पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । = प्रभा. दर्शनेन पारहरति तेषामिति ॥ वैशेषिकाणामित्यर्थः । अयमाशय इति ॥ वक्ष्यमाणयुक्तिसहितोऽ. भिप्राय इत्यर्थः ॥ अवयविनावष्टब्धेष्ववयवेविति ! समवायेन घटादिविशिष्टेषु कपालेषु घटादिघु चेत्यर्थः ॥ पाको न संभवतीति ॥ युगपद्विजातीयतेज संयोगाधीनपूर्वरूपादिनाशपूर्वकपूर्वरूपादिविजाती. यरूपायुत्पत्तिर्न संभवतीत्यर्थः । बाह्याव यवानां वयवयवैः सह विजातीयसंयोगसंभवेऽपि घटादिरूप प्रति. बन्धकसत्त्वात् वह्नयवयवानां अन्तःप्रवेशासंभवेनान्तरावयवेषु वयवयवानां विजातीयसंयोगासंभवेन सर्वावयवेषु विजातीयतेजस्संयोगरूपकारणाभावादिति भावः । केचित्तु पाको न संभवतीति रूपादिपरा . वृत्तिफलकतेजसंयोगो न संभवतीत्यर्थः रूपादिपरावृत्तिः न संभवतीति यावत् रूपादिनाशं प्रति साक्षा- त्परम्परासाधारणसर्वावयवावच्छेदेन तेजस्संयोगस्य हेतुतया अदयविना अवष्टब्धेनवयवेषु सत्सु अवयवि- नि रूपादिनाशो न संभवति तद्धेतोसर्वावयवावच्छेदेन तेजस्संयोगस्याभावादिति भाव इत्याहुः । तदसत केव. लरूपादिनाशं प्रति सावयवावच्छेदेन तेजस्संयोगस्य हेतुत्वं न संभवति आश्रय नाशजन्यरूपादिनाशे व्य- भिचारात् । नचाश्रय नाशाजन्य रूपादिनाशं प्रत्येव ताशसंयोगस्य हेतुत्वस्वीकारात् नोक्तव्यभिचार इनि वाच्यम् । तथापि परमाणुरूपादिनाशे व्यभिचारस्य दुर्वारत्वात् । नच तादृशावयविरूपादिनाशं प्रत्येव ताह- शसंयोगस्य हेतुत्वानोकदोष इति वाच्य तथापि परमाणुरूपादिनाशं प्रति विजातीयतेजसंयोगस्य हेतुरवा. वश्यकतया कार्यकारणभावद्वयापत्तेः परमाणुरूपादिनाशे कृप्तनियतपूर्व वृत्तिताकविजातीयतेजस्संयोगेनैव अवयविन्यपि रूपादिनाशसंभवेन तत्र सर्वावयवावच्छेदेन तेजसंयोगस्यान्यथासिद्धत्वाच्च । वस्तुतस्तु य-- त्किंचिदवयवावच्छेदेनावयविनिष्टतेजसंयोगात् अवयविनि रूपादिनाशवारणायाजीकृतं सर्वावयवावच्छेदेन तेजस्संयोगहेतुत्वमयुक्तं यत्किचिदवयवावच्छेदेन अवयविनि तेजस्संयोगकाले सर्वावयवेषु तेजस्संयोगस- त्वेऽवयविनि रूयादिनाशस्येष्टत्वात् तेषु तेजस्संयोगासाचे यावदवयवरूपादिनाशकाभावात् यावदवयवेधु रूपादिनाशासंभवेन सुतरां अश्यविनि रूपादिनाशासंभवात् अवयव रूपादिनाशमन्तरा अवयविनि तन्नाशा- नङ्गीकारात् यावदद्वयवेषु अघयविनि च युगपदेव रूपादिनाशस्य तन्मतसिद्धत्वात् । तस्मात् सुन्दोपसुन्द- न्यायेन यावदवयवरूपादिनाशकसामग्याः अवयत्रिरूपादिनाशकसामयाश्च समानकालीनाया एव फलो- पधायकत्वमिति तदुपपादनं नियुक्तिकामति प्रतिभाति । परमतसिद्धयणुकादिपाकासंभवमुक्ता स्वमतसिद्ध परमाणुपाकमुपपादयति ॥ परन्त्विति ॥ वह्निसंयोगेनेति ॥ परमाणुवित्यादिः । वहिप्रतियोगिकनो. दनाभिघातान्यतरात्मकविजातीयसं योगेनेत्यर्थः । तृतीयार्थः प्रयोज्यत्वं तस्य नष्टशब्दघटकनशधात्वर्थ- नाशेऽन्वयः । तथाच तादृशाग्निसंयोगेन परमाणुषु किया जायते ततः परमाण्वन्तरविभागः तत आरम्भक- संयोगनाशः ततो घणुकनाशः ततस्त्र्यणुकादिमहावयविपर्यन्तनाश इति भावः । उतार्थबोधनायैवावयवि. ध्विति बहुवचनमुपात्तम् ॥ विनष्टेष्विति ॥ वर्तमानध्वंसप्रतियोगिक्षणवृत्तिनाशविशिष्टेष्वित्यर्थः । व्यणु- दिनकरीयम्. साक्षात्परम्परासाधारणसर्वावयवावच्छेदेन तेजःसंयोगस्य हेतुतयाक्यविनावष्टब्धेष्वषयवेषु सत्सु अवयविनि रूपादिनाशो न सम्भवति तद्धेतोः सर्वावयवावच्छेदेन तेजःसयोगस्याभावादिति भावः । नच विद्यमानेऽपि घटादौ सर्वावयवावच्छेदेन तेजःसंयोगः कुतो नोत्पद्यत इति वाच्यं तथा सलारम्भकसंयोगावच्छे. देनावयविनि तेजःसंयोगोत्पादकाले तदवच्छेदेनावयवेष्वपि नोदनामिघातयोरन्य तरस्योत्पादनियमेनावयवेषु विभागहेतुक्रियोत्पादेनारम्भकसंयोगनाशादवयविनाशापत्तेः । नचावयवेषु तेजोभिघातानन्तरं पञ्चमक्षण एवाव- यविनाशसम्भवेन तत्पूर्वमवयचिनि रूपादिनाशोत्पादाभ्युपगमे बाधकाभाव इति वाच्यं तत्र पूर्वाक्यविना- शावयव्यन्तरोत्पादयोरावश्यकत्वात् पूर्वावयविनि रूपादिपरावृत्तिजनकविजातीयतेजःसंयोगस्य मानाभावेना. कल्पनात् अवयविरूपनाशे आश्रयनाशस्य हेतुत्वात् पाकजन्यत्वस्य कार्यतावच्छेदककोटिप्रवेशे गौरवादवय. विनाशं विना पाकेनादयविरूपनाशासम्भवादवयविनीलादाववयवनीलादेहतुतायां व्यभिचारापत्त्या पाकेना- वयविनि नीलादुत्पादसम्भवाच्चेत्यभिमानः ॥ अवयविषु नष्टेग्विति ॥ घटाद्यारम्भककपालादिपरमा-