पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः भमौण्यं चान्वयव्यतिरेकाभ्यामुपाधेरेवेति निर्णीयते पवनपृथिव्योः शीतस्पर्शादिवत् । तत्रापि पृथिवीम्वपि मध्ये परमाणावेव रूपादीनां पाक इति वैशेषिका वदन्ति । तेषामयमा- शयः। अवयविनावटब्धेष्ववयवेषु पाको न सम्भवति परन्तु वह्निसंयोगेनावय विषु विनष्टेषु प्रभा. योत्पत्तिः विजातीयतेजस्संयोगादवश्यमङ्गीकाति भावः । जलादी रूपादेः अपरावृत्तिमुपपादयति ॥ न हीति ॥ इदं परावर्तत इत्यनेन संबध्यते ॥ शतधा मायमानेऽपीति ॥ अनेन जले पूर्वरूपादिना- शपूर्वकपूर्वरूपादिविजातीयरूपाद्युत्पादकविजातीयतेजस्संयोगसत्त्वमाविष्कृतम् ॥ रूपादिकं परावर्तत इ- ति ॥ पूर्वरूपादिनाशपूर्वकपूर्वरूपादिविजातीय रूपादिकमुत्पत्तिमदित्यर्थः । तादृशवैजायेनानुपलभ्यमानत्वा. दिति हेतुरूह्यः । तथाच जले विजातीयरूपायुत्पादकविजातीयते जस्संयोगसत्त्वेऽपि तादृशरूपाद्यनुत्पत्तेः दै. शिकविशेषणतासंबन्न पूर्वरूपादिनाशं प्रति समवायादिसंबन्धेन पूर्वरूपादिविजातीयरूपादिकं प्रति च ता. दात्म्यसंबन्धेन पृथिव्या हेतुस्वमावश्यकामिति जले ताइश कारणाभावात् न रूपादिपरावृत्तिरिति भावः । न- नु विजातीय रूपादिकं प्रति जलस्य हेतुत्वानगीकारे तत्र गन्धोष्णस्पर्श योरुत्पत्त्यसंभवेन तत्र तत्प्रत्यक्षानुए- पत्तिरत आह ॥ जल इति ॥ सौरभमिति । प्रातीयभानमित्यादिः । असौरभमित्यपि बोध्यम् । अत्र सौं रभशब्दः गन्धमात्रोपलक्षक इत्यस्मद्गुरुचरणाः ॥ औषण्यमिति ॥ उष्णस्पर्श इत्यर्थः ॥ अन्वयव्यतिरे- काभ्यामिति ॥ पृथिवीतेजस्संयोगसत्ताकालीन सौरभाद्यपलब्धिपृथिवीतेजस्संयोगसत्ताशून्य कालीनसौरभा- द्यनुपलब्धिम्यामित्यर्थः ॥ उपाधेरेवेतीति ॥ पृथिवीतेजोनिष्टमेवेतीत्यर्थः । जलासनदेतमिति यावत् ॥ निर्णीयत इति । अनुमीयत इत्यर्थः । तथाच जलविशेष्यकोपलब्धिप्रकारताविशिष्टसौरभासौरभादिक जलासमवेतं पृथिव्यायुवाधिसंबन्धसत्ताकालीगजलविशेष्यको पलब्धिप्रकारत्वतादृशोपाधिसंबन्धसत्ताशून्यका. लीनजलविशेष्यकोपलब्धिप्रकारताशून्यत्वोभयवत्वादित्यनुमानात्सोरभादो जलासमवेतत्वसिद्धिरिति भावः । अत्र यदुपाधिसत्तःकालीनयद्विशेष्य कोपलब्धिप्रकारत्वोपाधिसंबन्धसत्ताशून्यकालीनयाविशेष्यकोपलब्धिप्रका- रताशून्यत्वोभयवद्भवति तत्तदसमवेतमिति सामान्यमुखव्याप्तो दृष्टान्त माह ॥ पवन पृथिव्योरिति ।। पनगपृथिव्यन्यतविशेष्य कोपलब्धिप्रकारताविशिष्टशीतस्पर्शादिवदित्यर्थः। आदिना उष्णस्पर्शपरिग्रहः । तथा- च पवनपृथिव्यन्यतरविशेष्यकोपलब्धिप्रकारताविशिष्टशीतस्पर्शादि जलादिसंबन्धसत्ताकालीनतादृशान्य तर. विशेष्यकोपलब्धिप्रकारत्वजलादिसंबन्धसत्ताशुन्यकालीनतादृशान्यतरविशेष्यकोपलब्धिप्रकारताशून्यत्वोभय- विशिष्टं भवतीति यथा तादृशान्यतरासमवेतं भवति तथा प्रकृतेऽपि सामान्यमुखव्याप्त्या पृथिव्यादी भा- समानशीतस्पर्शादिष्टान्रोन जले भासमानसौरमादेरपि जलासमवेत वासिद्धी जलविशेष्य कसौरभादिप्रतीते. २प्यनायत्या उपाधिभूतपूथिव्यादिसमवेत सौरमादिविषयकत्वावश्यकलात् भ्रमत्वभवावश्यमझीकार्यमिति भावः । मतद्वयमध्ये नवीन मतस्य दूरणीयतया आदी तन्मतमुपन्यस्यति ।। मूले तत्रापि परमाणी स्यादिति ॥ तत्र तच्छब्दोत्तरवल्प्रत्ययः निर्धारण सप्तम्यर्थक इत्यभिप्रायेण जलप्रत्ययान्ततच्छब्दार्थ- माह ॥ मुक्तावळ्यां पृथिवीपत पीति ॥ नैयायिकमतेऽपि परमाणों पाकसत्त्वाद्वैशेषि- क इत्यसङ्गतमतः परमाणाविति मूलस्य सावधारणत्वाभिप्रायेणार्थमाह a परमाणावेति॥ मूलस्थपाकशब्दस्य ससम्बन्धिकतया सम्बन्धिवाचकपदं पूरयति ॥ रूपादीनां पाक इति ॥ विजातीयतेजसंयोगजन्यपूर्वरूपादिचतुष्टयनाशपूर्वकपूर्वरूपादिचतुष्टयान्यतमीवजातीयरूपाद्युत्पत्तिरित्यर्थः । वैशेषिके नय इति मूलस्य भावार्थ माह ॥ इति वैशेषिका वदन्तीति ॥ इति इत्यर्थम् । यणुकादिषु पाका. संभवमिति यावत् । वैशीषका वदन्तीत्यर्थः । ध्यणुकादिषु पाकासंभवः कुत इत्याशङ्कां सयुक्तिकाभिप्रायप्र. दिनकरीयम्. रूपादीनां पाक इति ॥ रूपादीनां परावृत्तिरित्यर्थः ॥ पाको न सम्भवतीति ॥ रूपादि- परावृत्तिफलकस्तेजःसंयोगी ने सम्भवतीत्यर्थः । रूपादिपराधिन सम्भवतीति यावत् । रूपादिनाशं प्रति