यवहारः उभयत्वावच्छिन्ने एकत्वासत्त्वात् तादृशव्यवहाराभाव इत्यन्वयव्यतिरे- काभ्यां व्यवहारं प्रति एकत्वादिरूपव्यवहर्तध्यस्य हेतुत्वाल्लक्षणसमन्वय इति भावः । यद्यपि एक इति श- ब्दघटितलक्षणं द्विरवादावव्याप्तं द्वावित्यादिशब्दघटितलक्षणन्तु एकत्वेऽव्याप्तमिति नानुगतलक्षणसंभवः तथापि सङ्ख्यावाचकशब्दत्वेन एकादिशब्दाननुगमय्य तादृशशब्दत्वावच्छिन्नवाच्यतासंबन्धावच्छिन्नकार्यताघटितल- क्षणस्य एकत्वादिपरार्धपर्यन्तसङ्ख्यासु सत्त्वात् नोक्तदोषावकाशः । नचैवमपि यादृशैकत्वादिसङ्ख्यया तादृशव्य- वहारो न जातः तादृशैकत्वादावव्याप्तिरिति वाच्यम् ताशकारणत्वसमानाधिकरणरूपावृत्तिजातिमात्वस्य विव- क्षितत्त्वात् । नन्वेवं सति एक इत्याकारकशब्दत्वावच्छिन्नवाच्यतासंबन्धावच्छिन्नकार्यतानिरूपितसमवायसंव- धावच्छिन्न कारणत्वसमानाधिकरणरूपावृत्तिजातिमत्त्वस्यापि लक्षणत्वसंभवात् सङ्ख्यावाचकशब्दत्वेन एक- स्वादिशब्दाननुगमय्य तद्धटितलक्षणकरणप्रयासो विफल इति चेत् इष्टमेवैतल्लक्षणस्य लक्षणान्तराषकत्वात्। एवं निरुक्ककारणतावच्छेदकतया सङ्ख्यापदशक्यतावच्छेदकतया वा सिद्धसङ्ख्यात्वजातिमत्त्वमपि सङ्ख्या- सामान्यलक्षणं बोध्यम् । परन्तु प्रथमस्य लक्षणत्वे सङ्ख्यात्वजातेलेक्ष्यतावच्छेदकत्वं सङ्ख्यात्वजातेलक्षणत्वे प्रथमस्यैव लक्ष्यतावच्छेदकत्वमिति हृदयम् । केचित्तु वस्तुतो गणनं सङ्ख्यात्वं तत्प्रकारको व्यवहारः तत्प्र- कारकं प्रमात्मकं ज्ञानं तद्धेतस्तद्विषय इत्यर्थान्न कालादावतिव्याप्तिः । अत्रापि सङ्ख्यात्वजातिरेव लक्षणं इ- तरतु सङ्ख्यात्वजातौ प्रमाणतयोकं एवमग्रेऽपीति ध्येयमित्याहुः । तदसत् गुणस्सङ्ख्येत्याकारकगुणत्वाव- च्छिन्नविशेष्यकसङ्ख्यास्वप्रकारकप्रमानिरूपितविशेष्यत्वस्य गुणमात्रे सत्त्वादतिव्याप्त्यापत्तेः ईश्वरीयसङ्ख्यात्व- प्रकारकप्रमायाः सर्वविषय करवेन तादृशप्रमानिरूपितविशेष्यत्वस्य पदार्थमाले सत्त्वात् सर्वत्रातिव्याप्त्या- पत्तेश्च । नच सङ्ख्यात्वत्वावच्छिन्न प्रकारतानिरूपितप्रमीयविशेष्यत्वस्य लक्षणत्वे तात्पर्यात् नोकातिव्याप्ति- रिति वाच्यं तथा सति तद्भटकसङ्ख्यात्वस्यैव लघोर्लक्षणत्वसंभवे शेषवैयर्यन मूलस्थगुणशब्दस्य व्यवहारशब्द- स्य हेतुशब्दस्य च सङ्ख्यात्वतत्प्रकारकप्रमातद्विषयेषु लाक्षणिकत्वाभिधानप्रयासवैफल्यात् । यदुक्कं तत्रापि सङ्ख्यात्वजातिरेव लक्षणं इतरत्तु सङ्ख्यात्वजाती प्रमाणतयोमिति तदपि न सम्यक् गणनाव्यवहारे तु हेतुरि- ति मूलस्य गणनाव्यवहारासाधारणकारणमिति मुक्तावळीग्रन्थस्य च मङ्ख्यात्वजातौ प्रमाणपरत्वे कारणता- क्च्छेदकतया जातिसिद्धेः सर्वमतसिद्धतया मूले मुक्तावळ्यां च सङ्ख्यायाः तादृशव्यवहारहेतुत्वप्रतिपादनं सङ्ख्यात्वजातौ प्रमाणोपन्यासाय लक्षणन्तु सङ्ख्यात्वजातिमत्त्वमेवेत्यनुक्त्वा मूलाद्युतगणनादिपदानां लाक्षणि- कत्वं परिकल्प्य सङ्ख्यानिष्ठप्रकार तानिरूपितप्रमीयविशेष्यत्वरूपार्थे मूलकारस्य तात्पर्य इतरवित्यादिप्रन्थेन ताशप्रमाविषयत्वस्य सङ्ख्यात्वजातौ प्रमाणपरत्वोपपादनस्य शिरोवेष्टनेन नासिकास्पर्शनतुल्यत्वादिति ।। एवं एकत्वादिपरार्धपर्यन्तसङ्खयानां प्रत्येकं विशेषलक्षणान्यप्युक्तरीत्या ऊह्यानि । एकत्वादिसङ्ख्या- त्वव्याप्यसकलजातिसिद्धिरपि उक्तरीत्या साधनायेति ॥ १०६ ॥ ननु नित्येषु नित्यमेकत्वमित्यादिमूलेन नित्यमात्रवृत्त्येकत्वस्य नित्यत्वं अनित्यमात्रवृत्त्येकत्वस्यानि- स्यत्वं च लभ्यते तच्चायुकम् । गुणरूपसङ्ख्याया एवं प्रकृतत्वेन तस्य सफलनिस्यान्तर्गतनित्यरूपादिवृत्ति- स्वाभावात् सकलानिस्यान्तर्गतानित्यरूपादिवृत्तित्वाभावाच्छ अतो मूलस्थनित्यानित्यपदे नित्यानित्यद्रव्यपरत- या व्याचष्टे ॥ मुक्तावळ्यां नित्येषु परमाण्वादिश्चित्यादिना ॥ अपेक्षाबुद्धिविशेषविषयस्वरूपद्वि- दिनकरीयम्. प्तिः । तत्रापि सङ्ख्यात्वजातिरेव लक्षणमितरत्तु सङ्ख्यात्वजातौ प्रमाणतयोत एवमग्रेऽपीति ध्येयम् ॥ द्वित्वा- दय इति ॥ एकत्वान्यसयामात्रमपेक्षाबुद्धिरूपनिमित्तकारणजन्यमित्यर्थः । असमवायिकारणं तु द्वित्वं प्र- ति समवायिकारणगतयावदेकत्वमिति योध्यम् । ननु योग्यद्वित्वादावपेक्षाबुद्धेहेतुत्वेऽप्ययोग्यद्वित्वादौ सद्धे- तुस्वे मानाभाव इति चेन्न योग्यद्वित्वादेरपेक्षाबुद्धिजन्यत्वेऽतीन्द्रियद्वित्वादावस्यनेकसङ्ख्यात्वादिना तदनु-