पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । 1 i घटलेन रूपेण नानाघटोपस्थितिसम्भवात् । कर्मधारयस्थले तु नीलोत्पलमित्यादावभेदसम्ब- न्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः । तत्र च न लक्षणा । अत एव निपादस्थपतिं था- जयेदित्यत्र न तत्पुरुषो लक्षणापत्तेः । किन्तु कर्मधारयो लक्षणाभावात् । नच निपादस्य सङ्करजातीयत्वेन वेदानधिकाराद्याजनासम्भव इति वाच्यम् । निषादस्य विद्याप्रयुक्तस्तत प्रभा. योज्यः ॥ न लक्षणेति ॥ लक्षणैव नेत्यर्थः । शक्त्यैव अनेकघटबोधसम्भवात् प्रयोजनाभावेन लक्षणा नैव स्वीक्रियत इति भावः । एतदेवोपपादयति ।। घटत्वेनेति ॥ सम्भवादिति ॥ तथाच अनेकघटबोधतात्पर्य- ज्ञानसहकृतेन शक्तिज्ञान महकृतेन घटपदज्ञानेन अनेकघटोपास्थितौं बाधकामावादिति भावः । कर्मधार- यस्थल इति ॥ कर्मधारयत्वञ्च तत्पुरुषत्वे सति समस्यमानपदार्थाभेदवोधकविग्रहकत्वं । बहुव्रीहिवारणाय सत्यन्तं राजपुरुष इत्यादितत्पुरुषवारणाय विशेष्यदळम् । नीलोत्पलमित्याद्यभिन्नकर्मधारय इत्यर्थः । सप्तम्यर्थो घटकत्वं तस्य नीलपदे उत्पलपदे चान्वयः ॥ उत्पलपदार्थ प्रकार इति ॥ उत्पलपदार्थनिष्टविशेष्यता- निरूपितशाब्दबोधीयप्रकारताश्य इत्यर्थः ॥ त्र चेति ॥ इतीत्यादिः । तादृशकर्मधारयेऽपीत्यर्थः । ताशकर्मधारयघटकोत्तरपदेऽपीति यावत् । अप्यर्थकचशब्देन घटा इत्यत्र लक्षणाभावस्समुचीयते । एते. नोकस्थले नीलोत्पलमित्यत्र नीलपदस्य नीलविशिष्टे अभेदसम्बन्धेन बोधानुरोधात् लक्षणाया आवश्यकतया सदपेक्षया उक्तस्थले उत्पलपदस्य नीलविशिष्टोत्पले लक्षणा नीलपदं तात्पर्यग्राहकमित्येव वक्तुमुचितमिति म. तमपास्तं नीलमुत्पलमिति विग्रहघटकनीलपदस्य नीलविशिष्टे लक्षणाया आवश्यकत्वेनात्रापि तत्स्वीकारात् सं. भवति सार्थकत्वे निरर्थकत्वकल्पनाया अन्याय्यत्वाच ॥ न लक्षणेति ॥ तत्पुरुषवहुव्रीह्योरिव पूर्वोत्तरपदयोः न निरूढलक्षणेत्यर्थः । समासप्रयुक्ततादृशलक्षणाया अनङ्गीकारेऽपि अभिमतशाब्दबोधनिवाहादिति भावः ।। अत एवेति ॥ कर्मधारये समासप्रयुक्तलक्षणायाः अनङ्गीकारादेवेत्यर्थः ॥ न तत्पुरुष इति ॥ न बहुब्रोहि. रित्यपि बोध्यम् ॥ लक्षणापत्तेरिति ॥ पूर्वोत्तरपदयोर्निरूढलक्षणापत्तरित्यर्थः ॥ कर्मधारय इति ॥ कर्मधा. रय एवेत्यर्थः । स्वीकियत इति शेषः॥ लक्षणाभावादिति ॥ समासप्रयुक्तलक्षणाभाबादित्यर्थः । लक्षणास्वी- कारप्रयुक्तगौरवसत्त्वेऽपि अन्यथानुपपत्त्या तत्पुरुषबहु/ह्यन्यतरावलम्बनमावश्यकमित्यभिप्रायेणाक्षिपति ॥न चेति ॥ सङ्करजातीयत्वेनेति ॥ संव्यवहार्यसकरत्वेनेत्यर्थः । असंव्यवहार्यसकराणां चण्डालानामसंभाष्य- स्वादिति भावः ॥ वेदानधिकारादिति ॥ तथाच शूद्रवत् वर्णसङ्करा इति निर्णयसिन्धूदाहृतवामीवचनेन संव्यवहार्यसङ्कराणां शुदतुल्यत्वप्रतिपादनात् न स्त्रीशूद्रौ वेदमधीयातामित्यनेन शूदस्य वेदोच्चारणकर्तृत्वनिषेध- प्रतिपादनात तत्तुल्यसंव्यवहार्यसङ्कराणामपि वेदोच्चारणकर्तृत्वनिषेधलाभ इति भावः ॥ याजनासंभव इति॥ पुरोहितस्येत्यादिः। निषादस्य यागकर्तृत्वासंभवप्रयुक्तयाजकत्वासंभव इत्यर्थः । तथाच निषादस्य वेदोचारणक. र्तृत्वनिषेधप्रयुक्तयागकर्तृत्वासंभवस्य सिद्धत्वादनायत्या श्रुतिघटकनिषादस्थपतीत्यस्य तत्पुरुषबहुव्रीह्यन्यतर. रूपत्वमावश्यकमिति भावः ॥ विद्याप्रयुक्तरिति ॥ यागोपयुक्तवेदाध्ययनप्राप्तेरपीत्यर्थः । तत पवेति ।। दिनकरीयम्. न तत्पुरुष इति ॥ स्वीक्रियत इति शेषः ॥ वेदानधिकारादिति ॥ स्त्रीशूदी नाधीयातामित्यनेन नि- षेधादिति भावः ॥ याजनासम्भव इति ॥ अध्ययनविधिसिद्धज्ञानाभावादिति भावः ॥ तत एवेति ॥ रामरुद्रीयम्. स्य पुत्रीपुत्रोभयतात्पर्यकत्वज्ञाने चेत्यर्थः । इदंच लक्षणायां बीजप्रदर्शनं । तात्पर्यानुपपत्तेलक्षणावीजत्वा- दिति भावः ॥ अध्ययनविधिसिद्धेति ॥ अर्थी समर्थो विद्वानित्यादिना यागोपयुक्तद्रव्यवतः शक्तिम- तो ज्ञानवतश्च यागेऽधिकारित्वप्रदर्शने ज्ञानस्य च स्वाध्यायोऽध्येतच्य इति श्रुत्या प्रयोजनवदर्थप्रतीतिज- नकस्वाध्यायो वेदः कर्तव्य इत्यर्थकतया वेदाध्ययनेनैव ज्ञानसम्पादनस्य वोधितत्वात् । उकनिषेधश्रुत्या च निषादस्याध्ययनस्य निषिद्धत्वाद्वेदाध्ययनजन्यज्ञानाभावेन निषादस्य यजनासम्भवः ॥ तदसंभवे तद्या-