पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । - पादीनां चक्षुरादिग्राह्यत्वात् ॥ विभूनामिति ॥ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना- शब्दा इत्यर्थः ।। अकारणेति ॥ कारणगुणेन कार्ये ये गुणा उत्पाद्यन्ते ते कारणगुणपूर्वका प्रभा. वृत्तित्वविशेषणम् । जातिघटितलक्षणकरणात् नातीन्द्रियरूपादावव्याप्तिः । मूलोक्तलक्षणं लक्ष्ये योजयति ।। मुक्तावळ्यां रूपादीनामिति ॥ रूपरसगन्धस्पर्शशब्दानामित्यर्थः ॥ चक्षुरादिग्राह्यत्वादिति ॥ चक्षुरादिबायैकैकेन्द्रियमात्रग्राह्यत्वादित्यर्थः । तथाच निरुक्त जातिघटितपरिष्कृतलक्षणसत्त्वाल्लक्षणसमन्वय इति भावः । गुरुत्वादृष्टभावना इति मूलस्थभावनापदं स्थितस्थापकाणुत्वोभयोपलक्ष कं तेन स्थितस्थापकस्यापि संग्रहः । तथाच तावदन्यतमत्वावच्छिन्नस्यातीन्द्रियत्वं लक्षणमिति भावः । अत्रातीन्द्रियत्वं न प्रत्यक्षाविप- यत्वं जगन्मात्रस्य ईश्वरप्रत्यक्षविषयत्वेन योगिप्रत्यक्षविषयत्वेन च तदभावाप्रासद्धेः । नापि प्रत्यक्षनिरूपि. तलौकिकविषयताशून्यत्त्वं परमाणुरूपादौ अतिव्याप्तेः । किन्तु साक्षात्कारनिरूपितलौकिकविषयताशून्यगुण- वृत्तिजातिमत्त्वं तदिति बोध्यम् । आत्ममनस्संयोगस्य वैजात्य पुरस्कारेण हेतुलपक्षे संयोगावृत्तित्वमपि जा. तिविशेषणं वाच्यं वायुत्व मनस्त्वादिजातिमादायातिव्याप्तिवारणाय जातौ गुणवृत्तित्वविदोषणमिति ॥ बि- भूनान्तु ये स्युर्वशेषिका गुणा इलि ॥ त इति शेषः । अवधारणाशकतुशब्दः बहुवचनान्ततच्छब्दा. त्तरं योज्यः । तथाच त एवं अकारण, गुणोत्पन्ना इति अध्याहृततर छन्द घटित कारिकाना: अकारणगुणोत्पन्नत्वस्य तदितरावृत्तित्वलाभात् तस्य विभुविशेषगुणलक्षणत्वं लभ्यते तेषां विशिष्य अज्ञान वक्ष्यमाणलक्षणोपपाद- नासंभवात् तदुपपादनाय विभुविशेषगुणत्वस्माननुगतत्वात् अनुगतलक्ष्यतावच्छेद कलाभाय च विभुविशेषगु- णशब्दप्रतिपाद्यगुणान्विशिष्याह ॥ मुक्तावळ्यां बुद्धि सुखेत्यादि । तथाच तावदन्यतमत्वेन ले. श्यत्वस्वीकारात् तस्य विशिष्य तावद्गुणघटितत्वात् अनुगतत्त्वाच नोक्तदोषद्वयावकाश इति भावः । मूलेs. कारणगुणोत्पन्ना इगल कारणे गुणाः कारणगुणाः तद्भिन्नाः अकारणगुणाः तैः उत्पन्ना इति विग्रहात् स्वाश्र. यसमवायिसमवेतगुणान्य गुणजन्यत्वं लक्षणामिति लभ्यते तदनुपपन्नं आत्मादेः कारणाभावेन असंभव- प्रसङ्गात् अतो विग्रहान्तरमाह ॥ मुक्तावळ्यां कारणगुणेनेत्यादि ॥ तथाच कारण गुणरुत्पन्नाः कारण- गुणोत्पन्नाः न कारणगुणोत्पन्नाः अकारणगुणोत्पन्ना इति विग्रहात् स्वसमवायिसमाथिसमवेत्तगुणासमवा. यि कारणकं यद्यत्वं तत्तयक्तित्वावच्छिन्नभेद कुटविशिष्टगुणत्वं लामणमिति लभ्यत इति नासंभवावकाश इ. ति भावः । नचेदं नित्यरूपादौ पाकजरूपादौ अवय वाचविनोत्विद्विपृथक्त्वातिरिक्तद्वित्वद्विपृथक्त्वादौ कर्म- जन्यसंयोगविभागवेगेषु नैमित्तिकद्रवाचे परत्वापरत्वयोश्चातिव्याप्तमिति वाच्य स्वाश्रय समवायि समवायित्वसं. बन्धेन स्वविशिष्टकिचित्संबद्धं यद्यत्स्वं तत्तद्यक्तित्वात्रीच्छन्न प्रतियोगिताकभेद कूटविशिष्टपरिमाणावृत्तिगुणवृत्ति. जातिमत्त्वस्य विवक्षितत्वात् । उक्तगुणेषु रूपत्वादीनां रूपादिनिष्टपाकजन्य तावच्छेदकबैजात्यानां द्वित्वत्वद्विपृथ- दिनकरीयम् । कग्राहालानपायादव्याप्तं चातीन्द्रियरूपादौ तेषामिन्द्रिय ग्राह्यत्वस्यैवाभावादत आह ॥ रूपादीनामिति ॥ चक्षुरादीति ॥ चक्षुरादिनैवेत्यर्थः । तथा वैकैकमात्रप्राह्यत्वस्य विवक्षितत्वात् सह्यादौ नातिव्याप्तिः !! पाहात्वात् ग्रहणयोग्यत्वात् । तेन नातीन्द्रियरूपादावव्याप्तिः तथा च चक्षुस्त्वगुभयाग्राह्यबहिरिन्द्रियग्रा. ह्यगुणसमवेतजातिमत्त्वमेतेषां लक्षणामिति भावः । नच त्रसरेणुनिष्टापकर्षस्य चक्षुरिन्द्रियेणैव प्रणात् तत्रा- तिव्याप्तिरिति वाच्यं परिमाणान्यत्वेनापि गुणस्य विशेषणीयत्वात् । मूले गुरुत्वादृष्टभावनेत्यत्र भावनापदं वे. गभिन्नसंस्कारपरम् । तेन स्थितस्थापकस्यापि सह: । नचातीन्द्रियत्वमिन्द्रिय जन्य प्रत्यक्षाविषयत्वं यदि तदा गुरुत्वादावसम्भवस्तेषामलौकिक प्रत्यक्षविषयत्वात् लौकिकप्रत्यक्षाविषयत्न विवक्षणे चातीन्द्रियरूपादावति- व्याप्तिरिति वाच्यं लौकिकसाक्षात्कारविषय गुणत्वन्यूनवृत्तिसंस्कारवान्यधर्मसमवाध्यन्य गुणत्वस्य विवक्षित - त्वात् । ससादिकमादायासम्भववारगाया गणरान नीति । भान्जास्थितस्थापकयोरव्याप्तिवारय संस्का- रस्थान्येति । जायादावतिव्याप्तिवारणाय गुणपदम् ।मूले कारणगुणोत्पनी लिन न कारणमकारणं तस्य गुणा इत्ति भ्रमनिराकरणायाह ॥ मुक्तावल्या कारणगुणेनेति ॥ समवायिकारणसमवेतगुणेनेत्यर्थः ।