पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ कारिकावली - - सामान्येऽपि सत्त्वात् , यथा गोत्वं नित्यं तथा अश्वत्वमपि नित्यमिति मादृश्यप्रतीतः । नाप्य- प्रभा. तेषु तत्साहश्यमेकमवेत्याल कारिकसिद्धान्तः तदनुसारण तत्र हेतुमाह-सामान्यपीति ॥ सामान्यतरवृत्ति- स्वसामान्यवृत्तियोमयवत्वादित्यर्थः । अत्र गगनाभावादिः दृष्टान्तः । केचित प्रमेयत्वे व्यभिचारवारणाय हेत। व्यतिरेकिरवे सतीति विशेषणं देयमित्याहुः। तदसत , प्रमेयत्वस्य प्रमाविषयत्वरूपस्य विषयभेदन भिन्नतया नि- रुक्तोभयवत्वरूपहेलोरभावात् । यदि विषयतासम्बन्धेन प्रमावत्वमेव प्रमेयत्वं, विषयतासंबन्धन सर्वत्र वि- यमानाया: ईश्वरप्रमाव्यक्त: निरुतवृत्तिताद्वयवत्वेन व्यभिचारस्तदवस्थ इत्युच्यते तदा व्यतिरेकित्वविशेषण दान ऽपि समवेतस्वस्य प्रतियोगितासंबन्धेन समवायवस्वरूपस्य तादशहेतुमत्वेन व्यभिचारस्य दुर्यारत्वात् । यदि च प्रतियोगितायाः वृत्त्यनियामकतया तेन संबन्धन समवायवस्वरूपसमवेतत्वाप्रसिद्धना तत्र व्यभि- चारस्याप्रसक्तिरित्युच्यते तदा विषयताया अपि वृत्त्यनियामकतया तन संबन्धेन प्रमावत्वरूपप्रम- यत्वासिद्धया तत्र व्यभिचाराभावेन हेतो व्यतिरेकित्व सतीति विशेषण दानवैययस्य दुरित्वात् । पक्षात्म कसाहश्ये हेतुसत्त्वे प्रतीति प्रमाण यति-यथति । अश्वत्व मपात्यपिना आकाशादिपरिग्रहः । एवज यथा मजूषा. ल्ययोगक्षमो न हेतुत्वार्थक इति न हिशब्दस्वरसविरोधः । सामान्येऽपीति । अत्र महादेवः ‘सामान्यपाति । सामान्येतरवृत्तित्वे सति सामान्यत्तित्वादित्यर्थः । तेन सामान्यत्वे न व्यभिचारः। व्यतिरोकित्व सतीति विश- षणान प्रमेयवादी व्यभिचारः । भावत्वं च द्रव्यादिषदकान्यतमत्वरूपे हेनुमति साध्यसत्त्वान्न व्यभिचार' इति व्याचल्यो । अत्रेदं चिन्त्यते। सामान्येतरवृत्तित्वविशेषणानुपादान कथं सामान्यत्वे व्यभिचारप्रसक्तिः तस्य सामान्यानतिर कादिति चेत्तहिं मामान्येतरवृतित्वविशेषणेन कथं तद्वयावत्यते, सामान्यनिष्टस्य सामान्ये. तरवृत्तिरवस्य तदनतिरिक्तसामान्यत्वे दुर्निवारत्वात् । किं च सामान्यतदितरोभयसाधारणस्य एकस्य सादृश्य- त्याभावेन स्वरूपासिद्धिः । येषु यत्सादृश्यं धर्म्यन्तरेषु तत्सादृश्यमकमेवेत्यालकारिकसिद्धांत इत्यस्मद्गुरुचरणा. तरीत्या प्रकृतप्रन्थस्यालङ्कारिकमताभिप्रायक्रतास्वीकारेण स्वरूपासिद्धिवारणेऽपि प्रमेयत्वस्य प्रमाविषयत्व- रूपस्य विषयभेदेन भिन्नतया न तत्र व्यभिचार इत्यस्मद्गुरुचरणोक्तरीत्या प्रमेयत्वव्यावतंकव्यतिरेकित्वविशेष णेन कथं तद्वयावर्तन, प्रमेयत्वस्यापि तत्तद्वयक्तित्वावच्छिन्नाभाव प्रतियोगित्वात् । अथात्यन्ताभावप्रतियोगि- तानचच्छेदकधर्मशून्यत्वं व्यतिरेकित्वं प्रमेयन्वे तादृशप्रमेयत्वत्वसत्त्वात्तव्यावर्तनम् । नचैव सर्वच तादशन- मेयत्वसत्वादप्रसिद्धिरिति वाच्यं । तन्निष्टप्रमेयत्वव्यक्तेः तत्तद्वयक्तित्वेनाभावप्रतियोगितावच्छेदकत्वात् । यदि तु प्रमेयत्वस्वस्यापि तत्तत्प्रमेयत्वव्यक्तिवृत्तित्वविशिष्टत्वनाभावप्रतियोगितावच्छेदकत्वात् कथमनवच्छेदकत्व- मिति विभाव्यते तदा यत्किञ्चिदशक्त घसंबद्धस्वविशिप्रसामान्य कभिन्नधर्मशुन्यत्वं व्यतिरोकिन्वं, तादृशो धर्म- दिनकरीयम् . हि हेतौ । सामान्येऽपीति ॥ सामान्येतरवृत्तित्वे सति सामान्यत्तित्वादित्यर्थः । तेन सामान्यत्वे न व्यभि- रामरुद्रीयम् . हि हेताविति ॥ हिशब्दो हतुवाचक इत्यर्थः । सप्तम्या वाचकत्वार्थकत्वात् । तथा च हेतोरभेदेन षड्. भावानन्तर्भावविशेषणत्वमिति भावः । न चैवं हेतुरित्युक्ते कुत्रेत्याकाङ्क्षादयाद्धेतुत्वनिरूप कान्वयनुक्त्या न्यूनत्वमिति वाच्यम् । हेत्वन्वयिन उक्तहेतावित्यस्याध्याहारेणोक्तहेतुहेत्वभिन्नषड्भावानंतभूतत्वविशिष्टाभा. वान्तर्भूतत्वाभावाश्रयस्सादृश्यमिति बोधे तात्पर्यात्। अत्र च भावांतर्भूतत्वाभावान्तर्भूतत्वयोरभावद्वयस्य मिलि. तस्यैव हेतुत्वं, प्रत्येकस्य भावाभावयोयभिचारित्वादिति मंतव्यम् । इदं चापाततः । मूलोक्तस्य मिलि- ताभावद्वयस्यैवातिरिकपदार्थत्वे हेतुत्वसंभवेन हेत्वंतर पूरयित्वा तत्र विशेषणविशेष्यभागाप्रसिद्धिनिरास- परत्वेन तद्धीत्यादिप्रथव्याख्यानस्यानुचितत्वादिति ध्येयम् । सामान्येतरवृत्तित्ये सतीति ॥ सामा- न्येऽपीत्यपिना सामान्येतरस्य समुचितत्वादयमर्थो लभ्यतइति भावः । तेनेति । सामान्येतरवृत्तित्वोपादाने