पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । ६७५ पत्तेः ।। पूर्ववदिति ॥ जलतेजोवायुपरमाणुस्पर्शा नित्यास्ताद्भिन्नास्त्वनित्या इत्यर्थः ।। १०१।। १०२ ॥ १०३ ॥ १०४ ॥ एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् । तत्रापि परमाणौ स्यात् पाको वैशेपिके नये ॥ १०५ ॥ एतेषां रूपरसगन्धस्पर्शानाम् ॥ नान्यत्रेति ।। पृथिव्यां हि रूपरसगन्धस्पर्शपरावृत्तिः पावकसंयोगादुपलभ्यते । नहि शतधा मायमानेऽपि जले रूपादिकं परावर्तते । जले सौर- प्रभा. संयोगः मृदुः संयोग इति प्रतीतेः कठिनत्वादिकं संयोगगतजातिविशेष एवेति नवीनकदोशमतं दूपयति ।। कठिनत्यादिकमिति ॥ आदिना मृदुत्वादिपरिग्रहः । चक्षुर्ग्राह्यतापत्तेरिति । सो गुणो यदिन्द्रि- यग्राह्य इति नियमादिति भावः । नचैवं सति कठिनः संयोग इति प्रतीते: अगतिकत्वापत्तिरिति वाच्यं तत्प्रतीरोः काठनस्पर्श तद्वदन्यासमवेतसंयोगयो दाग्रहमूलकत्वेन भ्रमत्वात् । केचित्तु कठिनः संयोग इति प्रतीतिस्तु कटिनस्पर्शवव्यप्रतियोगिकत्वमवगाहत इति भाव इत्याहुः तदसत, प्रतीत्या प्रतियोगत्वानु. लेखात् । नच कठिनपदस्य कठिनस्पर्शवव्यप्रतियोगिकत्वावशिष्टे लक्षणास्वीकारान्नोक्तानुपपत्तिरिति चाच्यं तथा सति कठिनस्पर्शवन्मात्रसमवेतविभागस्यापि तादृशतया कठिनो विभाग इत्यपि प्रतीत्याप. त्तेः । नच कठिनस्संयोग इति प्रतीतौ तादृशद्रव्य प्रतियोगिकत्वसंवन्धेन स्पर्शनिष्टकाठिन्यमेव संयोगे भास- ते विभागनिष्ठतादृशद्रव्यप्रतियोगिताकत्वस्य काठिन्यसंबन्धवानभ्युपगमात् न विभागे ताशप्रत्ययापत्तिः अत एव स्फटिकादिभिन्ने लौहित्यस्य स्वाश्रयप्रयोगो न संबन्धः किन्तु स्फटिकादावेवेति सिद्धान्तवागीश- भट्टाचार्यलेखनमपि सङ्गच्छत इति वाच्यम्। जातेस्स मवा गातिरिक्तसंबन्धेन स्वरूपतो मानाभावात् । अ. न्यथा रूपत्वं द्रव्यत्ववादितिवत् द्रव्यमित्यादिप्रमापत्तेः रूपत्वं द्रव्यमित्यादिवाक्यस्य प्रामाण्यापत्तश्च रूप- स्वादौ स्वसमवायि समवेतवसंवन्धेन द्रव्यत्वसत्त्वादिति । नित्यतादि च पूर्ववदिति यथाश्रुतमूलात रूपा- दीनाभिव नित्यत्वादिकं वोध्यमित्यर्थो लभ्यते तच्चानुपपन्नं जलतेजःपरमाणुसमवेतरूपस्यैव नियत्वेन तद- न्यरूपमात्रस्यानित्यत्वेन तद्रीत्या जलतेजःपरमाणुसमवेतस्पर्शस्वैव नित्यत्वत्य तदन्यस्पर्शमात्रस्यानित्य-. त्वस्य च लाभेन वावुपरमाणुसमवेतस्पर्शस्यापि अनित्यत्वलाभेन बाधापत्तेः । अतः पूर्ववदिति मूलस्य तात्पर्य- माह ॥ मुक्कावळ्यां जलेल्यादि ॥ तद्भिन्ना इति ॥ जलतेजोवायुपरमाणुसमवेतस्पर्शभित्रा इ-. त्यर्थः ॥ १०१॥ १०२ ॥ १०३॥ १.४ ॥ एतेषां पाकजत्वमिति मूलस्थषष्टीबहुवचनान्ततच्छन्दस्य नित्यानित्यभेदेन द्विविधस्पर्शानामित्यर्थ- स्वीकारे रूपादीनां वृथिव्यवच्छेदेनापि पाकजन्यत्वाप्राप्त्यासाङ्गत्यापत्तिः अत एतच्छब्दस्य तात्पर्यार्थमा- ह ॥ मुक्तावळ्यां रूपरसेति । पाकजस्वं तु क्षिताविति मूलस्थावधारणार्थकतुशब्दस्य सप्तम्यन्ताक्षतिप. दोत्तरं योजनया क्षितावेव पाकजत्वमित्यर्थो लभ्यते तत्र व्यवच्छेद्यार्थ स्वयमेव दर्शयति ॥ नान्यत्र कु- चिदिति ॥ कुत्रचिदित्यनेन जलाधवच्छेदेन रूपादेः पाकजवाभावो लभ्यते । एतदेवोपपादयति ।। मुक्तापळ्यां पृथिव्यां हीति ॥ यत इत्यर्थकहिशब्दः पावकसं योगादित्युत्तरं योज्यः । यत उपलभ्यते अतः रूपरसगन्धस्पर्शपरावृत्तिरित्यर्थः । तथाच पृथिव्यां विजातीयतेजस्संयोगानन्तरं पूर्वरूपादिचतुष्टया- भ्यतमविजातीयरूपादिचतुष्टयोपलब्धेः पूर्वरूपादिचतुष्टय नाशपूर्वकतादृशचतुरयान्य तमविजातीयरूपादिचतु-- दिनकरीयम्. नमु घटावयवेऽप्यायातु पाको न तु परमाणावत आह ॥ नहि रक्केति ॥ न संयोगगत इति ॥ कठिनः संयोग इति प्रतीतिस्तु कठिनस्पर्शवव्यप्रतियोगिकत्वमवगाहत इति भावः ॥ १०१ ॥ १०२ ॥ १०३॥ १०४।।