पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड: अनवोपपत्तेरिति । इदं तु बोध्यम् । यत्र द्वारमित्युक्तं तत्र पिधेहीति पदस्य ज्ञानादेव प्रभा. गतावच्छेदकप्रकार कनिर्णय सत्त्वात् न काप्यनुपपत्तिरिति भावः । केचित्तु अत्रेदं बोध्यम् । यत्र खण्डवाक्यार्थ- बोधानन्तरं चरमपदस्मृतिः तदुत्तरं तदर्थस्मतिः तत्र खण्डवाक्यार्थानुभवस्य नाशात् समूहालम्बनस्मरणमावश्य. कं एवंच यत्र न विशिष्टवैशिष्टयावगाहिबोधसामग्री तत्र विशेष्ये विशेषणमिति रीत्यैव बोधः यत्र तत्साम- प्री तत्र विशिष्टस्य वैशिष्टयमिति रीत्येव बोध इत्यन्यत्र विस्तर इत्याहुः तदसत् । यत्र खण्डवाक्यार्थबोधा. नन्तरं चरमपदस्मरणपूर्वकं तदर्थस्मरणं तत्रापि तादृशस्मरणस्य खण्डवाक्यार्थबोधसमान प्रकारकसमानवि- शेष्य कस्मरणरूपत्वस्वीकारण समूहालम्बनस्मरणरूपत्वाजीकारस्यावश्यकतया सर्वत्र विशिष्टवैशिष्ट्यवोधसा- मग्रीसमवधानावश्यकतया यत्र विशिष्टवैशिष्ट्यबोधसामग्री नास्ति तत्र विशेष्ये विशेषणमिति रीत्यैव बोध इति प्रन्थस्य नियुक्तिकत्वेनाश्रद्धेयत्वादिति । नच नवीनमते अवान्तरबोधोत्तर महाशाब्दबोधस्वीकारे सकृ- दुच्चरित इत्यादिनियमविरोध इति वाच्यं । प्राचीनमते एकदोच्चरितशब्दस्यार्थस्मृतिशाब्दबोधोमयजनकत्वेन नियमभन वारणाय सकृदर्थं गमयतीत्यस्य एकशाब्दबोधं जनयतीत्यर्थ कत्वावश्यकतया सकृदुचरितशब्दः ए. कदा महाशाब्दबोधं जनयतीत्यर्थकरणेन नवीनमतेऽप्युक्तनियमभङ्गप्रसङ्गवारणसंभवात् । अन्न एतन्मते क्वचि- पदार्थस्मृतिमात्रस्य कचित्पदार्थस्मृत्य नन्तरकालीनावान्तर शाब्दबोधस्य कचिदवान्तरशान्दवोधनाशकाली- नतादृशशाब्दबोधसमानप्रकारकस्मरणस्य च व्यापारत्वं कल्पनीय व्यापारस्वघटकपदज्ञानजन्य त्वमवान्त- स्वोधसाधारण्याय साक्षाजन्यत्वमपहाय प्रयोज्यत्वरूपमेव वाच्यमिति गौरवमित्यस्वरसं हदि निधायाहुरि- त्युक्तमिति ध्येयम् । मीमांसकैकदेशिनस्तु शाब्दसामान्य प्रति वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थज्ञानत्वेन हे. दिनकरीयम्. कारणं न तु समूहालम्बनस्मृतिः । न हि शाब्दबोधे पदजन्यपदार्थोपस्थितिः कारणम् । लाघवेन पदार्थो- स्थितेरेव हेतुत्वात् । अत एव द्वारमित्यादौ न पिधेहीति पदाध्याहारः किन्त्वर्थाध्याहार एवेति ।। रामरुद्रीयम् . कवर्णसमुदाय एव स्वीकरणीया न तु प्रत्येकम् । तथा सति एकैकवर्णादप्यर्थप्रतीत्यापत्तः। वर्णानां चास्थिरत्वे- न पर्याप्त्यधिकरणीभूतसमुदायस्य कदाप्य सत्त्वेन क्रमिकवर्णसमुदायात्मकपदे न वाचकतापर्याप्तिसम्भव इति स्थिरपदस्फोट एव तत्तदर्धवाचकत्वेन स्वीकरणीय इति वदन्ति तदपि न विचारक्षमम् । यतो हि न वाचकत्वं समवेत तत्समवायिकारण वर्ण समुदाय इति न ब्रमः । येन समवायिकारणस्य कार्यकालवृत्तित्वेन कारणतया झमिकवर्णसमुदाये वाचकत्वं समवायनोत्पत्तुमर्हतीत्यनुपपत्तिः स्यात् । सगुदायस्यैकस्मिन् क्षणेऽस- स्वात्। किन्तु तत्तदर्थविषयकबोधजनकत्वेन भगवदिच्छाविषयत्वमेव तत्तदर्थवाचकत्वम् । तच क्रमिकेष्व-- पि वर्णेषु सम्भवत्येव । न चास्माच्छब्दादयमों बोद्धव्य इति भगवदिच्छायास्तद्विषयताया वा वा- चकवरूपत्वेन नैयायिकरभ्युपगमात् तत्र जन्यत्वस्य पञ्चम्यर्थत्वात् वर्णसमुदायस्य ज्ञानरूप कार्यान्यवाहे. तप्राक्क्षणेऽसत्त्वात् ईश्वरेच्छाया अपि विसंवादित्वापत्तिरिति अस्माच्छन्दादित्यस्य एतच्छब्दाभिव्यक्त स्फोटादित्येवार्थो वक्तव्य इति वाच्यम् । नव्यानां मते पदस्यार्थबोधाजनकत्वेन ज्ञानजन्यत्वस्यैव पञ्चम्यर्थ- स्वेनोपगन्तव्यत्वात् । वस्तुतस्तु वर्णसमुदायस्य न पदत्वं किंतु पूर्वपूर्ववर्णोत्तरचरमवर्णस्यैव । तस्य च ज्ञा. नरूपकार्याव्यवहितपूर्वक्षणवृत्तित्वं सम्भवत्येवेति नानुपपत्तिगन्धोऽपि ॥ मूले तद्वयञ्जकेनैवेति ॥ पू. पंपूर्ववर्णानुभवजनितसंस्कारसहितचरमवर्णानुभवस्यैव स्फोटव्यजकत्वेन वैयाकरणस्वीकारात्तद्वयजकत्वेन भ- वदभिमतेनेत्यर्थः ॥ उपपत्तेरिति ॥वर्णसमुदायात्मकपदस्मरणोपपत्तेरित्यर्थः । कोटव्यजकत्वेन भवदङ्गीकृ- तस्यैव यावदर्थविषयकसंस्काराणामुद्बोधकत्वेनास्माभिरुपगन्तव्यत्वादिति भावः ॥ न तु समूहालम्ब- नेति ॥ पूर्वोक्तरीत्या समूहालम्बनपदस्मरणजन्ययावत्पदाधविषयिणी खण्डवाक्यार्थस्मृतिरित्यर्थः । नन्वेवं पदजन्यतत्तत्पदार्थस्मरणं विना तत्तत्पदार्थविषयकशाब्दवोधः कथमुपपद्येत खण्डवाक्यार्थविषयकस्मरणस्य पदजन्यत्वाभावादित्यत आह ॥ नहीत्यादि ॥ मूले पदजन्यपदार्थोपस्थितेः तच्छाब्दबोधहेतुतया पिधे-