पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्डः प्रभा. त्तत्रापि योग्यताज्ञानस्य हेतुत्वासंभवेन यद्विशेषयोरिति व्याप्त्यप्रसत्या तद्बलात् शाब्दसामान्ये योग्यता. ज्ञानत्वेन हेतुतासिद्धेस्सुदूरपराहतत्वात् । किञ्च एवं इच्छायाः उत्तेजकत्वानुरोधेनत्यारभ्य योग्यताज्ञानहेतृत्वं युक्तमित्यन्तग्रन्थोऽप्ययुक्तः अनुमिति प्रति समानाकार कनिर्णयात्मकसिद्धः प्रतिबन्धकतायां तादृशसिद्धि का. लीनानुमित:च्छाबलादनुमित्युत्पत्त्या अनुमिातर्जायतामितीच्छाना उत्तेजकत्वेऽपि निरुक्तबाधांनभयप्रतिबन्ध- कतामा तादृशबाधनिर्णयकालीननिरुक्केच्छासहरवलादपि अनुमित्युत्पादत्य कस्याप्यननुमततया अलीकत्वेन तत्र ताशेच्छानां उत्तेजक मानाभावः । यदिच बाधनिश्चय सत्वेऽपि प्रत्यक्षं जायतामितीच्छासत्त्वे विशि- प्रत्यक्षोत्पत्त्या तद्विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति इच्छाविरहविशिष्टबाधनिश्चयत्य अनुमितित्वावच्छिन्नं प्रति केवल बाधनिश्चयस्य प्रतिवन्धकरवे व कव्ये तत्र लाघवात् शाब्दत्वावच्छिन्नं प्रति योग्यताज्ञानस्यैव हेतुत्व स्वीकि- यत इत्याशय इत्युच्यत तथापि तादृश्यबाधनिश्चयोत्तर लौकिकसन्निकधजन्यस्य दोपविशेषजन्यस्य च विशिष्टप्रत्य- क्षस्येवोत्पत्त्या व्यभिचारवारणाय प्रतिबध्यतावच्छेदकोटी लोकिक सन्निकषीजन्यत्वदोषविशेषाजन्यत्वे निवेश्य तादृशाविशेषणविशिष्ट प्रत्यक्षत्वावच्छिन्नं प्रतीच्छाविरहविशिष्टवानिधयस्य अनुमितित्वरूपप्रत्ये कधीवच्छि. नं प्रति केवलयाधनिश्च यस्य प्रतिवन्धकत्वं वाच्यम् । एवंन अनेक प्रतिवध्यप्रतिबन्ध कभावकल्पनापेक्षया त. दभावानामनेके कारणत्वकल्पनापेक्षया शाब्दबंध योग्यता ज्ञानस्य हेतुत्वान्तरकल्पनापेक्षया च लाधवा- लौकिकसनिकजन्यदोषविशेषाजन्यानाहायविशिघ्युद्धिवम्यैव निरुक्तबाधनिर्णय प्रतिबध्यतावच्छेदकत्वाव- श्यकतया तादृश बमस्य शाब्दबोध साधारण्यात् शाब्दबोधे अयोग्यतानिश्चयस्यैव पृथक् प्रतिबन्धक- त्वकल्पनाप्रयुक्तगौरवाभावेन उक्तरीत्यापि तत्र योग्यताज्ञान हेतुत्वस्यायुक्तत्वात् । एवं नच योग्यता ज्ञानस्य हेतुत्येत्यारभ्य अतिगौरवार्थत्यन्त ग्रन्थोऽप्यलग्नः योग्यताज्ञानहेतुतापक्षे तदभाववति तत्प्रका- रकत्वाभावाप्रकारकत्वे सति तत्प्रकारकज्ञानस्वरूप प्रामाण्यनिश्चयत्वावच्छिन्न प्रतियोगिताकाभावविशिष्टयो । ग्यताज्ञानवेन योग्यताज्ञानविशिटनिरुक्ताप्रामाव्यनिश्च यत्त्रावाच्छन्न प्रतियोगिताकाभावत्वेन वा हेतु. तेत्यत्र विनिगमनाविरहेण गुरुतरकार्यकारणभावद्वयापत्त्या अति गोरवेण लाघवलेशस्य अप्रसक्तः । यचोक्त अयोग्यतानिश्चयरूपबाधनिश्चयस्य प्रतिबन्धकरवे तदभावाभाविति तदभावप्रकारकं तद्वति तदभावप्रकारक दिनकरीयम् . प्रामाण्यज्ञानामावविशिष्टायोग्यतानिश्रयाभावस्य हेतुत्वे लाघवामति वाच्यम् । योग्यताज्ञानस्य हेतुत्वे त. दभावति तत्प्रकारकमित्य कविधाप्रामाण्य प्रहामावनिवेशेन लाघवात् । अयोग्य तानिश्चयस्य प्रतिबन्धक- वे तु तदभावाभाववति तदभावप्रकारकं तद्वति तदभाव प्रकार कामति द्विविधाप्रामाण्यग्रहाभावनिवेशेन प्र- तियोगितासम्बन्धावच्छिन्न प्रतियोगिताकतदभाववत्यभावे प्रतियोगितासम्बन्धेन तत्प्रकारकमित्यप्रामाण्यप्र- रामरुद्रीयम् . श्वयाभाववन कारणत्वेऽपि निश्चयत्वांशनिवेश आवश्यक एवं तथापि तदप्रकार कत्ले सति तदभावप्रकारक. स्वरूपायोग्यतानिश्चयत्वापेक्षया तदभाववति तत्प्रकारकत्वरूपाप्रामाण्याभाववति सादृशाप्रामाण्यप्रकारकत्व- रूपाप्रामाण्यनिश्चयत्वस्य गुरुतया अयोग्यत्तानिश्चयत्वमेव कारणतावच्छेदककोटौ निवेशयितुमुचितमिति भावः ॥ योग्यताज्ञानस्य हेतुत्व इत्यादि ॥ भूतलं घटव दित्यादिशाब्दबोधे भूतलविशेष्य- कघटप्रकारकज्ञानं कारणम् । तत्र चाप्रामाण्यज्ञानं घटाभाववति घटप्रकारकमित्येकविधमेव । भूतलविशेष्य- कघटाभावप्रकारकनिश्चयधर्मिकं चाप्रामाण्यज्ञानं घटाभावाभाववति घटाभावप्रकारक घटवति घटाभावप्रका- रकं प्रतियोगितया घटाभाववत्यभावे प्रतियोगितया घटप्रकारकमिति त्रिविधम् । तथाच त्रिविधाप्रामाण्य- ज्ञाननिवेशापेक्षया एकविधाप्रामाण्यनिश्चयाभाव एव लाघवामेति भावः । एवं यत्र तदभावनिश्चयः प्रति-- बन्धकस्तत्र तदभावव्याप्यवत्तानिश्चयः तदभावावच्छेदकत्वेन गृहीतो यो धर्मः तन्निश्चयः प्रतिबाधक इति ताइशनिश्वयाभावस्य कारणता अयोग्यत्वनिश्चयाभावहेतुतावादिना कल्पनीया । योग्यताज्ञानहेतुतावादिना तु न कल्पनाया । तादृशान्यतमनिश्चयसत्त्व योग्यताज्ञानरूपकारणविरहादेव शाब्दबोधवारणसंभवादिति