पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। सङ्ख्यादिरपरत्वान्तो वो सांसिद्धि कस्तथा ॥ ९१ ।। गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः। वैशेषिकाः स्वार्थे ठक् । विशेषगुणा इत्यर्थः ।। सङ्घचेति ।। सङ्खयापरिमाणपृथक्त्वसंयोगदि. प्रभा. गिति ॥ विनयादिन्यष्टगिति सूत्रेण विनयादिभ्यः टरिवधानात् विशेषशब्दस्यापि बिनयाद्याकृतिगणपटि. तत्वात विशेषशब्दोत्तमपि स्वार्थकट प्रत्य यसंभवादिति भावः । विशेषगुणा इत्यर्थ इति ॥ तथाच बु. द्धयादिषकमित्यादिकारिकाप्रतिपाद्यबुद्धयादिशब्दान्यतमत्वावच्छिन्नस्य विशेषगुणत्वं लक्षणमिति भावः। वि- शेषगुणत्वं च नम्संयोगजन्यशब्दान्यतरत्तिद्रवत्वात्तिजातिजलत्वात्मत्वान्यतया यताव टेदकजात्यो- रन्यतरवत्त्वं तादृशद्रवत्वावृत्तिजाति-स्वव्याप्यतावच्छेदकत्वसंबन्धेनजलत्वविशिष्टजाति- तादृशसंवन्धेनात्मत्व- विशिष्टजातीनामन्यतमवत्वं मनोवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकतावच्छेदक गुरुत्वावृत्तिगुणविभाजकजा- तिमांसिद्धिकत्वभावनात्वान्यतमवत्त्वं वा । आये स्पर्शान्तानां शब्दस्य च सङ्गहाय प्रथमजातो तादृशान्यत. रवृत्तित्वविशेषणम् । नैमित्तिकद्रवत्ववारणाय गुणत्वादिकमादायातिव्याप्तिवारणाय च तत्रैव इवत्वावृत्तित्ववि. शेषणम् । स्नेहसांसिद्धि कद्रवत्व योसंग्रहाय द्वितीयजातौ जलत्वव्याप्यतावच्छेदकत्वविशेषणम् । बुद्धयादि- भावनान्तानां सङ्ग्रहाय तत्रैवात्मत्वव्याप्यतावच्छेदकलविशेषणं अनुगमाय जलवात्मत्वान्यतरत्वेन निवेशः। द्वितीयेऽपि विशेषणानां प्रयोजनं उत्तप्रायम् | तृतीये तु सङ्ख्यादावत्तिव्याप्तिवारणाय अवच्छेदकान्तं जा- तिविशेषणम् । गुरुत्वादावतिव्याप्तिवारणाय जातो गुरुत्वावृत्तित्वं । कालिकपरत्वादावतिव्याप्तिवारणाय गुण- विभाजकत्वं । सांसिद्धिकद्र वत्वभावनयोस्सनहाय अन्यतमत्वेन त्रयाणां निवेश इति । सङ्ख्यादिरपरत्वान्त इति कारिकाप्रतिपाद्यगु गानां अन्यतमत्वेन लक्ष्यत्वलाभायादिपदप्रतिपाद्यगुणान् विशिष्य प्रतिपादयति ॥ मुक्कावळ्यां संख्यापरिमाणेत्यादि ॥ मूले गुरुत्ववेगावित्यत्र वेगपदं स्थितस्थापकोपलक्षकं तेन स्थि- तस्थापकस्यापि सङ्ग्रहः । तथाच तादृशमूलप्रतिपाद्या सावन्तो गुणाः तावदन्यतमत्वावच्छिन्नस्य सामा- न्यगुणत्वं लक्षणमिति भावः । सामान्य गुणत्वं च स्वसमवेतसमवेतत्वसंबन्धेन मनोविशिष्टभावना- व्यक्त्यसमवेतजातिगुरुत्वनैमित्तिकदवत्वास्थितस्थापकान्यतमसमवेतसांसिद्धिकद्रवत्वभावनान्य तरासमवेतजा- दिनकरीयम् . एकैकवृत्तय इति मूलस्य स्व समानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकैकत्वका इत्यर्थः । य. द्वा स्वाश्रयान्योन्याभावव्यापकात्यन्ताभावप्रतियोगिन इत्यर्थः ॥ स्वार्थे ठगिति ॥ विनयादिभ्यः स्वार्थ ठविधानाद्विशेषशब्दस्य तदन्तर्गतत्वाद्विनयादेराकृतिगणत्वादिति भावः ॥ विशेषगुणा इत्यर्थ इ. ति ॥ विशेषगुणत्वं च भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्र- वत्वान्य गुणत्वम् । अत्र जात्यादावतिव्याप्तिवारणाय विशेष्यम् । गुरुत्वनैमित्तिकद्रवत्वयोरिणाय गुरुत्वेत्या. दि। सांसिद्धिकद्रवत्वसहायाजलेति । संयोगादिवारणाय सत्यन्तम् । भावनायामव्याप्तिवारणायाद्यमन्या. न्तं सत्यन्तघट कसमवायिविशेषणम् । सत्त दिकमादायासम्भववारणाय स्पर्शसङ्ग्रहाय च स्पर्शावृत्तीति । स- सया आदिर्यस्यापरत्वमन्ते यस्येति व्युत्पत्त्या परिमाणपरत्वयोरेव ग्रहणामिति भ्रमवारणायादिपदग्राह्यगुणान् विशिष्य दर्शयति ॥ संख्यापरिमाणेत्यादिना ॥ गुरुत्ववे गावित्यत्र मूले वेगपदं भावनातिरिकसंस्का- रपरं तेन स्थितस्थापकस्यापि परिप्रहः ॥ मुले सामान्यगुणा इति ॥ तत्त्वं च रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदकसंयोगविभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वं। द्रव्यविभाजकतावच्छेद- कं पृथिवीत्वादि तयाप्यतावच्छेदकं च गन्धत्वादि तच्छून्यत्वस्य सङ्ख्यादौ सत्त्वाल्लक्षणसमन्वयः । अत्र जलीयशक्तरूपे वायोरनुष्याशीतस्पर्श च पृथिव्यादिशुकारूपस्पशव्यावृत्तजातिविशेष मानाभावाच्छुक्लरूपानु. ष्णाशीतस्पर्शयोरतिव्याप्तिवारणाय सत्यन्तम् । शब्दविशेषजनकतावच्छदकजात्यवच्छिन्न कठिनात्रयवद्वयविभा- गे तेजोवेगातिशयेऽत्यन्ताग्निसंयोगनाश्यतावच्छेदकवेजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे चान्याप्तिवारणायाव- 83