पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रमा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. गोत्वं नित्यं तथा अश्वत्वं नित्यं तथा आकाशादिकं नित्यमिति साटश्यप्रतीतेरित्यर्थलामात् । तादृशप्रती- मञ्जूषा. थपमेयत्वत्वं न तु प्रमेयत्वमिति न दोषः । न च सर्वस्यापि तादृशगगनामावविशिष्टसम्ब- न्धित्वादप्रसिद्धितादवरथ्यमिति वाच्यम् , धर्मपदस्य भावपरत्वादिति चेन्न । तथापि सादृश्ये सा. दृश्यत्वरूपतादृशधर्मसत्त्वेन स्वरूपासिद्धेदुर्वारत्वादिति । अत्र ब्रूमः सामान्येतरमिष्ठाधिकरणतानिरूपक- तावच्छेदकतापर्याप्त्यधिकरणसामान्यनिष्ठाधिकरणतानिरूपकतावच्छेदकतापर्याप्त्यधिकरणधर्मवत्वविवक्षणान्न सामान्यत्वे व्यभिचार:-तथाहि यद्यपि मामान्यत्वं सामान्यस्वरूपानतिरिक्तम् । एवं सामान्य- त्वत्वमपि सामान्यत्वस्वरूपादनतिरिक्तं, तथापि सामान्यमन्त्रण्डोपाधिः सामान्यत्वं नित्यस्वे सत्यक- समवेतत्वं, सामान्यत्वत्वं तु नित्यानकसमवेतेतरावृत्तित्वे सति निखिलनित्यानेकसमवेतवृत्तित्वम् । न व सामन्यरूपं सामान्यत्वं कथं नित्यानेकसमतेतरावृत्तीति वाच्यम् । सामान्येतरवृत्तितानवच्छेदकं यन्नित्यानेकर समवेतवृत्तित्वं तस्यैव भामान्यत्वत्वरूपत्वात् । एवं च घटस्सामान्यत्ववान् इत्यप्रतीला सामान्यम् सामा- न्यत्ववदितिप्रतीत्या च नित्यानेकसमवेतेतरावृत्तित्वादिधदितविशिष्टरूपसामान्यत्वत्वस्य घटादिनिधाधिकरणता- दिनकरीयम् . चारः । व्यतिरेकिरवे सतीति विशेषणान्न प्रमेयत्वादौ व्यभिचारः । भावत्वे च द्रव्यादिषटकान्यतमत्वरूपे हेतु- मति साध्यस्य रात्वान्न व्यभिचार इति । यथति । यदि सादृश्य द्रव्यादावन्तर्भूतं तदा द्रव्यादे: सामान्यावृत्ति- रामरुद्रीयम् . नत्यर्थः । अथ सामान्यत्वमरेकसमवेतत्वे सति नित्यत्वं, तच्च ध्वंसप्रागभावाप्रतियोगित्वरूपतया अभाव- स्वरूपमेवेति कथं व्यभिचारः, न च विनिगमनाविरहेण नित्यत्वे सत्यनेकसमवेतत्वस्यापि सामान्यत्वरूप- तासम्भवेन तस्य चानेकानुयोगिकसमवाय प्रतियोगित्वस्य स्वरूपसम्बन्धविशेषरूपस्य सामान्यात्मकतया भवति व्यभिचार इति वाच्यम् । एवमप्यभेदे आधाराधेयगावानुपगमेन सामान्ये तद्वृत्तित्वासत्त्वेन व्यभि- चाराप्रसक्तः । न च सामान्यत्वं सामान्यत्वप्रकारकज्ञानरूपमेव विवक्षितमिति वाच्यम् , तथासति सा- मान्यविषयकज्ञानस्य विषयतया सामान्य सम्बन्धित्वात् सामान्येतरात्मवृतित्वाच्च सत्यंतोपादानेऽपि व्यभि- चारतादयस्थ्यात् , व्यभिचारचारणरूपप्रयोजनाभावेन सत्यंतसार्थक्यमात्राय वृत्तित्वस्थाने सम्बन्धित्वविवक्षा- या अनुचितत्वाञ्च । तस्मात् सामान्यनिरूपितायाः सम्बंधांतरावच्छिन्नवृत्तिताया अप्रसिद्धया स्वरूपसम्बं. धावच्छिन्नसामान्यवृत्तित्यमेव हेतुर्वाच्यः, सामान्यत्वे च न तादृशं सामान्यवृत्तित्वमिति व्यभिचारो दुर्घट एव, युक्तं चैतत् सादृश्यस्यातिरिक्तत्ववादिनाऽपि स्वरूपसम्बन्धेनैव तस्य प्रकारत्वोपगमेन, तस्य भूयोधर्म- वत्त्वरूपतावादिनाऽपि स्वरूपेणैव तस्य प्रकारतांऽगीकरणीया, अनुभवे विवादासम्भवात् एकाकारप्रतीते - नासम्बन्धेन तत्प्रकारकत्वानौचित्याच । अत एव ग्रन्थकृतापि तद्भिनत्वे सति तद्गतभूयोधर्म इत्यनुक्त्वा तद्- गतभूयोधर्मवत्त्वपर्यन्तमनुसृतं । तथा च सादृश्ये स्वरूपासिद्धिवारणायोभयमतसिद्धं सामान्यनिरूपितस्वरूप- सम्बन्धावच्छिन्नवृत्तित्वमेव हेतुरित्यवश्यमंगीकरणीयमिति न व्यभिचार इति चेन्न । सामान्य सामान्यत्व- वदिति प्रतीत्या सामान्ये सामान्यत्वाधारत्वावगाहनेन, सामान्यत्वस्य सामान्यातिरिकस्य दुर्वचत्वेन च स्वस्यापि स्वरूपसम्बन्धेन स्ववृत्तित्वमवश्यमंगीकरणीयं, अभावाधिकरणकाभावस्थले सर्वैरपि तथा स्वीका- रात् । अनयैव सेत्या प्रमेयत्वादावपि वक्ष्यमाणव्यभिचारो बोध्यः । सर्व प्रमेयत्ववदिति प्रतीला प्रमेयत्व- स्य प्रमास्वरूपस्य स्वरूपसम्बन्धेन वृत्तेरावश्यकत्वात् , विषयताया विषयस्वरूपत्वेच सर्वत्र प्रमेयत्वमेकमिति प्रतीतिविरोधात् । ज्ञानस्वरूपे च प्रमेयत्वे स्वरूपसम्वन्धेन सामान्यतदितरवृतित्वसत्त्वाद्वयभिचारस्यावश्य- कत्वादिति भावः । नन्वन्यतरसम्बन्धेन सत्तावत्त्वरूपभावत्वे हेतुसत्त्वाद्वयभिचार इत्याशङ्कां निराकुरुते । भावत्वे चेति ॥ न चैवमपि घटघटत्वगतद्वित्वे व्यभिचारो दुर्वारस्तस्य संख्यारूपत्वासंभवेऽपि द्वित्ववत्ता -