पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । रिति वाच्यं नीलो नष्टो रक्त उत्पन्न इत्यादिप्रतीतेनीलादेरुत्पादविनाशशालितया नानात्वात् । अन्यथा एकनीलनाशे जगदनीलतामापद्येत । नच नीलसमवायरक्तसमवाययोरेवोत्पाद- बिनाशविषयकोऽसौ प्रत्यय इति वाच्यं प्रतीत्या समवायानुल्लेखात् । नच स एवायं नलि इति प्रत्यक्षबलालाघवाञ्चैक्यामिति वाच्यं प्रत्यक्षस्य तज्जातीयविषयत्वात् सैवेयं गुर्जरीतिवत् । प्रभा. ति भावः । अत्र नीलो वर्ण इत्यादिप्रयोगवत् अकारादयो वर्णा ब्राह्मणादयश्चत्वारो वर्णा इत्यादिव्यवहार- स्य रूपभिन्नेऽपि दर्शनात् नीलादिरूपमात्रविशेष्यकवर्णशब्दजन्यबोधसमानाकारकानुगतप्रतीतेः अप्रसिद्ध. स्वाद्वर्णशब्दोल्लेखिप्रतीत्यापि नीलादिषु नानुगतजातिसिद्धिरित्यस्वरसं हृदि निधाय इति वदन्तीत्युक्तमिति ध्येयम् । वस्तुतस्तु द्रव्यवृत्तिलौकिकविषयतासंबन्धेन चाक्षुषत्वावच्छिन्नं प्रति समवायसंवन्धेनोद्भतरूपत्वा- वच्छिन्नस्य हेतुतया कारणतावच्छेदकघटकत या नीलादिनिखिलरूपमात्रवृत्तिरूपत्वजातिसिद्धिः । नच परमा. कादिरूपस्य चाक्षुषाहेतुतया तादृशकारणतावच्छेदकतया सिद्धरूपत्वादिजातेस्तत्साधारण्यासंभव इति वाच्यं परमाण्वादिसमवेतरूपस्य चाक्षुषाजनकत्वेऽपि स्वरूपयोग्यतास्वीकारे बाधकामावात् । नचैवं सति परमा वादेश्वाक्षुषापत्तिः चाक्षुषत्वावच्छिन्नं प्रति महत्त्वस्याहेतुत्वात् । तथापि चाक्षुषत्वव्यापकप्रत्यक्षत्वावच्छिन्न प्रति महत्त्वस्य हेतुतया परमावादी महत्त्वाभावेन प्रत्यक्षत्वावच्छिन्नानुत्पत्त्या व्यापकधर्मावच्छिन्नोत्पत्त्य- भावेन सुतरां व्याप्यधर्मावच्छिन्नानुत्पत्तिरिति निचमेन चाक्षुषत्वावच्छिन्नापादनासंभवात् । अत्र व्याप्यधर्मा- वच्छिन्नोत्पत्तो व्यापक्रधर्मावच्छिन्नोत्पादकसामय्या अपि प्रयोजकत्वेन परमाण्वादौ महत्त्वरूपप्रयोजकाभा. वान्न चाक्षुषापत्तिरित्यस्मद्गुरुचरणा । न चैवमपि चक्षुरादमहत्त्ववत्त्वाद्रूपवत्त्वाच्च चाक्षुषत्वावच्छिन्नापत्तिारेति वाच्यं चक्षुरादिगतरूपस्य रूपत्वजातिमत्त्वेऽपि उद्भूतत्वाभावेन उद्भूतत्वविशिष्टरूपत्वरूपकारणतावच्छेदकवि- शिष्टत्वाभावाचक्षुरादे चाक्षुषत्वप्रसक्तिः । अथवा रूपवति रूपान्तरानुत्पत्त्या समवायेन रूपं प्रति समवायेन रू- पस्य प्रतिबन्धकत्वं वाच्यं एवंच तादृश प्रतिबन्धकतावच्छेदकतया नीलादिरूपमात्रवृत्तिरूपवजातिसिद्धिः । एवं नीलपीतादिमति नौलपीताद्यन्तरानुत्पत्त्या समवायेन नीलादिकं प्रति समवायेन नीलादेः प्रतिबन्धकत्वं वाच्यं एवं च तादृशप्रतिवन्धकताच्छेदकतयैव नीलत्वादिजातिसिद्धिोध्या । विश्वनाथपञ्चाननस्याप्यत्रैव निर्भर इति प्रतिभाति ।। अन्यथेति ॥ नीलादीनामे कव्यक्तित्वस्वीकार इत्यर्थः ॥ एकनीलनाश इति ।। एकव्यक्तिसमवेतनीलस्याश्रयनाशादिना नाशे सतीत्यर्थः ॥ आपद्यतेति ॥ तथाच विषयाभावेन कुत्रापि नीलाचाक्षुषं न स्यादिति भावः । समवायस्य नानात्यवादी शङ्कते ॥ नचेति ॥ असौ प्रत्यय इति ॥नी. लो नष्टः रक्त उत्पन्न इत्यादिप्रत्यय इत्यर्थः । तथाच नीलादेः एकव्यक्तित्ववनित्यत्वस्वीकारे बाघकाभावानो- कानुपपत्तिरिति भावः ॥ प्रतीत्यति ॥ नीलो नष्टः रक उत्पन्न इत्यादिवाक्यजन्यशाब्दप्रतीत्यर्थः ॥ समवायानुल्लेखादिति ॥ समवायस्याविषयीकरणादित्यर्थः । समवायस्य तादृशशाब्दप्रतीतिविषयत्वासं. भवादिति यावत् । तथाच नीलो नष्ट इत्यादिवाक्यस्य समचायानुपस्थापकत्वात् तादृशशब्दोल्लेखिनीलोनष्ट. हत्यादिप्रतीतावपि समवायस्य विषयत्वं न संभवति मानाभावादिति भावः ॥ इति प्रत्यक्षादिति ॥ इ. त्याकारकाभेदावगाहिप्रत्यक्षबलादिलर्थः । लाघवाच्चेति ॥ एकस्य तादृशप्रत्यक्षविषयत्वप्रयुक्तलाधवाचेत्य- थः ॥ ऐक्यमिति ॥ नीलादीनामेकव्यक्तित्वमित्यर्धः ॥ प्रत्यक्षस्थति ॥ स एवायं नील इति प्रत्यक्ष. स्येत्यर्थः ॥तजातीयविषयत्वादिति ॥ पूर्वानुभूतनीलव्यक्ति सजातीयतालव्यक्तिविषयकवादित्यर्थः । ननु सजातीयाचगाहिताशप्रत्यक्षमटचरमित्याशी तादृश प्रत्यक्षप्रदर्शनेन परिहरति । सेवेयमिति ॥ चैत्र- दुहिता घूर्जरी मैत्रदुहितृधूर्जयवेति प्रत्यक्षमित्यर्थः । तथाचानायत्या एतादृशप्रत्यक्षस्य सजातीयविषयक- त्वावश्यकतया न पूर्वोकाशङ्केति भावः । ननु नौलादीनां अनेकत्वकल्पने तेषामुत्पत्तिविनाशकल्पने च गौ- दिनकरीयम् नोलवादीलादिना रकत्वादिपरिग्रहः ॥ अन्यथा नौलादीनामे कव्यक्तित्वे । ननु लाघवादेव नी