पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ६२९ व बोधो न तु पिधानादिरूपार्थज्ञानात् । पदजन्यतत्तत्पदार्थोपस्थितेस्तत्तच्छाब्दबोधे हेतुत्वा- त् । किञ्च क्रियाकर्मपदानां तेनैव पदेन सह साकाङ्कत्वात् तेन क्रियापदं विना कथं बो- प्रभा. तुता नतु तच्छाब्दयोधे तादृशतद्धर्मज्ञानत्वेन गौरवात् ताइशसंसर्गज्ञानाभावेऽपि संसर्गशाब्दबोधो- दयेन व्यभिचाराच्च । नचैव प्रत्यक्षादिना उपास्थतघटादेरपि शाब्दबोधापत्तिरिति वाच्यम् । शाब्दसा- मान्यसामग्रीसत्वे घटादिवोधतात्पर्यज्ञानसत्त्वे इष्टत्वादिति वदन्ति तन्मतं दूषयति ॥ इदं त्विति ॥ तु अवधारणे अनुपदं वश्यमाणमेवेत्यर्थः ॥ वोध्यमिति ॥ शाब्दसामग्रीघटकत्वेन स्वीकार्यमित्यर्थः तदेवा- ह ॥ यत्रेति ॥ शाब्दबोधविषयकयादृशतात्पर्येणेत्यर्थः ॥ इत्युक्तमिति ॥ इति वाक्यमुच्चरितमित्यर्थः ॥ तत्रेति ॥ तादृशतात्पर्य इत्यर्थः । सप्तम्यर्थो विषयत्वं तस्य बोधे अन्वयः ॥ पिधेहीत्यादि । आदि- ना विसृजेत्यादिपरिग्रहः । ज्ञानादेवेसन एवकारव्यवच्छेद्यार्थमाह ॥ न स्विति । अप्यर्थकतुशब्दः ज्ञाना- दित्युत्तरं योज्यः ॥ पिधानरूपेति ॥ वृत्तिज्ञानसहकृतपदज्ञानजन्यपिधानरूपार्थज्ञानादपीत्यर्थः । केवलपदा- थंज्ञानस्याहेतुत्वे कारणतावच्छेदकधर्मशून्यत्वरूपहेतुमाह ॥ पदजन्येति ॥ वृत्तिज्ञानसहकृतपदज्ञानजन्ये- सर्थः ॥ पदार्थोपस्थितेरिति ॥ इदं च सावधारणं पदार्थोपस्थितेरेवेत्यर्थः ॥ शाब्दबोधहेतुत्वादि- ति ॥ तथाच वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थज्ञानत्वस्यैव शाब्दबोधकारणतावच्छेदकतया प्रत्यक्षादिना पदार्थज्ञानस्यैव निरुक्ककारणतावच्छेदकानाक्रान्ततया न कारणत्वसंभव इति भावः । ननु निरुक्तपदार्थज्ञान- त्वं न शाब्दकारणतावच्छेदकं गौरवात् किन्तु केवलपदार्थज्ञानत्वं । नचैवमुक्तदोषापत्तिः सति तात्पर्ये पदा- र्थद्वयसंसर्गस्येव प्रत्यक्षादिना उपस्थितपदार्थस्यापि बोधे बाधकामावादित्यत आह ॥ किञ्चेति ॥ किया- कर्मपदानामिति ॥ क्रियापदानां कर्मपदानामित्यर्थः । लोडन्तानयनपदादीनां द्वितीयान्तघटप दादीनामि- ति यावत् ॥ तेनैव पदेन सहेति ॥ आनयनपदेनैव द्वितीयान्तघटपदस्य द्वितीयान्तघटपदेनैव आङपूर्व- कनयपदस्य साकाङ्घत्वात् अन्यथा घटमानयनंकृतिरिति वाक्यात् घटः कर्मत्वमानयेत्यादिवाक्यादपि घ- टकर्मकानयनानुकूलकृतिमानिति शाब्दबोधापत्तरिति भावः ॥ साकाङ्क्षत्वादिति ।। परस्परसमभिव्याहा. रज्ञानेन शाब्दबोधप्रयोजकत्वादित्यर्थः ॥ तेनेति ॥ क्रियापदं विना कारकपदस्याभिमतशाब्दबोधजनना- समर्थत्वेनेत्यर्थः ॥ क्रियापदं विनेति ॥ प्रकृत इत्यादिः । लोडन्त अपीत्युपसर्गसमभिव्याहृतधाधातुपदं वि- दिनकरीयम. प्राभाकरमतं दूषयति । इदं तु बोध्यमित्यादिना ॥ पद्जन्येति ॥ पदार्थोपस्थितिमात्रस्य हेतुत्वे प्रत्यक्षा- दिनोपस्थितस्यापि शाब्दबोधापत्तिरिति भावः । ननु प्रत्यक्षोपस्थित कलशपटादेः शाब्दबोधाभावस्तात्पर्याभा- वात् तत्सत्त्वे त्विष्टापत्तिरत आह ॥ किश्चेति ॥ तेनैवेति॥द्वारं कर्मत्वं पिधानं कृतिरिति वाक्यात द्वारकर्मकपि. रामरुद्रीयम् . हीति पदज्ञानं विना पिधानविषयकशाब्दबोधानुपपत्तेः पदाध्याहार आवश्यक इत्युक्तम् । तत्र सङ्गच्छते । लाघवात् पदार्थोपस्थितित्वेनैव शाब्दबोधं प्रति कारणतायास्तैरङ्गीकारादित्यतस्तद्भावमाह ॥ पदार्थोप- स्थितिमात्रस्यति ॥ प्राभाकरैयत्किञ्चित्पदार्थोपस्थितिसत्त्व एव तत्सहकृतपदजन्यपदार्थस्मरणाच्छाब्द. बोधः स्वीक्रियते न तु यत्किञ्चत्पदज्ञानं विनापि शाब्दबोधः स्वीक्रियते । एवञ्च पदार्थोपस्थितित्वे- नैव शाब्दबोधहेतुत्वे प्रत्यक्षादिनोपस्थितानां तत्तत्पदार्थानां पदज्ञानं विनैव शाब्दबोधापत्तिरिति मू. लाभिप्राय इति भावः ॥ तात्पर्याभावादिति ॥ तात्पर्यज्ञानस्यापि शाब्दबोधहेतुत्वोपगमाद्वक्तु. रिच्छाया एव तात्पर्यरूपत्वात् किञ्चित्पदस्याप्यनुच्चारणे वक्तुरिच्छारूपतात्पर्यस्यैवासम्भवादिति भावः । यत्किञ्चित्पदोचारणस्थले त्वध्याहृतार्थान्तरविषयकशाब्दबोधोऽपि तत एवेत्याह ॥ तत्सत्त्वेऽपीत्या- दिना ॥ ननु कारकपदस्य क्रियापदं विना शाब्दबोधजनकत्वे द्वारं पिधानं कृतिरित्यत्रापि द्वारकर्म- कपिधानानुकूलकृतिविषयकशाब्दबोधापत्तिरिति क्रियापदं विना कारकपदस्य शाब्दवोधाजनकत्वमुपेयम् । तथाच क्रियापदाध्याहार आवश्यक इति किंञ्चत्यादिमूलाशयः न संभवति द्वारमित्युक्ते प्रत्यक्षादिनोप.