पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [शब्दखण्ड धः स्यात् । तथा पुष्पेभ्य इत्यादी स्पृहयतीत्यादिपदाध्याहारं विना चतुर्थ्यनुपपत्तेः पदाध्या- प्रभा. 1 नेत्यर्थः । कथं बोधस्स्यादिति ॥ द्वितीयान्तद्वारपदमात्रेणेत्यादिः । उक्तदोषवारणाय क्रियापदरामभिव्या- हतकारकपदस्थवाभिमतशाब्दबोधनिर्वाहकरवेन पिधेहीति शब्दाध्याहारं विना द्वारकर्मकपिधानानुकूलकृति- मानिति शाब्दबोधासंभवाच शब्दाध्याहार आवश्यक इति भावः । नच पिधहीत्यत्र धाधातोः अपिपूर्वकत्वे अ. कारस्य अदर्शनं कुत इति वाच्यम् । वष्टि भागुरिरहोपमवाप्योरुपसर्गयोरित्यनुशासनेन उपसर्गयो: अवापीतिश- ब्दया: अलोपं अत: अकारस्य लोपं भागुरिरितिनामकः कथन ऋषिः वष्टि इच्छति इत्यर्थकन पिधेहीत्यत्र अकारस्थ लोप इति ध्येयम् । ननु घटाकर्मत्वमानयनंकृतिरितिवाक्यादभिमतशाब्दबोधापत्तिवारणाय ता- दृशशाब्दवाधापयिकाकालादिमद्यत्किञ्चित्पदज्ञानत्वेन हेतुत्वं स्वीक्रियते तावतैव प्रथमान्तघटपदादेः तादृश- स्वाभावेनैव तादृशशाब्दबोधवारणसंभवात् । नचैव द्वारं पिधानं कृतिरिति वाक्यात द्वारं कर्मत्वं पिधेहीति वाक्यावा तादृशशाब्दबोधापत्तिस्तदवस्थैव तादृशयत्किंचित्पदज्ञानरूपकारणसत्त्वादिति वाच्यम् इष्टापत्तेः प्र. त्यक्षादिना घटाद्यपस्थितरिव अनाकाहितपदज्ञानजन्यार्थीपस्थितेरपि शाब्दबोधहेतुत्व स्वीकारादित्यत आह ।। तथेति ॥ किञ्चेतिवत् तथेति दूषणान्तरद्योतकमिति ध्येयम् ॥ पुष्पेभ्य इत्यादाविति ॥ इत्यादिवाक्य इत्यर्थः आदिपदात् शत्रच वञ्चकायेत्यादिपरिग्रहः सप्तम्यर्थी घटकत्वं तस्य चतुर्थनुपपत्तरित्यत्र चतुर्थीविभक्तावन्वयः ।। इत्यादिपदाध्याहारमिति ॥ इत्यादितिङन्तपदाध्याहारमित्यर्थः । आदिषदात् क्रुध्यति द्रुह्यतीत्यादेः प. रिग्रहः ॥ चतुर्थ्यनुपपत्तरिति ॥ स्पृहेरोप्सित इति सूत्रेण स्पृहार्थकधातुयोगे ईप्सितः सम्प्रदानसंज्ञस्या दित्यर्थकेन पुष्पेभ्य इत्यत्र चतुर्थी वाच्या अर्थाध्याहारपक्षे तिङन्तस्पृहार्थकधातुयोगाभावात् चतुर्थी न स्या- दिनकरीयम् . धानान्वयबोधानु इयात् द्वारं पिधेही त्यानुपूर्वीकपाकाला ज्ञान हेतुत्वस्यावश्यं वाच्यतया तादृशाकाहाज्ञानार्थ पि- धेहीति पदाध्याहार आवश्यक इति भावः । ननु द्वारकर्मकपिधानानुकूलकृतिबोधे आनुपूर्वीविशेषस्य द्वारपदो- त्तराम्पदरूपस्य पिघेहीत्याकारस्य वा ज्ञानं कारणमतो न द्वारे कर्मत्वं पिधानं कृत्तिरित्यस्माच्छाब्दयोधापत्तिः । त. थाच द्वारमित्युक्ते पिधेहीति पदस्य नाध्याहारः । न च तादृशानुपूयोः परस्परं व्यभिचारः । अव्यवहि- तोत्तरत्वस्य कार्यतावच्छेदके निवेशात् । न च यत्र द्वारं पिधानं कृतिरिति द्वारकर्मत्वं पिधेहीति चोकं तत्रापि द्वारकर्मकपिधानानुकूलकृतेः शाब्दबोधापत्तिरिति वाच्यम् इष्टापत्तेः । प्रत्यक्षानुमानादिनोपस्थि- तस्यैव निराकाङ्क्षपदेनोपस्थितस्यापि बोधे वाधकाभावादत आह ॥ तथा पुष्पेभ्य इति ॥ स्पृहयतीत्या. दीत्यादिना क्रुध्यति द्रुह्यति कुप्यति असूयति ईध्यतीत्यादिपरिग्रहः ॥ चतुर्थ्यनुपपत्तेरिति ॥ कर्मत्वा- र्थकचतुर्थ्याः स्पृहयतियोग एवानुशासनेन बोधनादिति भावः । अवेदं चिन्त्यम् । अस्त्वेवरीला क्वचित्प. दाध्याहारस्तावतापि तजन्योपस्थितित्वेन न शाब्दबोधहेतुत्वम् । लाधवेन पदार्थोपस्थितित्वस्यैव तज्जनक- रामरुद्रीयम् . स्थितपिधानादिविषयकशाब्दबाधापगन्तॄणां निराकाङ्कितपदादुपस्थितपिधानादेः शाब्दबोधेऽपाष्टापत्तिसं- भवादित्यतस्तात्पर्य वर्णयति ॥ द्वारमिति ।। तथाच तात्पर्यसत्त्वेऽपि निराकासकलपदस्थले शाब्दबोध- स्यानुभवविरुद्धत्वेन द्वारकर्मकपिधानानुकूलकृतिशाब्दबोधे द्वार पिधेहीत्या नुपूर्वाज्ञानस्य हेतुताया आवश्य। कत्वेन क्रियापदानध्याहारे तादृशानुपूर्वीज्ञानाभावेन शाब्दबोधानुपपत्तिरिति क्रियापदाध्याहार आवश्यक इति भावः ॥ध्यतीत्यादि । कुधगुहेासूयार्थधातुयोगे यं प्रति कोपस्तस्य सम्प्रदानसंज्ञाविधानात् सम्प्रदाने चतुर्थीविधानादिति भावः ॥ अनुशासनेनेति ॥ स्पृहि योगे इच्छाविषयस्य सम्प्रदानसंज्ञाविधाना- दिति भावः । इच्छार्थकधातुयोगे तु पुष्पादिपदोत्तरं द्वितीयैव साधुर्न चतुर्थी । तद्योगे इच्छाविषयस्य स. म्प्रदानसंज्ञाया अविधानादतश्चतुर्थीसाधुत्वोपपत्तये स्पृह्यतीति पदाध्याहार आवश्यक इति समुदाय तात्प- यम् । क्वचिदिति । पुष्पेभ्य इत्यादावित्यर्थः । चतुर्थीसाधुत्वोपपत्तये स्पृहयतीत्यादिपदाध्याहारोऽस्वित्य. र्थः ॥ तजन्योपस्थितित्वेनेति ॥ स्पृहादिधातुजन्योपास्थितित्वेनेत्यर्थः । न शाब्दबोधहेतुत्वमि.