पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. मिति द्विविधाप्रामाण्यग्रहाभावात्य प्रतियोगितासंवन्धावच्छिन्न प्रतियोगिताकतदभावाभावविशेध्यकं प्रति- योगितासंबन्धन तत्प्रकारकमित्यप्रामाण्यग्रहाभावस्य च प्रतिबन्धकतावच्छेदककोटिप्रवेशेन गौरवमिति त- दप्य सङ्गतं यादृशानामाण्यज्ञानव्यक्तीना उत्तेजकत्वं सर्वानुमतं तत्तदप्रामाण्यज्ञानव्यक्तित्त्वावच्छिन्नसमवाय - संबन्धावच्छिन्नप्रतियोगिताकाभावकूटस्य एककालावच्छिन्नैकात्म यत्तित्वसंबन्धेन प्रतिबन्धकीभूतबाधनिश्चय विशेषणस्वेऽप्येककालावच्छिन्नत्वघटितनिरुक्तसंबन्धेन तादृशाभाबकूटविशिष्टबाधनिश्चयत्वावच्छिन्न समवायसं. वधावच्छिन्नप्रतियोगिताकाभावरूपप्रतिबन्धकामावस्यकव्याक्तितया तस्य निरुक्तगुरुरूपेण हेतुत्वेऽपि कार्यका- रणभावद्वयकल्पनापेक्षया लाघवस्यानपायान्निरुतप्रतिबन्धकाभावस्य स्वरूपसंबन्धरूपताक्तित्वात्मकलधुध. मेंण हेतुतासंभवाच्च । नचैतन्मते तत्तदप्रामाण्यज्ञानव्यक्त्यभावकूटविशिष्टवाधनिश्चयत्वेन वाधनिश्चयविशिष्ट तादशाभावकूटत्वेन वा प्रतिबन्धकतेत्यत्र विनिगमनाविरहात् प्रतिवध्यप्रतिबन्धकभावद्वयापत्तिरिति वाच्य. म् । बाधनिश्चयविशिष्टतादृशाभावकूटस्य प्राह्याभावाद्यनवगाहित्वेन प्रतिबन्धकत्वाप्रसक्त्या विनिगमनाविरहप्र. युक्तप्रतिबध्यप्रतिबन्धकमावदयापत्तेः सुदूरपराहतत्वात् । न चैवमपि तादृशकूटविशिष्टबाधनिश्चयाभावस्य तत्त. यक्किावेन बाधनिश्चयविशिष्टनिरुक्ताकूटाभावस्य तत्तयक्तित्वेन वा हेतुतेत्यत्र विनिगमनाविरहात् कार्यकारणभा- वद्वयापत्त्या अतिगौरवप्रसङ्ग इति वाच्यम् । निरुक्ताभावयोः समनियतत्वेन एकतया तनिष्ठतब्यक्तित्वस्याप्ये- कत्वेन कारणतावच्छेदकद्वयाप्रसक्तथा सुतसं कार्यकारणभावद्वयाप्रसके । नचाभावयोरक्ये कारणीभूताभावप्र- तियोगित्वेन बाधनिश्चयविशिष्टोत्तेजकाभावकूटम्यापि प्रतिवन्धकत्वात्तिरिति वाच्यम् । प्रकृतेतु कारणीभू- ताभावीयसमवायसंबन्धावच्छिन्न प्रतियोगिकत्वस्यैव प्रतिबन्धकत्वपदार्थत्वेन निरुक्ताभावकूटनिष्टप्रतियोगि- त्वस्य समवायसंबन्धावच्छिन्नत्वाभावात् तादृशकूटस्य प्रतिबन्धकत्वापत्तेरभावात् । यच्चोकं बाधनिश्चयस्य प्रतिबन्ध कतामते बाधनिश्चयस्येव तदभावव्याप्यतदभावावच्छेदकनिश्चययोरपि प्रतिबन्धकत्वावश्यकतया अतिगौरवापत्तिरिति तदप्यसङ्गतं योग्यताक्षानहेतुतामतेऽपि योग्यताज्ञानोत्तरं बाधनिश्चयासंभवेऽपि तदभाव- व्याप्यवत्ताज्ञानादिकं प्रति योग्यताज्ञानस्याविरोधितया तदुत्तरं तदभावव्याप्यवत्तानिर्णयाद्युत्पत्तौ बाधका- भावेन यत्र योग्यताझानोत्तरं तादृशनिर्णयाद्युत्पत्तिः तत्र तदुत्तरं शाब्दबोधापत्तिवारणाय तादृशशाब्दबोध प्रति तदभावव्याप्यवत्तानिश्चयादेः प्रतिवन्धकत्वावश्यकत्वात् । अपिच योग्यताज्ञानस्य शाब्दवोधाजनक- स्वेत्यारभ्य लाघवमित्याद्यवसेयमित्यन्तग्रन्थोऽप्यलग्नः । बाधनिश्चयाभावटितयोग्यताशाब्दसामग्रीकाले यो- ग्यताज्ञानस्य अनावश्यकतया यत्र योग्यताज्ञानाभावस्तत्र तादशज्ञानाभावविशिष्टात्ममानसापत्तिवारणाय तादृशसामन्याः प्रतिबन्धकत्वावश्यकतया गौरवम् योग्यताज्ञानस्य हेतुत्वे तु तदानी योग्यताज्ञानाभाव- रूपविषयाभावादेव न मानसप्रत्यक्षापत्तिरिति शाब्दसामन्याः प्रतिबन्धकरवाकल्पनेन लाघवमित्यपि न ' आत्म- नि वर्तमानाः यावन्तः पदार्थाः तत्तत्प्रकारेण आत्ममानसत्वावच्छिन्न प्रति शाब्दसामग्याः पृथक् प्रतिव- दिनकरीयम् . हाभावनिवेशेन च गौरवात् बाधनिश्चयस्येव तदभावव्याप्य तदभावावच्छेदकनिश्चययोः प्रतिबन्धकत्वेनाति- गौरवाचेति । एवं योग्यताज्ञानस्य शाब्दबोधाजनकत्वे शाब्दसामग्री काले योग्यताज्ञानाभावविशिष्टात्ममान- सवारणाय तत्र शाब्दसामन्याः प्रतिबन्धकत्वं कल्पनीयमिति गौरवात् । योग्यताज्ञानस्य शाब्दबोधजनकत्वे तु तत्र योग्यताज्ञानाभावरूप विषयाभावादेव न तादशभानसमिति तत्र शाब्दसामीप्रतिबन्धकत्वं न कल्य्यत रामरुद्रीयम् . लाघवमित्याह ॥ वाधनिश्चयस्येवेति ॥ शाब्वाधाजनकत्व इति ॥ अयोग्यताज्ञानाभावस्यैव शा. ब्दबोधकारणत्वपक्ष इत्यर्थः ॥ शाब्दसामग्रीकाले । अयोग्यतानिश्चयाभावघटितसामग्रीसत्त्व इत्यर्थः ।। योग्यताज्ञानाभावेति ॥ एकपदार्थे अपरपदार्थप्रकारकज्ञानाभाववानहामिति मानसप्रत्यक्षं प्रति भूतलं घटवादित्यादिशाब्दसामन्या: प्रतिबन्धकत्वं कल्पनीयमित्यर्थः । भिन्नविषये शाब्दसामग्या बलवत्त्वादि- ति भावः । न कल्पनीयमितीति ॥ योग्यताज्ञानघटितशाच्दसामग्रीसत्त्वे तदभावरूपविषयाभावादेव