पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्डः गणनाव्यवहारे तु हेतुः सङ्ख्याभिधीयते ॥ १०६ ।। नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते । द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः ॥ १०७ ॥ ह ॥ गणनेति ॥ गणनाव्यवहारासाधारणं कारणं सङ्ख्थेत्यर्थः ॥ नित्येष्विति ॥ प्रभा. न्यपरमाणुक्रियायामवैलक्षण्येन तादृशैककियाजन्यविभागे परमाण्वन्तररूपपूर्वदेशस्य हेतुरवं तादृशकियान्तरज- न्यविभागे ताशपूर्व देशस्याहेतुत्वमित्यत्र नियामकाभावात् परमाणुसमवेततादृशक्रियामात्रस्य आरम्भकर्म- योगविधिविभागजनकत्वावश्यकत्वाच्च सर्वत्रावयविनाशो दुर्वार इति । यचोतं यदुक्तं वैशषिकैरित्यादि रूपोत्पाद इत्यन्तप्रन्धेन नवीन मतमुपन्यस्य तदपि नेत्यारभ्य व्यभिचाराप्रसकोरित्यन्तप्रन्थेन तन्मतदूषण तदपि न सम्यक् अवयविरूपादिकं प्रति अवयवरूपादेः हेतुतायां अवयविनाशानङ्गीकर्तृमते तेजस्संयोगज- न्यावयविरूपादौ व्यभिचारचारणाय तेजस्संयोगाजन्यावयविरूपादिषु वैजात्यमझीकृत्य ताशवैजात्याव- च्छिन्नं प्रति अवयवरूपादे: हेतुत्वाङ्गीकार अनन्तवैजात्यकल्पनाप्रयुकातिगौरवापत्तेः । तथाहि रूपादिषु च. तुर्यु रूपत्वादिव्यायवैजात्य चतुष्टयाङ्गीकारो न संभवति शुक्रत्वादिना मधुरत्वादिना सुरभित्वादिना स्पर्शगत- कठिनत्वादिना च साश्यांपत्तेः । किंतु प्राचीनमते शुक्लत्वादिव्यायवैजात्यसप्तकं चित्ररसमादाय मधुरत्वा- दिव्याप्यवैजात्यसप्तकं चित्रगन्धमादाय सुरभित्वादिव्याप्यवैजात्य त्रयं स्पर्शगत कठिनत्वादिव्याप्यचैजात्य- द्वयं वावयविस्पर्शमात्रवृत्त्यनुष्णाशीतत्वव्याप्यवैजात्यं च सार्थ वारणाय कल्पनीयम् । तत्तद्वैजात्यावच्छिन्नं प्रति अवयवरूप त्वादिना कारणत्वं च व्यभिचारवारमायाङ्गीकर्तव्यम् । एवंच विंशतिवैजात्यकल्पनात् तत्तद्वै. जात्यावच्छिन्नं प्रति अवयवरूपत्वादिना विंशति कार्यकारणभावकल्पनाचाति गौरवम् । नवनिमते अवयवि- नि पाकेन रूपाद्यनुत्पादात् समवाये नाक्यविरूपादिकं प्रति समदायघटित सामानाधिकरण्येन रूपादेः कारण- त्वसंभवेन भ पूर्वोकगौरवावकाश इति । यच्चावयविरूपादिनाशं प्रति आश्रयनाश हेतुतायां अवयविनि पा- केन रूपादिनाशाङ्गीकर्तृमते नवीनोक्तं व्यभिचाररूप दूषणं एतेनेत्यादिपरास्तमित्यन्तप्रन्येनानूद्याश्रयनाश- जन्यतावच्छेदककोटौ वैजात्यस्य निवेशनीयवादिति अन्धेन तादृशव्यभिचारनिराकरणं तदपि न अभ्यक् अवयवरूपादिजन्यतावच्छेदकतया सिद्धविंशतिजातरुिपादाय तसज्जात्याश्रय प्रतियोगिकरूपादिनाशं प्रांत आश्रयनाशनाश्यतावच्छेदकतया विंशतिवैजात्यान्तराण्यङ्गीकृत्य तत्तद्वैजात्याश्रयप्रतियोगिकरूपादि नाशं प्रति वाश्रयनाशस्य हेतुत्वम् । नायः तेजसंयोगजन्यरूपादेरपि कदाचिदाश्रयनाशानादयत्वेनानुपपत्तेः । नान्यः अवयवरूपादिजन्यतावच्छेदकवैजात्यानां मध्ये एकैकवै जात्य स्वाश्रयनाशनाश्यतावच्छेदकवै जात्यानां मध्ये एकैकवैजात्यस्य अवयविरूपादिजन्ये आश्रयनाशनाइये च रूपादौ सश्वेन साङ्क पत्त्यावयवरूपादिजन्यता- वच्छेदकधर्माणां तादृशनाश्यतावच्छेदकधर्माणां च जातित्वानुपपत्तेः। तस्माद्विजातीयरूपादिनाशं प्रति आश्रय- नाशस्य हेतुत्वमङ्गीकृत्य व्यभिचारवारणमत्यन्तासमत मेव । नवीनमते तु अचयविरूपादिकं प्रति अवयवरूपादेः अवयविरूपादिनाशं प्रति आश्रयनाशस्य पृथिवीपरमाणुरूपादिकं प्रति विजातीयतेजसंयोगस्य ताशरूपादि- चतुष्टयनाशं प्रति विजातीयतेजस्संयोगस्य च हेतुतायां बाधकाभावात अनेकवैजात्यस्य तादृशजायभेदे- नानेककार्यकारणभावस्य च कल्पनायाः अप्रसक्त्या अतिलाघवामति दिक् ॥ संख्याग्निरूपयितुमाहेति ॥ सलयात्वावच्छिन्नं क्रमशो लक्षणादिमत्त्वेन प्रतिपादायतुमादी लक्षणमाहेत्यर्थः । गणनाव्यवहारे तु हेतुरिति मूलस्थावधारणर्थ कतुशब्देन तादृशव्यवहारेतरकारणत्वाभावप्रतिपादनादसाधारणकारणत्वं लभ्यत इत्यभिप्राये. ण पर्यवसितार्थमाह ॥ मुक्कावळ्यां गणनाव्यवहारासाधारणकारणमिति ॥ एकः द्वौ इत्यादि. दिनकरीयम् . गाहिनी प्रत्यभिज्ञा न स्यादिति भावः । कालादावतिव्याप्तिमाशङ्कयाह ॥ असाधारणमिति ॥ वस्तुतो गणनं सङ्ख्यात्वं तत्प्रकारको व्यवहारस्तत्प्रकारकं प्रमात्मकं ज्ञानं तद्धेतुस्तद्विषय इत्यर्थान्न कालादावतिव्या-