पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । - तीति केचित् । वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत् पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति । अपरे तु यद्यदाकाङ्कितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते ।। प्रभा. मतमादौ दर्शयति ॥ परन्त्विति ॥ तावत्पदार्थानां स्मरणादिति ॥ तावत्पदार्थविषयकैकस्मरणा- दित्यर्थः ॥ एकदैवेति ॥ एककाल एवेत्यर्थः । एकस्मिन् काले अवान्तरशाब्दवोध एकस्मिन् काले महावाक्या- र्थबोध इति रीत्या कालथे शाब्दबोधो नाङ्गीक्रियत इति फलितोऽर्थः। क्वांचे पुस्तके एकधैवेति पाठः स तु ए. कप्रकारविशिष्ट एव नत्ववान्तरवोधत्वन हाबोधत्वरूपप्रकारद्वयविशिष्ट इत्यर्थकरणेन समर्थनीयः । कचित्पुस्तके ए. क एवेति पाठः एक एव शाब्दबोधः नतु अवान्तरशाब्दयोधमहाशाब्दबोधाभयमित्यर्थ इत्यर्थकरणेन सोऽपि सु. मर्थनीयःखले कपोतन्यायेनेति । एतन्न्यायार्थस्तु अनुपदं वक्ष्यते ॥तावत्पदार्थानामिति ॥ समूहाल. म्बनस्मृतिविषयतावत्पदार्थानामित्यर्थः ।। क्रियाकारकभावेनेति । विशेष्ये विशेषणमिति न्यायेनैवेत्यर्थः॥ अन्वयरूपेति ॥ तात्पर्यविषयो यः पदार्थद्वयसंसर्गः तद्विषयकेत्यर्थः ॥ इति केचिदिति ॥ वदन्तीति शेषः। इति प्राचो बदन्तीत्यर्थः । उक्तार्थे उदयनाचार्यसम्मतिमाह ॥ वृद्धा इति ॥अत्र वृद्धयुवशिशुकपो- तैस्सह पदद्वयव्यवहितैकपदमात्रव्यवाहिताव्यवहितपदोपस्थापितपदार्थानां साम्यं बोध्यम् ॥ खले युगप.. त्पतन्तीति ॥ एककालावच्छेद्यखलवृत्तिसंयोगजनकक्रियानुकूलयनवन्त इत्यर्थः । नचैवं खले पतनक्रि- याजन्यसंयोगरूपफलाश्रयत्वरूपकर्मत्वापत्तिरिति वाच्यम् । खलस्य तदाश्रयत्वेऽपि तद्वत्त्वेन ईप्सिततमत्वाभा. वात् धात्वर्थतावच्छेदकफलशालित्वमेव कर्मत्वमिति नवीनमते पतृधातोः अकर्मकत्वेन केवलकियार्थकतया फलावच्छिन्नव्यापारार्थकत्वाभावेन धात्वर्थतावच्छेदकफलाप्रसिद्धया खलादेस्सुतरां कर्मत्वापत्तेरभावात् ॥ तथै- वेति ॥ वृद्धयुवशिशुकपोतानां एककालावच्छेदेन खलपतनवदित्यर्थः । सर्वे पदार्थाः परस्परेण युगपदन्व थिनो भवन्तीति योजना ॥ सर्व पदार्था इति ॥ पदद्वयादिव्यवहितपदोपस्थापिताः एकपदमात्रेण व्य- वहितपदोपस्थापिता अव्यवहितपदोपस्थापिताश्च पदार्था इत्यर्थः । परस्परेणेति ॥ विशेषणविशेष्यभा- वेनेत्यर्थः । अभेदे तृतीया तस्य अन्वयपदार्थैकदेशे विषयतायामन्वयः ॥ युगपदिति ॥ अवान्तरशाब्द. वोधोत्पत्तिसमय इत्यर्थः ॥ अन्वायनो भवन्तीति ॥ शाब्दवोधनिरूपितविषयतावन्तो भवन्तीत्यर्थः । इत्युदयनाचार्योक्तरिति शेषः । इदानीं प्राचीनमते नानापदविषयकै कस्मरणकल्पने चरमवर्णज्ञानस्य तदुद्रोध- कत्वकलपने नानापदार्थविषयकैकस्मरणकल्पने च गौरवरूपमस्वरसं हृदि निधाय नवीनमतमाह ॥ परे विति ॥ वक्ष्यमाणस्वसिद्धान्ते अप्रामाणिकत्वशङ्कानिरासाय आदौ कणादसूत्रभाष्यकर्तृणां प्रशस्तपादाचा. दिनकरीयम् . जन्यपदार्थोपस्थितीनामपि मेलनासम्भवात् सर्वत्र शाब्दबोधे पदजन्यपदार्थोपस्थितिः समूहालम्बनात्मिकैव कारणम् । एवञ्च सर्वत्र युगपदेव सकलपदार्थानां विशेष्ये विशेषणमिति न्यायेनैव शाब्दबोधो न तु विशिष्टस्य वैशिष्टयमिति रीत्या तजनकविशेषणतावच्छेदकप्रकारकनिर्णयस्य पूर्वमभावादिति । प्राचीनमतं दर्शयति ॥ परं वित्यादिना ॥ एकदैवेति ॥ नतु घटमा नये त्यादौ प्रथमं घटीया कमतेवन्वयबोधस्तदनन्तरं च घटकर्मकानयनमित्यादिबोध इत्यादिक्रमेणेत्यर्थः । वृद्धा युवान इत्यस्य तदाहुरियादिः । अत्र वृद्धयुवशि- शुभिः कपौतैश्विरतरचिरसन्निहितकालोकानां पदार्थानां साम्य बोध्यम् । केचिदित्यनेन सूचितमस्वरसं प्रका- शयन् मतान्तरमाह ॥ अपर स्विति ॥ यद्यदिति । स्वार्थाकाङ्कितं स्वार्थ योग्यं यद्यत् सनिधान रामरुद्रीयम् . इत्यादिश्लोकस्य मूले पाठात् तत्रान्वयानुपपत्तिं मन्यमानः पूरयति ॥ तदाहुरित्यादििित ॥ चि- रेति ॥ प्रथमोक्तपदार्थस्य वृद्धसाम्यं द्वितीयोक्तस्य तस्य युवसाम्यं सन्निहितोक्तस्य शिशुसा- म्यमिति भावः ॥ स्वार्थत्यादि ॥ स्वं घटादिपदं तस्यार्थी घटादिः तेनाकासितं तदुपस्थितिजन्यकिङ्गटी. 79 -