पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [ गुणखण्डः चक्षुर्लाह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुपः सहकारी स्याच्छुक्लादिकमनेकधा ॥ १० ॥ चक्षुरिति ।। रूपत्वजातिस्तु प्रत्यक्षसिद्धा । रूपशब्दोल्लेखिनी प्रतीतिर्नास्तीति चेन्मा- स्तु रूपशब्दप्रयोगः तथापि नीलपीतादिष्वनुगतजातिविशेषोऽनुभवसिद्ध एव रूपशब्दाप्र- योगेऽपि नीलो वर्णः पीतो वर्ण इति वर्णशब्दोल्लेखिनी प्रतीतिरस्त्येव । एवं नीलत्वादिकमपि प्रत्यक्षसिद्धम् । नचैकैका एवं नीलरूपादिव्यक्तय इत्येकव्यक्तिवृत्तित्वान्नीलत्वादिकं न जाति- प्रभा. त्यर्थः । तेन कालिकाव्याप्यवृत्तिरूपादौ नातिव्याप्तिः । नचेश्वरज्ञानादेः दैशिकाव्याप्यवृत्तित्वाभावात् अव्या. प्तिरिति वाच्यम् दैशिकाव्याप्यवृत्तिवृत्तिवेगावृत्तिजातिमत्त्वस्य विवक्षितत्वात् । संस्कारत्वगुणत्वादिजातिमा. दायातिव्याप्तिवारणाय जातौ वेगावृत्तित्वनिवेशः । तादृशज्ञानत्वादिजातिमादाय ईश्वरज्ञानादी लक्षणसमन्व- यः । अत्र निरुक्कगुणान्यतमत्वस्य दैशिककालिकविशेषणत्वोभवसंबन्धेन लक्ष्यतावच्छेदकत्व स्वीकारात ईश्व. रक्षानादेस्तादृशोभयसंबन्धेन निरुक्तान्यत मत्वरूपलक्ष्यतावच्छेदकानाकान्त तया तत्र लक्षणाभावेऽध्यक्षनेः जातिघटितपरिष्कारे प्रयोजनाभावेन यथाश्रुतमेव साध्वित्यस्मद्गुरुचरणाः ॥ ९७ ॥ ९८ ॥ ९९ ॥ एतावता गुणानां साधर्म्य प्रतिपाद्य यदुक्तं यस्य साधमिति न्यायेन वैधय॑स्य स्फुटत्वात् तदुपेक्ष्य संप्र- ति उद्देशक्रमानुसारेण रूपादीनां लक्षणमाह ॥ मूले चक्षुहामिति ॥ अत्र लक्ष्यतावच्छेदकरूपत्वजा- तौ प्रमाणमाह ॥ मुक्तावळ्यां रूपत्वजालिरिति ॥ प्रत्यक्षसिद्धेति ॥ अनुगतप्रतीतिसिद्धेत्यर्थः । यधाश्रुत्ते परमाणुरूपाणां अनुद्भूताभिभूतरूपाणां च प्रत्यक्षाविषयत्वेन तत्साधारण्येन रूपवजात्यसिद्धिप्रस- जात् । ननु रूपभिन्नाविशेष्यकरूपत्वप्रकारकप्रतीतौ मानाभावः । नच तादृशप्रतीत्यनङ्गीकारे रूपमात्रे रूपश- ब्दप्रयोगो न स्यात् व्यवहारं प्रति व्यवहर्तव्यतावच्छेदकप्रकार कज्ञानस्य हेतुत्वादिति वाच्यं इष्टापत्तेः य. यद्रूगावच्छिन्ना कारणता तत्तद्रूपं कारणतावच्छेदकमित्यादौ धर्ममात्र एव रूपशब्दप्रयोगादित्यभिप्रायेणाश- कते ॥ रूपशब्दोल्लेखिनीति ॥ रूपशब्दजन्यबोधसमानाकारकप्रतीतिरित्यर्थः ॥ नास्तीति ॥ रूप. भिन्नाविशेष्यिका न भवत्तीति विभाव्यते चेदित्यर्थः । प्रकारान्तरेण तादृशप्रतीति साधयितुमाक्षिप्तार्थमङ्गी- करोति ॥ मास्त्विति ॥ रूपशब्दप्रयोगः तादृशप्रतीतिनिर्वाहको माभूदित्यर्थः । ननु तर्हि तादृशप्रतीत्यप्र. सिद्धयानुगतलक्ष्यतावच्छेदकाप्रसिद्धिरित्याशङ्का प्रकारान्तरेणानुगतलक्ष्यतावच्छेदकसम्पादनेन परिहरति । तथापीत्यादिना ॥ नीलपीतादिष्विति ॥ नीलपीतादिमात्रेष्वित्यर्थः ॥ अनुगतजातिविशेष इति ॥ लक्ष्यतावच्छेद कजातिविशेष इत्यर्थः । नीलपीतादिनिखिललक्ष्यभिन्नावृत्तिलक्ष्यतावच्छेदकजातिवि- शेष इति समुदायार्थः ॥ अनुभवसिद्ध एवेति ॥ अनुगतप्रतातिविषयो भवत्येवेत्यर्थः । ननु अनुगत- प्रतीतेरप्रसिद्धत्वम्योकत्वात् कथं तद्विषय इत्यत आह ॥ रूपशब्दाप्रयोगपीति ॥ रूपशब्दप्रयोग- स्य तादृशानुगत्तप्रतीतिनिर्वाहकत्वाभावेऽपीत्यर्थः ॥ नीलो वर्ण इति ॥ नीलादिलक्ष्यमात्र एब वर्णशब्द. प्रयोगातनिहाय वर्णशब्दजन्यबोधसमानप्रकार कलक्ष्यमात्रविशेष्यकप्रतीतिरवश्यं स्वीकार्यति समुदाया- धः । तथाच तादृशानुगत प्रतीत्या बांधकाभावेन वर्णत्वजातिसिद्धौ तादृशजातिरेव रूपत्वशब्देनापि व्यवाह- यत इति रूपत्वजातेर्लक्ष्यतावच्छेदकत्वं मुकरामिति भावः ॥ नीलत्वादिकमपीति ॥ आदिना रूपत्व- व्याप्यजातिमात्रस्य संग्रहः । अपिना रूपत्वजातिः समुच्चीयते ॥ प्रत्यक्षसिद्धमिति ॥ इति वदन्तीति शेषः । अनुगतप्रतीतिसिद्धमित्यर्थः । तथाच यथा रूपत्वजातिरनुगतप्रतीतिसिद्धा तथा नीलत्वादिजातिरपी- दिनकरीयम्. णत्वमिति वाच्यं ध्वंसप्रत्यक्षातिरिकं प्रत्यकारणत्वस्योकत्वात् । विस्तरस्त्वन्यत्रानुसन्धेयः । मुक्कावल्याम- व्याप्यवृत्तिरित्यस्य दैशिकेत्यादिस्तेन रूपादौ नातिध्याप्तिः ॥ ९७ ॥ ९८ ॥ ९९ ॥