पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१४ कारिकावली [शब्दखण्डः म्पत्योः श्वशुरफ्दे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि । घटा इत्यादौ तु न लक्षणा । प्रभा. पितराविति । जनकदम्पत्यार्बोधतात्पर्यणोच्चारतपितरावितिवाक्य इत्यर्थः । यथाश्रुते दत्तकस्य पितृदयसं. भवेन सरूपैकशेषत्वप्राप्त्या जनकदम्पत्योर्लक्षणेति मूलग्रन्थविरोधापत्तेः ॥ श्वशुराविति ॥ स्त्रीजनक- दम्पत्योर्बोधतात्पर्येणोच्चरितश्शुराचितिवाक्य इत्यर्थः । यथाध्रुते द्विभार्यस्य श्रशुरद्वयसंभवेन सरूपैकशे- षत्वप्राप्त्या स्त्रीजनकदम्पत्योर्लक्षणेति मूलप्रत्याविरोधापत्तेः ॥ इत्यादाविति ॥ इत्यादिवाक्य इत्यर्थः । घटकत्वं सप्तम्यर्थः तस्य पितृपदे भरपदे चान्य यः । आदिपदात् स्वसभ्रात्रुभयबोधतात्पर्येणोच्चरितभ्रा. तरावित्यादेः परिग्रहः । अत्र पिता मालेति सूत्रेण मात्रा सह उक्तौ पितावशिष्यत इत्यर्थ केन पितरावि. त्यत्र श्वशुरः श्वश्वा इति सूत्रेण श्वश्वा सहोक्तौ श्वशुराश्शिष्यत इत्यर्थकेन श्वशुरावित्यत्न भ्रातृपुत्रौ स्वसूदुहि. तृभ्यामिति सूत्रेण स्वसहितभ्यां सहो तो भ्रातृपुत्रौ शिष्येते इत्यर्थकेन भ्रातरौ पुत्रावित्यत्र च विरूपैकशेष इति ध्येयम् । अन्येतु विरूपैकशेषस्थलेऽपि लुप्तमात्रादिशब्दस्मरणेनैव मात्रादिशाब्दबोधसंभवात् न पित्रादिशब्दस्य लक्षणेत्याहुः तन्न पितरो नमस्कृत्येत्यत्र द्वितीयार्थकर्मत्वस्य मातर्यन्वयानुपपत्तेः लप्तमातृश- ददस्य द्वितीयाप्रकृतित्वाभावात् प्रत्ययानामिति व्युत्पत्तेः अस्मृतमातृशब्दस्य ततो बोधानुपपत्तेश्च । केचित्तु पितरौ अनुरावित्यादाविति चैत्रस्य पितरावित्यादिविरूपैकशेषस्थल इत्यर्थः लक्षणेति एकस्य चैत्रादेः पि. तृदयासंभवेन तत्र विरूपैकशेष विना गत्यन्तराभावादिति भाव इति व्याकुर्वन्ति तदसत् एकस्यापि दत्तकस्य पितृदयसंभवन विरूपैकशेपं विनापि सुग्रहत्वेन गत्यभानाभावात् ॥ एवमन्यत्रापीति । एवंशब्दः अपी. त्युत्तरं योज्यः । अपिशब्दः पितरावित्यायुक्त वाक्यसमुच्चायकः । ब्राह्मणीब्राह्मणोभयबोधतात्पर्येणोच्चरितवा- ह्मणावितिवाक्य घटक त्राह्मणपदे शिवाशिवाभयबोधतात्पर्येणोच्चरितशिवावितिवाक्यघटकशिवपदे चेत्यर्थः ।। एवमिति ॥ लक्षणेत्यर्थः । तथाच यथा पितरादित्यत्र पितृशब्दस्य जनकदम्पत्योर्लक्षणा तथा उक्ततात्पर्ये- णोच्चरित ब्राह्मणौशिवावित्यत्रापि ब्राह्मणशब्दशिवशब्दयोः ब्राह्मण ब्राह्मणयोः शिवाशिवयोः लक्षणेति समु- दितवाक्यार्थः । अत्र पुमान् स्त्रियेति सूत्रेण स्त्रिया सहोतो पुमान् शिष्यत इत्यर्थकेन विरूपैकशेष इति ध्येयम् ॥ घटा इत्यादाविति । वहुवचनान्तघटादिपद इत्यर्थः । अवधारणार्थकतुशब्दः लक्षणेत्युत्तरं दिनकरीयम् . श्वशुराचियादाविति ॥ चैत्रस्य पितरावित्यादौ विरूपैकशेषस्थल इत्यर्थः ॥ लक्षणेति ॥ ए- कस्य चैत्रादेः पितृदयासम्भवेन तत्र विरूपैकशेषं विना गत्यभावादिति भावः । विरूपैकशेषत्वेऽपि तत्र लुप्तमात्रादिशब्दस्मरणेनैव शाब्दबोधान्न लक्षणेसन्ये । एवमन्यत्रापीति ॥ पुमान् स्त्रियेत्यनेन यत्रै-- कशेषस्तत्र दम्पतिपूजाप्रकरणे ब्राह्मणावानयेत्यादौ शिवौ नमस्कुर्यादित्यादौ भ्रातरौ पुतावित्यत्रापि प्रमा- णान्तरेण स्त्रीपरत्वज्ञाने भ्रातृपुत्री स्वसदुहितृभ्यामिति विरूपैकशेषात् भ्रातृपदे भातृस्वस्रोः पुत्रपदे च पुत. दुहिनोलक्षणेत्यर्थः ।। न लक्षणेति ।। बहुत्वान्वययोग्याने कोपस्थितेः शक्ति एव सम्भवादिति भावः ॥ रामरुद्रीयम्, कत्यानित्येकवचनान्तस्वरूपः तदर्थत्वात् तत्प्रयोजकत्वात् समाहारदुन्द एव तथोपगमादिति भावः ॥ विरूपैकशेषेति ॥ सरूपागामे कशेष इति सूत्रेण समानानुपूर्वीकपदानामेकशेषविधानात् विभिनानु. पूर्वाकपदस्थले पिता मात्रा श्वशुरः श्वश्वा भ्रातृपुत्रौ स्वसृदुहितृभ्यामित्यादिना मातृश्ववादि. शब्दानां लोपो विधीयते तत्रावशिष्टस्य पितृपदस्यैव जनकदम्पत्योर्लक्षमा । समभिव्याहतपदसत्त्वे तदर्थनिरूपितजनकत्वमेव प्रतीयते । तदभावे तु उच्चारयितुरेवेति मन्तव्यम् ॥ पितृद्वयेति ॥ जनकपुंस्त्वावच्छिन्नस्यैव पितृशब्दार्थत्वादिति भावः । गत्यभावादित्यनेन सरूपघटादिपदस्थले एके- नैव घटपदेन नानाघटबोधसम्भवालक्षणां विनापि गतिः सूचिता । आहुरित्यनेनास्मिन् कल्पे अस्वर- सः सूचितः। तीजन्तु अस्मृतमातृशब्दस्यापि शाब्दबोधानुभवो नानास्मृतिव्यक्तिकल्पने गौरवं च ॥ प्रमा. णान्तरेण अनुमानादिना ॥ स्त्रीपरत्वक्षाने भातृपदस्य भ्रातृभगिन्युभयतात्पर्यकत्वज्ञाने पुत्रपद-